कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 126, कुल 709 में से
संदर्भ में पढ़ेंशुकजन्मवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । [ ७७
निगृह्य पटुप्रसरमपि शोकमेकाकी मत्संवर्धनपर एवाभवत् । अतिपरिणतवयाश्च कुशचीरानुकारिणीमल्पावशिष्ट-जीर्ण-पिच्छजाल-जर्जराम् अवस्रस्तांसदेशशिथिलाम् अपगतोत्पतनसंस्कारां पक्षसन्ततिम् उद्वहन्, उपारूढकम्पतया सन्तापकारिणीमङ्गलग्नां जरामिव विधुन्वन्, अकठोर-शेफालिकाकुसुम-नाल-पिञ्जरेण कलममञ्जरी-दलन-मसृणित-क्षीर्णोपान्तलेखेन स्फुटिताग्रकोटिना चञ्चुपुटेन, परनीडनिपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय तरुमूलनिपतितानि च शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रमितुमशक्तो मह्यमदात् । प्रतिदिवसमात्मना च मदुपभुक्तशेषम् अकरोदशनम् ।
अन्तर्निगृह्य हृदयमध्य एव निरुध्य एकाकी एकः मत्संवर्धनपर एव मम परिपोषणतत्पर एव अभवत् आसीत् ।
अतिपरिणतेति । अतिपरिणतम् अत्यन्तपरिपक्वम् अतिवृद्धमित्यर्थः, वयोऽवस्था यस्य स तादृशः, कुशो बर्हिः चीरं जीर्णवसनखण्डं तदनुकरोति तत्सामान्यमाश्रयति या सा तां तादृशीम् । अत्रार्थी उपमा । अल्पं वार्धक्येन निःसरणात् स्तोकमात्रम् अवशिष्टम् उर्वरितं यत् जीर्णपिच्छजालं पुरातनबर्हसमुदायः तेन जर्जरां विशीर्णाम् । अवस्रस्ते परिणतत्वात् गलिते अंसदेशे स्कन्धस्थाने शिथिलाम् अस्थि-रावयवसम्बन्धाम् । अपगतो दूरीभूत उत्पतने आकाशविहरणे संस्कारः सामर्थ्यविशेषो यस्याः सा तां तथोक्ताम्, एतादृशीं पक्षसन्तति पतत्रसमुदायम् उद्वहन् धारयन् ।
उपारूढेति । उपारूढः परिणतवयस्कत्वेन स्वभावत एवाविर्भूतः कम्पः शरीरसञ्चलनं यत्र सा तादृशी तस्या भावस्तया, सन्तापकारिणीं दुःखदायिनीम् स्वेच्छया सञ्चालयितुमसमर्थत्वादित्याशयः । अङ्गलग्नां शरीरे विद्यमानां जरां परिणतावस्थामिव विधुन्वन् तामेव पक्षधारां कम्पयन् सञ्चालयन् किञ्चिद् व्रजन्नित्यर्थः । इह जरामित्युत्प्रेक्षा ।
अकठोरेति । अकठोरं मृदुलं यच्छेफालिकाकुसुमं निर्गुण्डीपुष्पं तस्य यत् नालं वृन्तं तद्रूपिञ्जरेण पिङ्गलवर्णेन, अत्र लुप्तोपमा । कलमस्य तदाख्यधान्यविशेषस्य या मञ्जर्यः शिखाः तासां दलनेन विदारणेन मसृणिता चिकणा शीर्णा क्षयं प्राप्ता च उपान्तलेखा प्रान्तसमीपस्थायिनी रेखा यस्य स तेन तादृशेन तथा चञ्चुपुटेन पञ्चाङ्गुलेन परिश्रमात् स्फुटिता क्षयं प्राप्ता अग्रकोटिः अग्रिमप्रखरदेशो यस्य तेन तादृशेन ।
परेति । परेषां अन्येषां शकुनीनां नीडानि कुलायाः तेभ्यः निपतिताः स्रस्ताः शालिवल्लर्यः धान्यमञ्जर्यः ताभ्यः तथोक्ताभ्यः तण्डुलकणान् आधायादाय गृहीत्वा गृहीत्वा तरुमूलनिपतितानि वृक्ष-मूलच्युतानि शुकानां कीराणां कुलेन समूहेन अवदलितानि विदार्य भूमौ पातितानि फलशकलानि फलखण्डानि समाहृत्य एकीकृत्य परिभ्रमितुं दूरे सञ्चरितुम् अशक्तोऽसमर्थो मह्यं वैशम्पायनाय अदात् भक्षयितुं दत्तवान् । एवं प्रतिदिवसं प्रत्यहमुक्तविधिना, आत्मना स्वयञ्च । मया उपभुक्तस्य भक्षितस्य शेषम् अवशिष्टम् अशनं भोजनम् अकरोत् कृतवान् ।
फैलते हुए तीव्र वेग को भीतर ही भीतर पी डाला और वह अकेले ही मेरे पालन-पोषण में तल्लीन हो गये । अत्यन्त बुढ़ौती के कारण उनके दोनों पंखों में बहुत थोड़े पुराने पखने बच गये थे जिससे वे कुश के कपड़े की तरह रूखे और छिन्न-भिन्न हो गये थे तथा शिथिल कंधों से लटक जाने के कारण उड़ने की शक्ति खो चुके थे । उनका शरीर बुढ़ौती के कारण सर्वदा काँपा करता था मानो वह अपने शरीर में चिपक जानेवाली दुःखदायिनी बुढ़ौती को झाड़ कर गिरा देना चाहते थे । उनकी चोंच हरसिंगार के फूल की डंडी के समान अब कुछ पीलापन लिए हुए लाल रंग की हो चली थी जिसके किनारे धान की कलियाँ कुतरते-कुतरते घिस कर चिकने हो गए थे तथा उनपर इस घिसावट की एक पतली रेखा-सी पड़ गयी थी और उसका अगला नुकीला भाग टूट चुका था । वे इधर-उधर आने-जाने में असमर्थ थे इसलिए दूसरों के घोसलों के नीचे गिरी हुई धान की बालियों से अन्न के कणों और सुग्गों द्वारा कुतर-कुतरकर वृक्ष की जड़ पर गिराये गये फलों के टुकड़े किसी प्रकार उसी चोंच से उठा-उठाकर लाते और मुझे खिलाने के बाद जो बचता उसे आप भी खा लेते थे ।
१. शोकवेगम् । २. अतिपरिणततया च । ३. जर्जरीम् । ४. स्रस्तांसदेशाम् । ५. पक्षसंहतिम् ।
६. इह 'च' इत्यधिकः पाठः क्वापि । ७. कुसुमपिञ्जरेण । ८. क्षीरोपान्तलेखेन । ९. ॰॰॰पतिताभ्यः ।
१० वृक्ष॰॰॰ । ११. मह्यमाहारमदात् । १२. मदुपयुक्तशेषम् ।