कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 110, कुल 709 में से
संदर्भ में पढ़ेंविन्ध्याटवीवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६१
व्याधानुगम्यमान-तरल-तारक-मृगा, क्वचिद्गृहीतव्रतेव दर्भ-चीर-जटा-वल्कल-धारिणी, अपरिमित-बहलपत्रसञ्चयाऽपि सप्तपर्णभूषिता, क्रूरसत्त्वाऽपि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम् । ...तस्याञ्च दण्डकारण्यान्तःपति सकलभुवनविख्यातम् उत्पत्तिक्षेत्रमिव भगवतो धर्म्मस्य, सुरपति-प्रार्थना-पीत-सकल-सागर-सलिलस्य मेरुर-मत्सराद्गवैरतल-प्रसारित-शिरःसह-
अनुगम्यमानम् अत एव तरलं त्रासेन चलं तारकमृगं मृगशिरोनक्षत्रं यस्यां सा तथोक्ता, पक्षे—व्याधैः किरातैः अनुगम्यमानाः, अत एव तरला भयेन लोलाश्चञ्चलाः तारका लोचनकनीनिका येषां ते तथोक्ता मृगा हरिणा यस्यां सा तादृशी। पुरा प्रजापतिः परमसुन्दरीं स्वतनयां सन्ध्यां निरीक्ष्य कामांन्धस्तामन्वधावत्, स्वधर्म्मं रिरक्षिषुः सा पुत्री तु हरिणीस्वरूपमाश्रित्य पलायमाना महादेवशरणं गतवती, प्रजापतिरपि हरिणस्वरूपमाश्रित्य तत्राम्यनुजगाम महादेवस्तु तद्विरीक्ष्य प्रजापतेः शिरःकर्त्तनाय स्वधनुषा वाणं मुमोच, तदा तु प्रजापतिरत्यन्तं लज्जितस्त्रस्तश्च सन् मृगशिरोनक्षत्रे प्रविष्टवान् शिवस्य वाणोऽपि आर्द्रानक्षत्रस्वरूपेण तदन्वतिष्ठदिति शिवपुराणीया कथानुसन्धेया।
क्वचिदिति । गृहीतं स्वीकृतं व्रतं नियमो यया सैवंविधा सुन्दरीव, दर्भाः कुशाः, चीराणि जीर्णवसनखण्डानि, जटाः संहतकेशाः ‘शिखाजटे संहतौ कचौ’ इत्यनेकार्थः, वल्कलानि च परिधेयानि परिधारयितुं शीलं यस्याः सा तथोक्ता, पक्षे—दर्भाः कुशाः, चीराः तृणविशेषाः, जटाः मूलानि वल्कलानि च धारयितुं शीलं यस्याः सा तादृशी ‘मूले लग्नकचे जटा’ इत्यमरः।
अपरीति । अपरिमित्तानि सङ्ख्याक्रान्तानि बहलानि सघनानि पत्राणि दलानि तेषां सञ्चयः समूहो यस्यां सा तथोक्ताऽपि सप्तभिः पर्णैः भूषितेति विरोधः, सप्तपर्णसंज्ञकतन्निराजितेति तत्परिहारः। ‘यत्र विरोध इव भासेत विरोधोऽसौ’ इति लक्षणेन विरोधाभासोऽलङ्कारः। एवमग्रेऽपि । क्रूरसत्त्वेति । क्रूरं दुष्टं सत्त्वं हृदयं यस्याः सा तथोक्ताऽपि मुनिजनसेवितेति विरोधः ‘सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः’ इत्यनेकार्थः, क्रूराः हिंस्राः सत्त्वा व्याघ्रादिप्राणिनो यस्यां सा तादृशीति तत्परिहारः तथा पुष्पवती रजोधर्म्मवत्यपि पवित्रेति विरोधः, पुष्पाणि प्रसूनानि अस्याः सन्तीति तत्परिहारः।
तस्याञ्चेति । तस्यां विन्ध्याटव्याम् अगस्त्यस्य कुम्भयोनेः आश्रमपदं तपोभूमिः आसीदिति वक्ष्यमाणेन सम्बन्धः । इह प्रथमान्तानि पदानि आश्रमस्य विशेषणानि । दण्डकारण्यस्य दण्डकसंज्ञकवनस्य अन्तःपाति तन्मध्यवर्ति । अत्रेदमितिवृत्तम्—सूर्यवंशीयः कश्चन दण्डको नाम भूपतिः शुक्राचार्यगुरोः अरजाख्यां पुत्रीं बलात्कारेण घर्षितवान्, तच्छ्रुत्वातीव कुपितः शुक्राचार्यस्तं नृपमभिशापाप-त्वं विनङ्क्ष्यसि, अद्यारम्य सप्तादिनाभ्यन्तरे चेदं राज्यं महावनतया परिणतं भविष्यतीति । तच्च विन्ध्याचलशिखरप्रदेशस्थं राज्यं दण्डकारण्यं सञ्जातम् इति । रामायणे प्रसिद्धमेतत् ।
सकलेति । सकलानि समस्तानि यानि भुवनानि भूभुव आदीनि तेषु विख्यातं प्रसिद्धम् । भगवतो महाम्यवतो धर्मस्य सुकृतस्य उत्पत्तिक्षेत्रमिव जन्मभूमिरिव, तत्र सर्वप्रकारधर्मोत्पत्तेरित्याशयः । अत्र जात्युत्प्रेक्षा, सा च भावाभिमानिनी वाच्येत्यवगन्तव्या ।
सुरेति । सुरपतिः इन्द्रः तस्य प्रार्थनया याञ्चया पीतानि चुलुकीकृतानि सकलसागराणां समस्त-
जिससे वह ऐसी प्रतीत होती थी मानो व्याधिरूपधारी भगवान् शंकर से खदेड़े गए मृगशिरा से शोभित आकाश की लक्ष्मी हो,—कहीं कुश, चीर (चीड़ नाम का वृक्ष), जटाओं और छालों के कारण वह ऐसी प्रतीत होती थी मानो कुश की लंगोटी मारे तथा वल्कलों की काछनी काछे कोई जटाधारिणी तपस्विनी हो, कहीं अत्यन्त घने पत्तोंवाले छितवन के वृक्षों से भरी होने के कारण वह असंख्यपछवा होते हुए भी सप्तपर्णा प्रतीत होती थी। यद्यपि उसमें दुष्ट प्राणियों के समान अनेक हिंसक जन्तु भरे थे, किन्तु उसमें अनेक मुनियों के आश्रम भी स्थित थे। यद्यपि वह फूलों से लदी होने के कारण रजस्वला सी सी प्रतीत होती थी, किन्तु वह अत्यन्त पवित्र भी थी।
उस विन्ध्याटवी में दण्डक वन के बीच सभी लोकों में प्रसिद्ध भगवान् धर्मराज की जन्मभूमि के समान महर्षि अगस्त्य का पवित्र आश्रम था, जिन्होंने भगवान् इन्द्र की प्रार्थना पर समुद्र का सभी जल ही पी
१. बहुल २. सप्तपर्णैर्भूषिता । ३. भुवनख्यातम्, भुवनतलख्यात । ४. निधीन । ... जलस्य । ५. मेरुशिखर । ७. गगनतल... । ८. शिखरस्य ।