कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 112, कुल 709 में से
संदर्भ में पढ़ें[अगस्त्याश्रमवर्णनम् ] चन्द्रकला-विद्योतिनीसहित। ६३
प्रभावस्य भगवतो महामुनेरगस्त्यस्य, भार्य्यया लोपामुद्रया स्वयमुपरचितआलवालकैः करपुट-सलिलसेक-संवर्द्धितैः सुतनिविशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनापाढिनो पवित्र भस्म-विरचित-त्रिपुण्ड्रकाभरणेन कुश-चीवर-वाससा मौञ्ज-मेखलाकलितमध्येन गृहीत-हरित्पर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाम्ना पवित्रीकृतम्, अतिप्रभूतेध्म-हरणाच्च यस्येध्मवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि शुक्रहरितैश्च कदलीवनैः
प्रकटः स्फुटः प्रभावो माहात्म्यं यस्य तस्य तादृशस्य, भगवतो माहात्म्यवतः महामुनेरकृष्टमनशीलस्य।
इह स्पष्टः पुत्रे वृत्रे दधीच्यस्थना वज्रं निर्माय हते सुराधिपे ब्रह्महत्याणायते मानससरोवरे निलीने सति सुरैः राजविहीनं स्वर्गं दृष्ट्वा चन्द्रवंशीयो राजा नहुषो निजनिजप्रभावैर्वर्द्धयित्वा स्वर्गराज्ये नियुक्तः। इन्द्रपदं चारूढो भवानिन्द्राणीं कथं न कामयते ? इति हेनभिरुपदिष्टे स कदाचित्तां प्रार्थितवान् , ततस्तया कथितम 'राजन ! महर्षिभिर्वाहितो शिविकामारुह्य यदि भवान् मद्भवनमागन्तुं शक्नोति तदा भवन्तमहं सेवेय' इति। राजा तु तदेवाभ्युपेत्य भृग्वादीन् देवर्षीन् वाहकत्वेन संयोज्य शिविकामारूढः इन्द्राणीं कामयमानः तां प्रति व्रजन् शीघ्रं चलितुम् अग्रे गच्छन्तं भृगुं मूर्ध्नि चरणेन 'सर्प सर्प' इति कथयन्नताडयत्, एतन्मध्ये भृगोर्जटासु प्रच्छन्नो भगवानगस्त्यः तच्चरणेन ताडितः 'त्वं सर्पो भूत्वाऽधः पत' इति शशाप, तेन च राजा सर्पो भूत्वा हिमालयकन्दरायामपतदिति महाभारतीया कथा-त्रानुसन्धेया।
भार्ययेति । भार्यया पत्न्या लोपामुद्रया तन्नामिकया स्वयम् आत्मना उपरचितानि निर्मितानि आलवालानि आवापा मूलसलिलधारा येषां तैः 'स्यादालवालमावापः' इत्यमरः, करपुटेन निजहस्तद्वयेन यः सलिलस्य जलस्य सेकः तेन संवर्द्धितैः वृद्धिं प्रापितैः, सुतनिर्विशेषैः पुत्रसदृशः पादपैर्वृक्षैरुपशोभितं भूषितं तदाश्रमपदं मुनिस्थानम्।
तत्पुत्रेनेति । तस्य अगस्त्यस्य पुत्रेण सूनुना, गृहीतम् अङ्गीकृतं व्रतं ब्रह्मचारिव्रतं येन तेन, आपाढः पलाशदण्डः अस्यास्तीति तेन 'आषाढो मतिनां दण्डे मासे मलयपर्वते' इति विश्वः, प्रियाणं पलाशदण्डस्यैव धारणमाह मनुः—'ब्राह्मणो बैल्वपालाशौ' इति, पवित्रं पूतं यद्भस्म तेन विरचितं विहितं त्रिपुण्ड्रकं रेखात्रययुततिलकविशेष एव आभरणं भूषणं येन, तेन, ब्राह्मणानां त्रिपुण्ड्रधारणमाह स्मृतिः—'ब्राह्मणानां त्रिपुण्ड्रकम्' इति। कुशा दर्भा एव चीवरं चीरं वासः वस्त्रं यस्य तेन, मौञ्ज्या मुञ्जविरचितया मेखलया कलितो बद्धः मध्यः कटिभागो येन तेन, तथा च मनुः—मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला' इति। गृहीतं याचितान्नरक्षणार्थमाप्तं हरितं श्यामलं पर्णपुटं पत्ररचितपुटंकं येन तेन, प्रत्युटजम् उटजमुटजं प्रति प्रतिपर्णशालमित्यर्थः। 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः, भिक्षाम अटता भिक्षायै भ्रमणं विदधता शिक्षामित्यत्र 'अकथितञ्च' इत्यनेन कर्मसंज्ञायां 'कर्मणि द्वितीया' इति द्वितीया। दृढदस्युरिति नाम यस्य तेन तादृशेन पवित्रीकृतं तत्र स्थित्या पूतम्।
प्रतीति । पिता अगस्त्यः, अतिप्रभूतानि अतिप्रचुराणि यानि इध्मानि काष्ठानि तेषाम् आहरणाद् आनयनात् हेतोः, इध्मं वहतीति 'इध्मवाह' इत्यन्वर्थं द्वितीयम् अपरं नाम अभिधेयं चकार विदधौ। इध्मवाह इत्यत्र 'कर्मण्यण्' इत्यण्।
शङ्का करते जो दक्षिण दिशा रूपी वधू के मुख के तिलक थे (अगस्त्य तारा दक्षिण दिशा में निकलता है), तथा जिन्होंने एक ही हुङ्कार में नहुष को स्वर्ग से पृथ्वी पर पटक कर अपना प्रभाव प्रकट कर दिया था। वह आश्रम अनेक वृक्षों से सुशोभित था। भगवान् अगस्त्य की पत्नी लोपामुद्रा ने स्वयं अपने हाथों से उनमें दौंड़े बना-बनाकर अपनी अञ्जुलियों के जल से उन्हें सींचा और पाल-पोस कर बढ़ाया था। उन्हें वह पुत्र के समान ही प्यार देती थीं। उनके पुत्र ब्रह्मचारी दृढदस्यु की तपश्चर्या से वह आश्रम और भी पवित्र हो गया था। वह हाथों में पलाशदण्ड लिये, मस्तक पर भस्म का त्रिपुण्ड लगाये, कटि में कुश की लंगोटी
१. तद्भार्यया। २. लोपामुद्रया च। ३. आषाढिव्रतिना। ४. ०चकार। ५. वल्कल, मुञ्ज ००० ।
६. हरित्पर्णे, पन्नपुटेन ० ७. शुक्रकुल ००० ।