कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 127, कुल 709 में से
संदर्भ में पढ़ेंकादम्बरी- [कथामुखे-
(एकदा तु प्रभातसन्ध्यारागरोहिते गगने च कमलिनी-मधुरक्त-पक्षसम्पुटे वृद्धहंस इव मन्दाकिनीपुलिनादपर-जलनिधि-तटमवतरति चन्द्रमसि, परिणत-रङ्कु-रोम-पाण्डुनि व्रजति विशालतामाशाचक्रवाले गजरुधिर-रक्त-हरिसटा-लोहिनीभिः प्रतप्त-लाक्षिक-तन्तु-पाटलाभि-रायामिनीभिः अशिशिरकिरणदीधितिभिः पद्मरागशलाकासम्मार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिमकुसुमप्रकरे तारागणे सन्ध्यामुपासितुमुत्तरावलम्बिनि मानससरस्तीर-
एकदेति । एकदा एकस्मिन् काले स्फुटतया जाते प्रत्यूषे मृगयाकोलाहलध्वनिः उदचरदिति वक्ष्यमाणेने दूरेणान्वयः। प्रभातस्य प्रत्यूषस्य या सन्ध्या तत्सम्बन्धी यो रागो रक्तिमा तेन लोहिते रक्तवर्णे, विशेषणमिदं गगने चन्द्रमसि च, तदानीमुभयोरपि तथैव सम्भवात् । अत एव च गगने चेत्यत्र चकारोपादानं सार्थकभित्यवधेयम् । अत एव कमलिन्या नलिन्याः मधुना लोहितवर्णपुष्परसेन अनुरक्तम् अनुरञ्जितं पक्षसम्पुटं पतत्रयुगलं यस्य तस्मिन् वृद्धहंस इव पुरातनकलहंस इव, अलसगतिव्यञ्जनाय वृद्धपदम्। चन्द्रमसि हिमांशौ मन्दाकिनीपुलिनात् वियद्गङ्गासैकतात् अपरः पश्चिमो यो जलनिधिः समुद्रः तस्य तटं तीरम् अवतरति उत्तीर्णे सति । इह वृद्धहंस इवेत्युपमा।
परिणतेति । परिणतस्य पुरातनस्य रङ्कोर्मृगविशेषस्य रोमाणि लोमानि तद्वत् पाण्डुनि पीतशुभ्रे
'पाण्डुस्तु पीतभागाधैः केतकीधूलिसन्निभः'
इति शब्दार्णवः। आशाचक्रवाले दिङ्मण्डले 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' 'चक्रवालं तु मण्डलम्' इति चामरः, विशालताम् अन्धकारापगमाद्विस्तीर्णतां व्रजति गच्छति सति । अत्र लुप्तोपमा ।
गजेति । गजानां हस्तिनां रुधिरं शोणितं तेन रक्ता लोहितवर्णा या हरिसटाः सिंहस्कन्धकेसराः तद्वत् लोहिनीभिः रक्तवर्णाभिः, इह रुधिररक्तपदार्थयोरापातः पौनरुक्त्येऽपि दर्शितदिशा पार्थक्यस्य स्पष्टमुपलम्भात् भिन्नाकारशब्दगत्वाच्च पुनरुक्तवदाभासोऽलङ्कारः तदुक्तं दर्पणे-
'आपाततो यदर्थस्य पौनरुक्त्येन भासनम् । पुनरुक्तवदाभासः स भिन्नाकारशब्दगः ॥'
इति ।
हरिसटावदिति लुप्तोपमा चेत्यनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः । प्रतप्ता उष्णीकृता ये लाक्षिका जतुविकारोत्पन्नाः तन्तवः सूत्राणि तद्वत् पाटलाभिः श्वेतरक्ताभिः । अत्र लुप्तोपमालङ्कारः । आयामिनीभिः विस्तारवतीभिः, अशिशिरा उष्णाः किरणा रश्मयो यस्य तस्य सूर्यस्य दीधितिभिः प्रभाभिः पद्मरागस्य लोहितकमणेः याः शलाकाः इषीकाः तासां सम्मार्जनीभिः गृहादिशोधनीभिः 'सम्मार्जनी शोधनी स्यात्' इत्यमरः, ताभिरिव विध्यमानाभिः, अत्र जात्युत्प्रेक्षा । गगनम् आकाशमेव कुट्टिमं बद्धभूमिः (वहिद्वारं) तस्य कुसुमप्रकरः पुष्पसमुदायः तस्मिन् तारागणे नक्षत्रमण्डले समुत्सार्यमाणे दूरीक्रियमाणे सति । इह नक्षत्रमण्डले कुसुमप्रकरत्वारोपस्य गगने कुट्टिमत्वारोपो निमित्तमिति परम्परितरूपकमलङ्कारः, तदुक्तं दर्पणे-
'यत्र कस्यचिदारोपः परारोपस्य कारणम् । तत्परम्परितम्... ॥'
सन्ध्यामिति । उत्तराशा उदीची दिक् तद्वलम्बिति तदवस्थिते सप्तर्षिमण्डले ताराभूते मरीच्यादि सप्तदेवर्षिसमूहे सन्ध्यां प्रातः सन्ध्याम् उपासितुं विधातुमिव मानससरस्तीरं मानससरोवरतटं प्रति अवतरति अवरोहति सति तत्समये सप्तर्षिगणस्य उदीच्यामस्तगमनादेवमभिधानम् । इह च सन्ध्यामुपासितुमिवेति क्रियोत्प्रेक्षा । सप्तर्षिपदवाच्याश्च-
एक बार बड़े तड़के ही उस वन में शिकार का हाँका सुनायी पड़ा। उस समय प्रातःकालीन आकाश की लाली में रँगा हुआ चन्द्रमा धीरे-धीरे पश्चिम की ओर ढल रहा था मानो आकाशरूपी कमलिनी के पुष्प रस से रँगा हुआ लाल पंखों वाला बूढ़ा हंस आकाश-गंगा की रेती से पश्चिम समुद्र-तट पर उतर रहा हो। दिशाओं के छोर तक फैला हुआ तथा बूढ़े रंकु (एक प्रकार का मृग) के बालों के समान हल्के पीले रंग का क्षितिज क्रमशः स्पष्ट दिखायी पड़ने के कारण विस्तृत-सा प्रतीत होने लगा था, हाथी के रक्त में लिपटे हुए सिंह के अयाल (गर्दन के बाल) के समान लाल तथा तपायी हुई लाख की सलाइयों के समान श्वेत और पीले रंग की अत्यन्त लम्बी-लम्बी सूर्य की किरणें आकाश से तारों को समेटती हुई ऐसी प्रतीत हो रही थीं मानो पद्मराग मणि (लालमणि) की सलाइयों से बनी हुई झाडू लेकर सूर्य आकाशरूपी फर्श पर बिखरे हुए तारे-रूपी पुष्पों को बटोर रहा हो।
१. गगनतले, गगनतल,...गगनकमलिनी ।
६. मधुरक्तपक्षपुटे ।
३. आतप्तलाक्षिक, सन्तप्तलाक्ष, आतप्तलाक्षा...।
४. आगामिनीभिः ।
५. रत्नशलाकासंमार्जनीभिः ।
६. मानससरसः ।