भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 111, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 111

६२ कादम्बरी— [कथामुखे-

त्रेण दिवसकर-रथागमने-पथमपनेतुमभ्युद्यतेन अवगणित सकलसुर-वचसा विन्ध्यगिरिणा- प्यनुल्लङ्घिताज्ञस्य, जठरानल-जीर्ण-वातापिदानवस्य सुरासुर-मुकुट-मकरपत्र-कोटि-चुम्बित- चरण-रजसो दक्षिणाशा-वधू-मुख-विशेषकस्य, सुरलोकादेकहुङ्कारनिर्पा तित-नहुष प्रकटै-

समुद्राणां जलानि सलिलानि येन तस्य । इत आरभ्यैऽपप्स्यन्तानि पदानि ऋषेर्विशेषणानि । पुरा लोकान् पीडयितुं कालेयाख्याः केचनासुरा दिनपर्यन्तं समुद्रजलेऽन्तर्हिताः सन्तो निशि बहिरागत्य लोकद्वय-मप्यन्तमुपद्रुतश्चक्रुः । तद्विनाशाय नितरां चेष्ट्यमानो देवाधिपतिरगस्त्यशरणं ययौ। बहुधा प्रार्थितो भगवानगस्त्यो निखिलसमुद्रसलिलानि चुलुके कृत्वा पपाविति महाभारतीया कथात्रातुसन्धेया ।

मेर्विति । मेरोः सुवर्णद्रेः मत्सरात् उन्नतिविषयकशुभद्वेषात् 'मत्सरोऽन्यशुभद्वेष' इत्यमरः अम्बरतले आकाशतले प्रसारितानि विस्तारितानि विक्रटानि बृहन्ति यानि शिरांसि मस्तकानि तेषां सहस्रं समूहो येन स तेन, दिवसकरस्य सूर्यस्य रथागमनपथं स्पन्दनगमनमार्गम् 'श्वःपूरम्धूःप्रयामानदे' इत्यच् प्रत्ययः, अपनेतुं निरसितुम् अभ्युद्यतेन प्रवृत्तेन, तथा अवगणितानि अनाहतानि सकलानां समस्तानां देवानां सुराणां वचांसि दिवसाधिपतेः गति मार्गावरोधनिषेधकवाक्यानि येन तेन विन्ध्यगिरिणाऽपि जलवाल्काद्रिणापि अनुल्लङ्घिता अनतिक्रान्ता सम्मानिता आज्ञा आदेशो यस्य तस्य तादृशस्य ।

पुरा पर्यटन् नारदो योगी विन्ध्याचलमासादयामास, अथ तेन कृतातिथ्यो नारदस्तं गिरिं प्रत्यु-वाच—गिरिमणे ! प्रतिदिनं सूर्यो हि सुमेरुं परिक्रमति त्वां नेति नितरां चेष्टियते मे चेतः अतस्तदर्थ यतस्वेत्यभिधाय निर्गते तस्मिन् तयैवात्मानं विधातुं सूर्यमनुरुन्धन् तेन प्रत्याख्यातोऽतिकोपेन तद्गमन-पथमवरोद्धुं वृद्धिमुपगच्छन् सुरैर्निवारितोऽपि नितरां ववृधे; तदैवतोऽधिकतापाद् प्रज्वलन्तोऽपरतान्चका-राष्टताक्षात्किमपि कर्तुमक्षमा लोका देवान् तुष्टुवुः, ते च द्रुतमेव काश्यामगस्त्याश्रममाजग्मुः, विन्ध्य-वृद्धयवरोधार्थ तममुरुन्धुश्च, अथ तेषामनुरोधेन समायंके भगवत्यगस्त्ये तत्रोपस्थिते विन्ध्याद्रिः शिरोऽ-वनमय्य तस्मै प्रणाममकरोत्, ऋपिस्तु—'प्रिय वत्स ! यावदहं पुनः प्रत्यावृत्तः स्यां तावत्त्वमेवंविघनेवा-वनतो भूत्वा तिष्ठ' इत्युक्त्वा दक्षिणाशां प्रस्थितो नेदानीमपि प्रत्यावृत्तः, विन्ध्याद्रिरपि तदाज्ञयाऽद्युनापि तयैव तिष्ठतीति स्कन्दपुराणान्तर्गतकाशीखण्डोयकथा ।

जठरेति । जठरानलेन उदराग्निना जीर्णः अन्तःपरिपार्कं प्रापितो वातापिदानवो वातापिनामकासुरो येन यस्य तादृशस्य ।

पुरा इल्वलवातापिसंज्ञकौ भ्रातरावसुरविशेषावास्ताम् तत्रेइवलो विप्रस्वरूपं कृत्वा मेषस्वरूप-स्थितं वातापि मारयित्वा तन्मांसं पक्त्वा समुपस्थितान् विप्रान् भोजय.मास, भक्तितवत्सु तेषु 'वातापे ! निर्गच्छ' इतीह्वलेनाकारितः सुरवरप्रतापेन वातापिस्तेषामुदराणि विदार्य निर्यतः, ततश्च तौ तेषां वित्तादिकं चोरितवन्तौ । ततो देवा इत्थं निरीक्ष्य भगवतोऽगस्त्यस्य शरणमाययुः, आगस्त्य च प्रत्यपकर्तुं याचितः स तेनैव रूपेण तन्मांसं भक्षयित्वा उदरे जीर्ण कृतवानिति महाभारतीया क्या ।

सुरासुरेति । सुरा देवा असुरा दानवास्तेषां मुकुटेषु किरीटेषु यानि मकरपत्राणि सुवर्णरचिता मकरा-कारपक्षा, 'पत्रं वाहेनपक्षयोः' इत्यमरः, तेषां कोटयः अग्रभागाः तैः चुम्बितानि स्पृष्टानि चरणरजांसि पादरजषो यस्य तस्य, देवदानवपूजितपदस्येत्यर्थः दक्षिणा अवाची आशा दिनेव वधूः स्त्री तस्या मुखे आनने विशेषकस्य तिलकस्वरूपस्य 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः', चित्रपुण्ड्रविशेषकाः' इत्यमरः। अत्रागस्त्ये तिलकत्वारोपस्य दक्षिणदिशि वधूत्वारोपः कारणमिति परम्परितरूपकम् । तदुक्तं साहित्यदर्पणे—'यत्र कस्यचिदारोपः परारोपस्य कारणम् । तत्परम्परितम्...॥'

सुरेति । सुरलोकात् देवन्गरात् (स्वर्गात् ) एकहुङ्कारेण हुङ्कृतिमात्रेण निपातिते प्रच्याविते नहुषे


लिया था। समस्त देवताओं की प्रार्थना अनसुनी करके मेरु पर्वत की ईर्ष्या के कारण अपनी हजारों चोटियों को आकाश में फैलाकर सूर्य का मार्ग रोक देनेवाला विन्ध्याचल भी जिनकी आज्ञा टालने का साहस न कर सका और पैरों पर झुका ही रह गया, जिन्होंने अपने पेट की आग में वातापि दानव को भी पचा डाला, देवता और राक्षस दोनों ही अपने मुकुटों में बने हुए मत्स्याभूषणों की पत्रलताओं से जिनके चरणों की धूल


१. गतिपथ । २. ' ' 'धुरसन्धू ' ' ' । ३. भक्षयित । ४. मुकुटघटितोमरकतमयपत्रभङ्गकोटि''' । ५. दक्षिणामुखविशेषकस्य । ६. निपतित । ७. प्रकटत ।