कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 133, कुल 709 में से
संदर्भ में पढ़ें८४ कादम्बरी- [कथामुखे-
मण्डल-विरुतम्, इतः कपिञ्जल-कुल-कल-कूजितम्, इतः कुररकुल-क्वणितम्, इतो मृगपति-नखभिद्यमान-कुम्भ-कुञ्जर-रसितम्, इयमार्ड्र-पङ्कमालिना वराहपद्धतिः, इयमभिनव-शष्प-कवल-रस-श्यामला हरिण-रोमन्थ-फेन-संहतिः, इयमुन्मद-गन्धगजगण्ड-कण्डूयन-परिमल-^२निलीन-मुखर-मधुकर-विरुतिः, एषा निपतितरुधिरबिन्दुसिक्त-शुष्कपत्र-पाटला रुरुपदवी; एतद्द्विरद-चरण-मृदित-विटप-पल्लवपटलम्, एतत् खड्गिकुल^३क्रीडितम्, एष नखकोटि-^४विलिखितविकट-पत्रलेखो रुधिरपाटलः ^५करिमौक्तिकदन्तुरो मृगपतिमार्गः, एषा प्रत्यग्रप्रसूत-वनमृगीगर्भ-रुधिर-लोहिनी-भूमिः, इयमटवी वेणिकानुसारिणी ^७पक्षचरस्य यूथपतेर्मदजल-
सहिषाणाम् अरण्यसैरभाणां वृन्दं कदम्बकम्। शिखण्डिनां मयूराणां मण्डलं समूहः तस्य विरूतं शब्दः। कपिञ्जलानां चातकपक्षिणां 'कपिञ्जलः चातकपक्षी' इति शब्दकल्पद्रुमः, कुलस्य समूहस्य कलकूजितं मधुरशब्दितम्। कुररकुलस्य मत्स्यनाशकसमुदायस्य क्वणितं कूजितम्। मृगपतीनां केसरीणां नखैः पुनर्भवैः भिद्यमाना विदीर्यमाणाः कुम्भाः शिरस्थकुम्भाकृतिमांसपिण्डाः येषां तथोक्तानां कुञ्जराणां गजानां रसितम् आक्रन्दितम्।
इयमिति। इयं प्रत्यक्षदृश्यमाना, एवमग्रेपि। आर्द्रः क्लिन्नः अशुष्क इत्यर्थः, यः पङ्कः कर्दमः तेन वराहशरीरेभ्य एव च्युतपङ्केनेत्यर्थः, मलिना श्यामवर्णा वराहपद्धतिः वनशूकरमार्गः। अभिनवानि नूतनानि यानि शष्पाणि बालतृणानि येषां ये कवलाः ग्रासाः तेषां तथोक्तानां चर्व्यमाणशष्पाणामित्यर्थः, रसैः निर्यासः श्यामला कृष्णवर्णा, हरिणानां मृगाणां यो रोमन्थः चर्वितचर्वणं तस्य फेनसंहतिः कफसमूहः। उन्मदा मदमत्ता ये गन्धगजाः सुरभिमद्युक्तहस्तिनः तेषां गण्डकण्डूयनेन कपोलघर्षणेन चे परिमलः सुगन्धाः तेषु तस्सुगन्धियुक्तभूमिष्वित्यर्थः। निलीनानां प्रच्छन्नानां मुखराणां वाचालानां मधुकराणां भ्रमराणां विरुतिः झङ्कारः। एषा अवलोक्यमाना, निपतिताः पृथिव्यामस्माकमस्त्रहननेन शरीरात्स्यन्दिताः ये रुधिरविन्दवः शोणितपृषताः तैः सिक्तानि आर्द्रीकृतानि यानि शुष्कपत्राणि नीरसदलानि तैः पाटला श्वेतरक्ता रुरुपदवी हरिणविशेषाध्वा।
एतदिति। एतत् निकटतरस्थापि, द्विरदा गजास्तेषां चरणैः पादैः मृदितानां मर्दितानां विटपानां वृक्षस्कन्धानां पल्लवानां किसलयानाञ्च पटलं वृन्दं यत्र एवंविधं स्थलमिर्यर्थः, एवज्ञानेन पथा निश्चितमनुपदमेव द्विरदा गता इत्याशयः। एतत् अवलोक्यमानं खड्गिनां गण्डकानां कुलम् समुदायः तस्य क्रीडितं विहृतं पृथिव्यां क्रीडाचिह्नमवलोकयत इत्यर्थः, तेन खड्गिनामपीदं विहारस्थानमित्याशयः। एवं पुरो दृश्यमानः नखकोटिभिः पुनर्भवग्रैः नखाग्रच्युतशोणितैरित्यर्थः, विलिखिताः चित्रीकृताः विकटा भयङ्कराः पत्रलेखाः पत्राकृतिलक्षणानि यत्र स तथोक्तः, रुधिरैः व्यापादितप्राणिशोणितैः पाटलः श्वेतरक्तवर्णः, तथा करिमौक्तिकैः व्यापादितहस्तिमुक्ताभिः दन्तुरः उन्नतनातः, मृगपतेः केसरिणो मार्गः सञ्चरणपथः, एवञ्च नूनमनेन मार्गेण मृगपतिर्गत इत्यभिप्रायः।
एषेति। प्रत्यग्रप्रसूता अभिनवप्रसूतवती या वनमृगी अरण्यहरिणी तस्या गर्भरुधिरेण भ्रूणशोणितेन लोहिनी रक्तवर्णा एषा भूमिः मेदिनी। वेणिकानुसारिणी केशवेणीसमा विषमेति यावद्; इयम् अटवी इदम् अरण्यम् 'अटव्यरण्यं विपिनम्' इत्यमरः। पक्षेण निजमण्डलेन चरति भ्रमतीति तस्य तादृशस्य यूथपतेः हस्तिराजस्य मदजलेन दानवारिणा मलिना कृष्णवर्णा। तेनेह हस्तिनो भ्रमन्तीत्याशयः।
रही है, इधर पपीहों की मधुर रट लगी है, इधर क्रौंच चीख रहे हैं, इधर बाघ के नखों से फटे गंडस्थलों-वाला हाथी कराह रहा है, यह गीले कीचड़ में सनी हुई सूअरों के आने जाने की राह है, यह नयी-नयी घास खाकर जुगाली करने वाले हरिणों के मुँह से गिरी हुई बॉस के रस से हरी-हरी झाग की ढेरी है, यह मतवाले हाथियों के कपोल खुजलाने से लगी हुई सुगन्ध पर चिपके हुये भौरों की मधुर गुञ्जार है, यह टपकती हुई खून की बूंदों में सने हुये सूखे पत्तों से भरी हुई घायल रुरु हरिणों के भागने की राह है, यह हाथियों के पैरों से रौंदे हुए पेड़ के पत्तों की ढेर है, यहाँ गैंडों ने खिलवाड़ किया है, यह हाथी मार कर लौटते हुए सिंह की राह है, जो उसके खून से लाल लाल भयंकर पत्तों की छापों से भरी हुई तथा गिरे हुये गजमोतियों से कैसी चमक
१. वराहकुलपद्धतिः। २. आलीनः। ३. शिखण्डिकुलक्रीडितम्। ४. विकटविलिखितपत्रलेखः। ५. मौक्तिकदन्तुरः। ६. वेणुकानुसारिणी। ७. एकचरस्य समीपचरस्य।