कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 120, कुल 709 में से
संदर्भ में पढ़ेंशाल्मलीतरुवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ७१
यत्र च^१ विकच-कुवलय-प्रभा-श्यामायमान-पक्षपुटान्यद्यापि मूर्त्तिमद्रामशापग्रस्तानीव मध्यचारिणामालोक्यन्ते^२ चक्रवाकंनाम्नां^३ पक्षिणां मिथुनानि ।
तस्यैव^४ पंम्पासरसः पश्चिमे तीरे राघव-शर-प्रहार-जर्जरित-जीर्ण-तालतरु-षण्डस्य^५ च समीपे दिग्गज-करदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव तुङ्ग-स्कन्धावलम्बिभिरनिलवेल्लितैरहिनिर्मोकैर्धृतोत्तरीय इव दिक्चक्रवाल-परिमाणमिव गृह्णता भुवनान्तरालविप्रकीर्णेन शाखासंचयेन प्रलयकाल-ताण्डव-प्रसारित-भुजसहस्रमुद्-
यत्रेति । यत्र यस्मिन् पम्पासरास; विकचानि विकसितानि यानि कुवलयानि नीलोत्पलानि 'नीलोत्पलं कुवलयम्' इत्यमरः, तेषां याः प्रभाः कान्तयः ताभिः श्यामायमानानि निकटसवंरणात् श्यामवदाचरन्ति पक्षपुटानि येषां तानि तथोक्तानि । मध्यचारिणां पम्पासरोवरान्तर्भ्रमणकारिणां चक्रवाकनाम्नां रथाङ्गसंज्ञकानां पक्षिणां पतत्रिणां मिथुनानि युग़लानि, अद्यापि एतावत्समयपर्यन्तमपि मूर्त्तिमान् देदीप्यमानरूपो यो रामस्य दशरथतनयस्य शापः अभिसम्पातः तेन ग्रस्तानीव गृहीतानीव आलोक्यन्ते दृश्यन्ते, तत्र विद्यमानैर्लोकैरिति शेषः ।
इह रामशापश्यामायमानपक्षपुटत्वेन ग्रस्तानीवेति वाच्या क्रियोत्प्रेक्षा । यद्यपि 'मालिन्यं व्योम्नि पापे' इति कविसमयप्रसिद्ध्या पापस्यैव मलिनत्वेन वर्णनं विहितं न तु शापस्य, तथापि तत्सादृश्येन शापस्य तथा वर्णनं कृतमित्यवधेयम् । इह च 'पम्पातटे सीताविरहविह्वलं दाशरथिं वीक्ष्य चक्रवाकाः हासं विदधुः ततस्तानेवं निरीक्ष्य 'यथा मम प्रियाविश्लेषः तथैव भवतामपि क्षपायां भविष्यति' इति रामः शशापेत्यैतिहासिकिकी वार्त्ता ।
तस्यैवेति । तस्य पम्पाभिधेयस्यैव पम्पासरासः कमलकासारस्य, पश्चिमे तीरे प्रतीचि तटे, राघवस्य रामस्य ये शरा बाणाः तेषां प्रहारेण वेधेन जर्जरितानां विदारितानां जीर्णानां प्राचीनानां, तालतरूणां तालद्रुमाणां षण्डस्य समुदायस्य समीपे महान् महीयान् जीर्णः पुरातनः शाल्मलीवृक्षः रोचनाख्यस्तरुरस्तीत्यग्रिमेण सम्बन्धः । अत्र प्रथमान्तानि पदानि शाल्मलीवृक्षविशेषणानि बोध्यानि । दिक्षु स्थितो गज ऐरावतादिः, तथा चामरः—'ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ॥' तस्य यस्य यः करदण्डः शुण्डादण्डः तमनुकर्तुं शीलं यस्य तेन तथोक्तेन, तत्तुख्यविशालेनेत्यर्थः, जरन् वृद्धो योऽजगरस्तन्नामकः पृथुलसर्पः तेन तादृशेन, वद्धं रचितं महत् दीर्घम् आलवालम् आवापः मूले सलिलार्थखातमृत्परिवेष्टनमित्यर्थः, यस्य स तथोक्त इव । इह दिग्गजेत्यत्र समासगता । आर्थी लुप्तोपमा, आलवाल इवेति वाच्या क्रियोत्प्रेक्षा च, उभयोरप्यङ्गाङ्गिभावे सङ्करालङ्कारः ।
पुरा हि वालिना राज्याद्बहिर्निष्कासित ऋष्यमूकगिरिस्थः बालिवधमिच्छन् हनूमद्द्वारा कृतराममैत्रीकः सुग्रीवो वालिवधोपयोगि सामर्थ्यं भगवति रामचन्द्रेऽस्ति न वेति सन्दिहानो जातः तत्परीक्षणार्थं तेन प्रेरितो रामचन्द्रः एकेनव वाणेन पङ्क्तिबद्धान् सप्ततालवृक्षान् विदारयामास इति रामयणीया कथा ।
तुङ्गेति । तुङ्गम् उन्नतं स्कन्धं प्रकाण्डभागम् अंसभागञ्च अवलम्बितुम् आधारं कृत्वा लम्यमानीभवितुं शीलं येषां तैः तथोक्तैः अनिलवेल्लितैः पवनचालितैः अहिनिर्मोकैः सर्पकञ्चुकैः धृतोत्तरीय इव गृहीतोपसंसंव्यानवस्त्र इव । क्रियोत्प्रेक्षा ।
दिक्चक्रेति । दिशां ककुभां चक्रवालं मण्डलं तस्य परिमाणम् इयत्तापरिमितं गृह्णतेव धारयता यद्वा विदधतेव, भुवनान्तराले संसारमध्यभागे विप्रकीर्णं इतस्ततो विस्तारितः तेन, शाखासञ्चयेन लता-
थीं मानों वनदेवियों ने उन्हें अपनी साँसों से सुवासित कर दिया हो। वहाँ फूले हुये नीलकमलों की झलक से साँवले पंखों वाले चकवों के जोड़े बीच-बीच में घूमते हुए ऐसे लगते थे मानों वे राम के मूर्त्तिमान शाप से ग्रस्त हों।
उसी पम्पा-सरोवर के पश्चिमी किनारे पर रामचन्द्र जी के बाणों से छिन्न-भिन्न ताड़ वृक्षों की झुरमुट के पास एक पुराना सेमल का वृक्ष था। उसकी जड़ के चारों ओर दिग्गजों की सूँड़ के समान एक बूढ़ा अजगर
१. 'च' इति पाठः क्वचिन्नास्त्यपि ।
२. मध्यचारिण्यालोक्यन्ते
३. चक्रनाम्नां ।
४. तस्यैवंविधस्य सरसः ।
५. तालतरुखण्डस्य ।