कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 119, कुल 709 में से
संदर्भ में पढ़ें| ५० | कादम्बरी- | [ कथामुखे- |
|---|
उदवासितापसानां ¹देवतार्चनोपयुक्त-कुसुमाभिः उत्पतज्जलचर-पतङ्ग²-पक्षपुट-विगलित-जल-बिन्दुसेक-सुकुमार-किसलयाभिः लतामण्डप-तले³-शिखण्डि-मण्डलारब्ध-ताण्डवाभिः अनेक-कुसुम-परिमल-वाहिनीभिर्वनदेवताभिः स्वश्वास-वासिताभिरिव वनराजिभिरुपारूद्धतीरम्, अपरसागरशङ्किभिः सलिलमादातुमवतीर्णैर्जलधरैरिव बहल-पङ्क-मलिनैर्वनकरिभिरनवरत-पीयमानैसलिलम्, अगाधमनन्तमप्रतिमम् अपां निधानं पम्पाभिधानं पद्मसरः।
त्यागच्छामि' इति विज्ञाप्य स्वयं तं हन्तुं तद्विलमेव प्राविशत्, परन्तु व्यतीते बहुकाले तत्प्रतीक्षया तिष्ठन्नपि सुग्रीवः किं कर्तव्यमिदानीमित्येवं विचारयत्येव बिलमुखादाविर्भूतं शोणितम्, अथ तत् निरीक्ष्य 'प्रायो मम भ्राता वाली तेन हत' इति निश्चित्य बिलमुखे बृहन्तमेकं प्रस्तरं स्थापयित्वा किष्किन्धायामागत्य बान्धवेभ्यस्तद्वृत्तान्तं निवेद्य स्वयमतिखिन्नो वालिराज्यं शशास। अथातीते कियत्सन्मये वाली तमसुरं निहत्य तेनैव पथा प्रत्यावृत्तो बिलमुखे प्रस्तरं वीक्ष्य कुपितः पादाघातेन तं दूरीकृत्य किष्किन्धामागत्य सुग्रीवचरितमतिक्रमित्यवधार्य स्वराज्यद्बहिर्निष्कास्यामास सोऽपि तद्दुःखदुःखितः ऋष्यमूकगिरौ निवासमकरोदिति रामायणीया किष्किन्धाकाण्डीया कथा।
उदवासीति। उदके जले वसन्तीत्युदवासिनश्च ते तापसास्तपस्विनश्चेति तेषां तथोक्तानाम्, 'पेषं वासवाहनविषु च' इत्यनेनोदकस्योदादेशो ज्ञेयः। देवतार्चनेषु देवपूजासु उपयुक्तानि आवश्यकानि कुसुमानि पुष्पाणि यासु ताभिः तथोक्ताभिः।
उत्पतदिति। उत्पतन्त उड्डीय गच्छन्ती ये जलचराः नक्ररूपाद्याः पतङ्गाः पक्षिणः तेषां पक्षपुटेभ्यः विगलिताः च्युता ये जलबिन्दवः सलिलकणाः तैः सेकः तेन सुकुमाराणि विशेषमृदुलानि किसलयानि पल्लवानि यासां ताभिः तथोक्ताभिः।
लतेति। लतानां व्रततीनां ये मण्डपाः आच्छादितस्थानानि तेषां तलेषु अधःप्रदेशेषु शिखण्डिमण्डलेन मयूरगणेन आरब्धं प्रवर्त्तितं ताण्डवं नृत्यं यासु ताभिः तथोक्ताभिः, 'ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने, इत्यमरः इह दृष्टथनुप्रासस्तल्लक्षणञ्चोक्तं प्राक्।
अनेकेति। अनेकेषां बहुप्रकाराणां कुसुमानां पुष्पाणां परिमलान् गन्धान् वहन्तीति ताः तादृशीभिः 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः, अत एव वनदेवताभिः विपिनाधिष्ठातृदेवीभिः (कर्त्रीभिः) स्वश्वासेन स्वीयश्वासवायुना वासिताभिः सुगन्धीकृतामिरिव वर्तमानाभिः, वनराजिभिः वनपङ्क्तिभिः उपरुद्धानि व्याप्तानि तीराणि तटानि यस्य तत् तथोक्तम्, सरोविशेषणमिदम्। अत्र वासिताभिरिवेति क्रियोत्प्रेक्षा।
अपरेति। 'अयम् अपरो भिन्नः सागरः समुद्रः' इति शङ्कां भ्रमं जनयन्तीति तैः तथोक्तैः, सलिलं जलम् आदातुं ग्रहीतुम् अवतीर्णैः गगनादुत्तरितैः जलधरैः वारिदैरिव बहलपङ्कैः शरीरलग्नाधिककर्दमैः मलिनाः श्यामा तैः तथोक्तैः, वनकरिभिः आरण्यकहस्तिभिः अनवरतं निरन्तरम् आपीयमानानि समन्तात् पानकर्मीक्रियमाणानि सलिलानि पानीयानि यस्य तत् तादृशम्। अत्र जलधरैरिवेति जातिस्वरूपोत्प्रेक्षा।
अगाधमिति। अगाधम् अप्राप्ततलम् अनन्तं शेषरहितम् अतिमहदित्यर्थः। अप्रतिमं स्वसादृश्यरहितम्; अपां जलानां निधानं शेवधित्वरूपम् अपरिमितसलिलयुक्तत्वादित्याशयः। 'पम्पा' इति अभिधानं नामधेयं यस्य तत्, पद्मानां कमलानामाकरीभूतं सरः कासारः पद्मसरः। अन्वयस्तु प्रागेवोक्तः।
उनके फूलों को तोड़-तोड़कर देवताओं को चढ़ाया करते थे, कहीं उड़ते हुए जलपक्षियों के पंखों से झड़ी हुई बूँदों के कारण उनकी भींगी हुई कोपलें और भी गुदगुदी हो उठी थीं, और कहीं उन लताओं की झुरमुटों में मोर मंडल बाँध कर नाचा करते थे। तरह-तरह के फूलों की सुगन्ध से वन-पंक्तियाँ इस प्रकार महमह! उठों
१. 'पतङ्ग' इति पाठः क्वापि।
२. 'स्थित' इत्यधिकः पाठः क्वापि।
३. वनदेवताभिः श्वास, वनदेवताभिः श्वास।
४. रङ्ग...।
५. शोषवान्।
६. अप्रतिष्ठम्।