भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 118, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 118

पम्पासरोवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता ।

वतीर्ण-पुलिन्दराज-सुन्दरी-कुच-चन्दनधूलि-धवलित-तरङ्गम्, उपान्त-जात-केतकी-रजःपटल-बद्ध-कूल-पुलिनम्, आसन्नाश्रमगत-तापसक्षालितार्द्र-वल्कल-कषाय-पाटल-तट-जलम्, उपतट-विटपि-पल्लवानिल-वीजितम्, अविरल-तमाल-वीधिकान्धकारिताभिः वालिनिर्वासितेन संचरता प्रतिदिनमृष्यमूकवासिना सुग्रीवेणावलुप्त-फलै-लघु-लताभिः,

योग्यैः न तु पार्थक्येन चाक्षुषप्रत्यक्षगम्यैरित्याशयः, कादम्बकदम्बकैः कलहंससमूहैः आसेवितं समन्तात्पर्युपासितम् । ‘कादम्बः कलहंसः स्यात्’, स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम्’ इत्यमरः । इह रसितानुमेयैरित्यनेन मीलितालङ्कारो ध्वन्यते, तथाहि दर्पणे—मीलितं वस्तुनो गुप्तिः केनचित्तुल्यलक्ष्मणा’ । एवञ्च वस्तुना अलङ्कारध्वनिरिति व्याख्यातारः ।

अभिषेकेति । अभिषेकाय मज्जनार्थम् अवतीर्णाः सलिलान्तःप्रविष्टा याः पुलिन्दराजस्य शबराधिपतेः सुन्दर्यः कामिन्यः तासां ये कुचा वक्षोजाः तेषां चन्दनधूलिभिः लिप्तशुष्क-मलयजपांसुभिः धवलिताः शुभ्रीकृताः तरङ्गा ऊर्मयो यस्य तत् तादृशम् । इह शुभ्ररूपसंपादनासम्बन्धाभावेऽपि तत्सम्बन्धः प्रतिपादनादतिशयोक्तिः ।

उपान्तेति । उपान्ते पानीयनिकटे जातानाम् उत्पन्नानां केतकीनां मालतीपुष्पाणां रजःपटलैः धूलिसमूहैः बद्धं रचितं कूले तटसमीपे पुलिनं सैकतं यस्य तत्। इह पूर्वोक्तोऽलङ्कारः ।

आसन्नेति । आसन्नाः समीपवर्त्तिनो ये आश्रमाः तपस्विस्यानानि तेभ्य आगतैरायातैः तापसैः मुनिजनैः क्षालितानां धौतानाम् आर्दाणां जलाविलानां तत्तृणं कर्त्तयित्वा नयनेन निर्यासाविर्भावादित्यभिप्रायः, वल्कलानां परिधेयवृक्षत्वचां कषायैः 'तुवरस्तु कषायोऽस्त्री' इत्यमरः पाटलं श्वेतरक्तं 'श्वेतरक्तस्तु पाटलः' इत्यमरः, तटजलं तीरान्तिकसलिलं यस्य तत् तादृशम्, तटनिकट एव क्षालनादित्याशयः ।

उपेति । तटस्य समीपमुपतम् तत्र उपतटे तीरनिकट इत्यर्थः, ये विटपिनः पादपाः तेषां पल्लवाः किसलयानि तैः यः अनिलो वायुः तेन वीजितं व्यञ्जनेनेवाचरितम् ।

अविरलेति । अविरला सान्द्रा या तमालवीथिका तापिच्छपङ्क्तिः 'कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि' इत्यमरः तया अन्धकारिताभिः कृतान्धकाराभिः । इतोऽग्रे तृतीयान्तानि बहुवचनपदानि वनराजिभिरित्यग्रिमस्य विशेषणानि ।

वालीति । वालिना इन्द्रात्मजेन वानराधिपतिना निर्वासितेन राजधानीतो निष्कासितेन, प्रतिदिनं प्रत्यहं सञ्चरता तत्रागच्छता, ऋष्यमूकाख्यो गिरिस्तत्र वासिना निवसनशीलेन, सुग्रीवेण वायुकुलजेन अवलुप्सानि दूरीकृतानि फलानि याम्यः ताः, अत एव लघ्व्या फलभाररहिताः लताः वतयो यासु ताभिः तादृशीभिः ।

पुरा कश्चन मायावी नामासुरः वालिसुग्रीवाभ्यां सह रणं कुर्वाणः तयोः प्रहारेणात्यन्तखिन्नः केनचिद्विलेनाधः प्रविष्टः । तदा वाली सुग्रीवमाह—सुग्रीव ! त्वं तावद् इहैव बिलमुखे तिष्ठ यावदहं तं निह-


कमण्डलु भरने से कुल-कुल की मनोहर ध्वनि सुनाई पड़ती थी, कहीं खिले हुए श्वेत कमलों के बीच समान रंग होने के कारण मधुर ध्वनि से ही पहिचान में आनेवाले हंसों के झुण्ड तैरा करते थे, कहीं जल में उतरकर स्नान करनेवाली पुलिन्दराज (भीलों के स्वामी) की सुन्दरियों के स्तनों पर लगी हुई चन्दन की धूल लहरों को उजली बना देती थी, कहीं किनारों की रेतियॉ समीप में ही उगे हुए केवड़ों की धूल से पटी रहती थीं, कहीं समीप के आश्रमों से आये हुए मुनि लोग गीली-गीली छालें (तत्काल की उतारी गई वृक्षों की छाल) धो-धोकर किनारे के जल को कसैला और गुलाबी बना देते थे, और कहीं किनारों के वृक्ष पंखों के समान हिलते हुये पत्त्वों की मन्द-मन्द वायु से जल में कोमल-कोमल लहरियाँ उठाया करते थे । उसके चारों किनारे वन पंक्तियों से घिरे थे जिनमें कहीं घने तमाल वृक्षों की झुरमुटें अन्धकार से ढंकी रहती थीं, कहीं फलों से रहित हल्की-फुल्की लताऐं ऐसी प्रतीत होती थीं मानों बालि से निकाले गये ऋष्यमूक पर घूमने वाले सुग्रीव ने उनके फलों को निर्मूल कर दिया हो, कहीं जल में खड़े होकर तपस्या करने वाले मुनि


१. ०००शबरी००० । २. ०००धवलिततरन् । ३. 'जात' इति पाठः क्वचिन्नाप्यस्ति । ४. वृक्षपल्लवाङ्कुडानिल०० ।
५. वोध्यन्धकारिताभिः । ६. इह 'च' इत्यधिकः पाठः क्वचित् । ७. दलित ।