कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 122, कुल 709 में से
संदर्भ में पढ़ें| शालमलीतरुवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ७३ |
|---|
गमन-खेदायासितानां रविरथतुरङ्गमाणां सृक्वपरिस्रुतैः फेनपटलैः सन्देहित-तूलराशिभि- र्धवलीकृतशिखरशाखः, वनगज-कपोलकण्डूयन-लग्नमदं-निलीन-मत्तमधुकरमालेन लोह- शृङ्खलाबन्धननिश्चलेनेव कल्पस्थायिना मूलेन समुपेतः, कोटराभ्यन्तरनिविष्टैः स्फुरद्भिः सजीव इव मधुकरपटलैः, दुर्योधन इवोपलक्षित-शकुनिपक्षपातः, नलिननाभ इव वन- मालोपगूढः नवजलधरव्यूह इव नभसि दर्शितोन्नतिः, अखिलभुवनतलावलोकनप्रासाद-
आकाशतले गमनेन सञ्चारेण यः खेदः परिश्रमः तेन आयासितानां खेदमुपगतानां रविरथतुरङ्गमाणां सूर्यरथनियुक्तश्वानां सृक्क्याम् ओष्ठप्रान्ताभ्यां 'प्रान्तावोष्ठस्य सृक्िणी, इत्यमरः, परिस्रुतैः पतितैः, सन्देहितः 'अयमेतद्वृक्षोत्पन्नः तूलसमुदायो न वा' एवमात्मनि सन्देहविषयीकृतः तूलराशिः कार्पासकपिण्डो यैस्तैः फेनपटलैः श्वेतकफसमूहैः धवलीकृताः श्वेतीकृताः शिखरशाखाः अप्रस्थायिन्यः शाखा यस्य सः। इहोक्तविधफेनपटलैरप्रस्थायिशाखानां श्वेतीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्ति, अत एव चाप्रस्तुतत्वं गम्यत इत्युल्लद्वारेण वास्तुध्वनिः ।
वनगजेति । वनगजानाम् आरण्यकहस्तिनां कपोलयोः गण्डयोः कण्डूयनेन खर्जनेन लग्नेषु सक्तेषु मदेषु दानवारिषु निलीना अवस्थिता मत्ताः मधुपानैन क्षीबा मधुकरमाला भ्रमरपङ्क्तयो यत्र तेन तादृशेन 'गोस्त्रियोरुपसर्जनस्य' इत्युपसर्जनह्रस्वः, अत एव लोहशृङ्खलया लोहनिगडेन 'अथ शृङ्खला, बन्धुको निगडोऽस्त्री स्यात्' इत्यमरः, यद्वन्धनं नियन्त्रणं तेन निश्चलं स्थिरं तेनेव विद्यमानेन, कल्पस्थायिना प्रलयसमयं यावत् तिष्ठता मूलेन समुपेतः संदृक्तः । इह काव्यलिङ्गगुणोत्प्रेक्षयोः सङ्करः ।
कोटरेति । कोटराभ्यन्तरे शरीरस्यच्छिद्रमध्ये निविष्टैः निलीनैः स्फुरद्भिः दीप्यमानैः मधुकरपटलैः भ्रमरवृन्दैः सजीव इव श्वासोद्दिमाणयुक्त इव, कोटरे प्राणवन्मधुकराणां निरन्तरस्पन्दनादित्याशयः । इह गुणोत्प्रेक्षा ।
दुर्योधन इति । दुर्योधनो धृतराष्ट्रप्रथमसुतः तद्वत्, उपलक्षितो ऽन्तर्लोचनविषयीकृतः शकुनीनां पक्षिणां पक्षैः छुदैः पातः पतनं यस्मिन् स तादृशः, पक्षे उपलक्षितः अन्तर्लोचनविषयीकृतः शकुनौ गान्धाराधिपतौ मातुले पक्षपातः प्रणयो यस्य स तथोक्तः । इह पूर्णोपमा ।
नलिनैति । नलिने कमलं नाभौ यस्य स विष्णुरिव, वनमालया अरण्यपङ्क्त्या उपगूढः आच्छादितः, पक्षे वनमाला जानुपर्यन्तावलम्बिनी सर्वर्तुपुष्पोज्ज्वला मध्ये स्थूलकदम्बान्वया तया सजा उपगूढ श्लिष्टि इहापि पूर्ववदेवालङ्कारः । वनमाला लक्षणमाह-
'आचानुलम्बिनी माला सर्वर्तुकुसुसोज्ज्वला । मध्ये स्थूलकदम्बान्वया वनमालेति कीर्त्तिता ॥'
नवेति । नवा नूतना ये जलधरा मेघाः तेषां व्यूहो मण्डलं तद्वत्, नभसि व्योम्नि दर्शिता प्रकटिता उन्नतिः स्तब्धत्वं येन स तथोक्तः, पक्षे नभसि श्रावणे मासि दर्शिता प्रकटिता उन्नतिः वृद्धिर्येन स तादृशः । 'नभः खं श्रावणो नभाः' इत्यमरः । अत्रापि पूर्ववदेवालङ्कार इति केचिद, तत्वविदस्तु उपरितनेष्वभङ्गश्लेष एवेत्याहुः ।
अखिलेति । अखिलानि समस्तानि यानि भुवनतलानि जगन्ति तेषाम् अवलोकनं निरीक्षणं तदर्थं
मानो इसके समीप होकर आकाश-मार्ग से जानेवाले थके हुए सूर्य के घोड़ों ने थोड़ी देर ठहर कर उन्हें अपने ओठों की कोरों से गिरते हुए झागों से भर दिया हो । जंगली हाथियों के कपोल खुजलाने से इसके तने में मद चिपका रहता था जिससे मत्तवाले भौरों से घिरा हुआ वह ऐसा प्रतीत होता था मानो किसी ने लोहे की सीखचों से बाँध कर उसके तने को कल्पान्त तक के लिए अडिग बना दिया हो । इसकी कोटरों में स्फुरित होने वाले भौरे इसके प्राणों के समान प्रतीत होते थे । वह पक्षियों के गिरे पंखों से भरा होने के कारण शकुनि का पक्षपात करने वाले दुर्योधन, वन-पंक्तियों से घिरे होने के कारण वनमालाधारी भगवान् विष्णु और आकाश में ऊँचाई तक छाये रहने के कारण नवीन बादलों की घटा के समान प्रतीत होता था। वह मानो वनदेवियों का भुवनतलावलोकनप्रासाद (वह अत्यन्त ऊँचा महल जिसकी चोटी पर बैठ कर राजा लोग समस्त पृथ्वी
१. मदसहित । २. बन्धनिश्चलेनेव । ३. पतद्भिः । ४. पद्मनाभ इव । ५. इवोन्नतिः ।
१० का० कया०