कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 117, कुल 709 में से
संदर्भ में पढ़ें६८ | कादम्बरी- | [ कथामुखे-
मधुबिन्दु-बद्धचन्द्रकम्, अलिकुल-पटलान्धकारितसौगन्धिकम्, सारसित-समद-सारसम्, अम्बुरुह-मधुपान-मत्त-कलहंसकामिनी-कृत-कोलाहलम्, अनेक-जलचर-पतङ्गतोत-सञ्चलन-चलित-वाचाल-वीचिमालम्, अनिलोल्लासित-कल्लोल-शिशिर-शीकरारब्ध-दुर्दिनम्, अशङ्कितावतीर्णानिमग्नक्रीडारागिणीभिः स्नानसमये वनदेवताभिः केशपाशकुसुमैः सुरभीकृतम्, एकदेशावतीर्णमुनिजनापूर्यमाण-कमण्डलु-गलज्जलध्वनि-मनोहरम्, उन्मिषदूत्पलवन-मध्यचारिभिः सवर्णतया रसितानुमेयैः कादम्ब-कदम्बकैरारोवितम्, अभिषेका-
काभिः यद्वा सलिलोपरि बद्धा विहिताः चन्द्रकाः मयूरबर्हचन्द्राकारा यत्र तत् तादृशम्।
अलीति। अलिकुलानां भ्रमरवृन्दानां पटलेन समुदायेन अन्धकारितानि आवृतानि सौगन्धिकानि कह्लाराणि यत्र तत्। 'सौगन्धिकं तु कह्लारम्' इत्यमरः। अत्र कुलपटलयोर्मध्ये कस्याप्येकस्यैव कथनेनेष्ट-सिद्धावपरस्य ग्रहणं निरर्थकमेवेति कुशलाः।
सारसितेति। मारसितेन शब्देन सह वर्तमान अत एव समदा मद्योत्कटा सारसा लक्ष्मणाप्रभृतयः यत्र तत् 'हंसस्य योषित्परटा सारसस्य तु लक्ष्मणा' इति कोशः। अत्र छेकानुप्रासः, तदुक्तं दर्पणे—'छेको व्यञ्जनसंहत्य सकृत्साम्यमनेकधा' इति।
अम्बुरुहेति। लम्बुरुहाणि पद्मानि तेषां यन्मधु मकरन्दः तस्य पानेन मत्ताः मद्योत्कटा याः कलहंस-कामिन्यः वरटाः ताभिः कृतो विहितः कोलाहलः कलकलो यत्र तत् तादृशम्।
अनेकेति। अनेके सहस्रशो ये जलचरा नक्रपादयो जलजन्तवः तेषां पतङ्गानां पक्षिणाञ्च शतस्य मण्डलस्य सञ्चलनेन गमनागमनेन चलिता शोभां प्राप्ता वाचाला मुखरायमाणा च वीचिमाला लहरि-सन्ततिर्यत्र तत् तादृशम्। इह छेकानुप्रासः।
अनिलेति। अनिलेन पवनेन उल्लासिता उत्थानं प्रापिता ये कल्लोला महातरङ्गाः तेषां शिशिरशीकरैः शीतलाम्बुकणैः आरब्धं कृतं दुर्दिनं मेघाच्छन्नदिनं यत्र तत् तादृशम्, वृष्टिजलस्येव तेषामपि पतनादि-स्याशयः। अत्र वृत्त्यनुप्रासः, तदुक्तं दर्पणे—
'अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा। एकस्य सकृदप्येवं वृत्त्यनुप्रास उच्यते ॥'
अशङ्कितेति। अशङ्कितं निर्जनत्वेन शङ्कारहितं यथा स्यात्तथा अवतीर्णाभिः अन्तःप्रवेशं कृतवतीभिः, भग्नः क्रीडायां जलकेल्यां रागिणीभि लब्धाधिकमनोरथयुक्ताभिः वनदेवताभिः वनाधिष्ठातृदेवीभिः। स्नान-समये मज्जनकाले केशपाशानां कचसमूहानां कुसुमैः सुमनोभिः सुरभीकृतं सौगन्ध्यं नीतम्।
एकेति। एकदेशे एकभागे अवतीर्णैः अन्तःप्रवेशं कृतवद्भिः मुनिजनैः तपस्विगणैः आपूर्यमाणा जलेन प्रियमाणा ये कमण्डलवः देवादिपूजनपात्रविशेषाः तेषां गलैः अव्यक्तमधुरैः जलध्वनिभिः सलिल-पूरणशब्दैः मनोहरं मनोज्ञम्।
उन्मिषदिति। उन्मिषतः प्रस्फुटत उत्पलवनस्य श्वेतकमलविपिनस्य मध्येऽन्तः चरन्तीभिः गच्छन्तीभिः, अत एव सवर्णतया श्वेतकमलकादम्बकदम्बकयोः सादृश्येन रसितेन शब्देन अनुमेयैः अनुमातुं
गोल-मटोल बड़े बड़े स्तनों) से टकरा-टकरा कर चञ्चल होता रहता था। उसमें कहीं कुमुद (कोई), कहीं कुवलय (नील कमल) और कहीं कह्लार (श्वेतकमल) खिले थे, वहीं फूले हुए कमलों से टपकी हुई मधु की बूँदें (पुष्परस) जल पर फैलकर मोरचन्द्रिकाओं के समान लगती थीं, कहीं भौरों के झुण्ड से ढँके श्वेत-कमल काले-काले दिखाई पड़ते थे, कहीं मत्तवाले सारस कूँ-कूँ किया करते थे, कहीं कमलों का रस पी-पीकर मदमाती हंसिनियाँ कोलाहल किया करती थीं, कहीं सैकड़ों की संख्या में अनेक जलपक्षियों के साथ-साथ तैरने से चञ्चल लहरों में कल-कल हुआ करती थी, कहीं वायु से उठती हुई बड़ी-बड़ी लहरें उछलती हुई ठण्डी-ठण्डी बूँदों की झड़ी लगाये रहती थीं, कहीं निर्भय होकर सरोवर में उतरी हुई जल-क्रीडा की प्रेमी वनदेवियाँ स्नान करते समय बालों में गुथे हुए फूलों से जल को सुगन्धित बना देती थीं, कहीं एक ओर जल में उतरे हुए मुनियों के
१. ॰॰॰मधुद्रव, मधुबिन्दुनिष्यन्द॰॰॰, मकरन्दबिन्दुबद्ध। २. आरसित॰॰॰। ३. ॰॰॰पतङ्गितशत॰॰॰। ४. सङ्घटित । ५. ॰निनिरोद्भासित॰॰॰। ६. इतरोत्फुल्लशिशीरत्तारचित। ७. रत्नः। ८. केशकुसुमैः। ९. कलध्वनि । १०. उन्मिषितः॰॰॰। ११. कादम्बैः।