भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 116, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 116

पंपासरोवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६७

तस्य चैवंविधस्य सम्प्रत्यपि प्रकटोपलक्ष्यमाण-पूर्ववृत्तान्तस्याश्रमस्य नातिदूरे जलनिधि-पान-कुपित-वरुणोत्साहितेन अगस्त्यमत्सरादाश्रमसमीपवर्त्त्यपर इव वेधसा महाजलनिधिरुत्पादितः प्रलयकाल-विघटिताष्ट-दिग्भाग-सन्धिनन्धं गगनतलमिव भुवि निपतितम्, आदिवराहसमुद्धृत-धरामण्डल-स्थानमिव सलिलपूरितम्, अनवरत-मज्ज-दुन्मद-शबरकामिनी-कुचकलस-लुलित-जलम्, उत्फुल्ल-कुमुद-कुवलय-कह्लारम्, उद्भिद्रारविन्द-

पातालादुत्थानम्; लङ्कां विजित्याग्निप्रवेशेन विशुद्धायामपि तस्यां लोकापवादभीत्या निर्वासिता रामेण पुनः परीक्षाप्रकरणे भूमितलप्रवेशः ततश्चेदमभ्युत्थानमिति प्रतीयते ।

तस्येति । एवंविधस्य उक्तरूपस्य तस्य च अगस्त्याश्रमस्य सम्प्रत्यपि अस्मिन् समयेऽपि प्रकटं स्पष्टम् उपलक्ष्यमाणा दर्शितदिशा ज्ञायमानाः पूर्ववृत्तान्ताः पूर्वोदन्ता यस्य तस्य 'वार्त्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्' इत्यमरः नातिदूरे समीप एव पम्पाभिधानं पम्पेतिसंज्ञकम् पद्मसरः कमलकासारः 'कासारः सरसी सरः' इत्यमरः, विद्यत इति वक्ष्यमाणेन सम्बन्धः । इह प्रथमान्तपदानि पद्मपरोविशेपणानि । जलनिधयः समुद्राः तेषां पानेन चुलुकीकृतेन कुपितः जलाधिपतित्वात् क्रुद्धो यो वरुणः प्रचेताः 'प्रचेता वरुणः पाशी' इत्यमरः, तेन उत्साहितः अन्यं महासमुद्रं निर्मातुं दत्तोत्साहः तेन तथोक्तेन, वेधसा प्रजापतिना 'स्रष्टा प्रजापतिर्वेधाः' इत्यमरः, अगस्त्यमत्सरात् अगस्त्यं मुनिं प्रति शुभद्वेषात् 'मत्सरोऽन्यशुभद्वेषः' इत्यमरः तस्य अगस्त्यस्य आश्रमसमीपवर्ती मुनिस्थाननिकटवर्ती, अपरोऽन्यो महाजलनिधिरिव महासागर इव उत्पादितः निर्मितः अतिविस्तृतत्वादित्याशयः । इह महाजलनिधिरिवेति द्रव्योत्प्रेक्षा ।

प्रलयेति । प्रलयकाले कल्पान्तसमये विघटिताः विस्खलिताः, अष्टानाम् अष्टसंख्याकानां दिशां हरितां विभागाः प्रदेशाः नलपर्वतावधिकाः तेषां सन्धयः संयोजनानि तेषां बन्धः बन्धनानि यत्र एवम्भूतम्, भुवि पृथिव्यां निपतितं गगनतलमिव नभस्तलमिव 'नभोऽन्तरिक्षं गगनम्' इत्यमरः, स्थितं तिष्ठत् अत्यन्तस्वच्छत्वादतिविस्तृतत्वाच्चेत्यभिप्रायः । अत्रापि गगनतलमिवेति द्रव्योत्प्रेक्षा ।

आदीति । आदिवराहेण विष्णोस्तृतीयावतारेण महावराहरूपेण समुद्धृतं सम्यक् प्रकारेण जलाद्बहिर्नाीतं यत् धरामण्डलं भूमण्डलं तस्य स्थानम् अवकाशः सलिलपूरितमिव जलपूरितमिव स्थितम् अतिविस्तृतत्वादिति भावः। अत्र जलपूरितमिवेति क्रियोत्प्रेक्षा ।

अनवरतेति । अनवरतं सन्ततं मजन्त्यः अवगाहमानाः या उन्मदा यौवनगर्वाधिष्ठिताः शबरकामिन्यः भिल्लनार्यः तासां कुचकलसैः स्तनघटैः लुलितानि आलोडितानि जलानि सलिलानि यस्य तत् तथोक्तम् । इह कुचा एव कलसा इति विग्रहे रूपकम्, किं वा कुचाः कलसा इवेति विग्रहे उपमेति द्वयोरपि वारयितुमशक्यत्वाद् सन्देहसङ्करः ।

उत्फुल्लेति । उत्फुल्लानि प्रस्फुटितानि कुमुदानि श्वेतोत्पलानि कुवलयानि नीलोत्पलानि कह्लाराणि रक्तोत्पलानि च यत्र तत् तादृशम् । 'सिते कुमुदकैरवे' 'स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च' इत्यमरः ।

उद्भिदेति । उद्भिद्राणि विकसितानि यानि अरविन्दानि पद्मानि तेषां मधुबिन्दुभिः मकरन्दकणि-

उस आश्रम में पड़ा हो और जहाँ सीता के वियोग में मन बहलाने के लिए राम ने उसका जो चित्र कुटिया में बना रखा था उसे आज भी कोल-किरात आदि वनचर इस प्रकार देखते हैं मानों राम का निवास स्थान देखने के लिए उत्सुक जानकी पुनः पृथ्वी से बाहर निकल कर वहाँ सुशोभित हों ।

जहाँ पहले की सभी घटनाएँ आज भी स्पष्ट सी दिखाई पड़ती हैं, उस अगस्त्य के आश्रम से थोड़ी ही दूर पर अथाह, अत्यन्त विस्तृत, अद्वितीय और जल का समुद्र सा पम्पा नामवाला कमलों से भरा हुआ एक सरोवर था । वह ऐसा प्रतीत होता था मानों समुद्र का समस्त जल पी लेनेवाले अगस्त्य को जलाने के लिए क्रुद्ध वरुण देव से उकसाये गए ब्रह्मा ने उनके आश्रम के समीप एक दूसरा महान् सागर ही उत्पन्न कर दिया हो; अथवा प्रलय काल में आठों दिशाओं की जोड़ें खुल जाने के कारण आकाश-तल ही पृथ्वी पर गिर पड़ा हो। या समुद्र के भीतर से आदिवराह द्वारा उठाये गये पृथ्वीमण्डल का उसके जल से भरा हुआ स्थान हो । इसका जल निरन्तर स्नान के समय खुलकर खेलनेवाली मतवाली भीलनियों के कुचकलसों (घड़े के समान


१. 'एवंविधस्य' इति पाठः क्वचिन्नानुपपद्यते । २. कुपितवरुणप्रोत्साहितेन । ३. वह्निवि । ४. '''विघटिताष्टदिग्विभाग''' । ५. बन्धनम् । ६. सलिलपरिपूरितम् ।