भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 134, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 134
शबरमृगयावर्णनम् ]चन्द्रकला-विद्योतिनीसहिता ।८५

मलिना, सञ्चार-वीथी-चमरीपङ्क्तिरियमनुगम्यताम्, उच्छुष्कमृग-करीष-पांसुला त्वरिततरम- ध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलोक्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां श्वान.' इत्यन्योन्यमभिदधतो मृगया- सक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् ।

अथ नातिचिरादेवानुलेपनाद्र्र-मृदङ्गध्वनिधीरेण गिरिविवर-विजृम्भित-प्रतिनादै- गम्भीरेण, शर्बर-शर-ताडितानां केशरिणां निनादेन, संत्रस्त-यूथ-मुक्तानामेकाकिनाञ्च सञ्च-


सञ्चारेति । इयं प्रत्यक्षोपलभ्यमाना, सञ्चारवीथ्यां भ्रमणमार्गे चमरीपङ्क्तिः चर्मर्याख्यमृगराजिः अनुगम्यतां हननायानुस्रव्यताम् । उच्छुष्कैः अत्यन्तनीरसैः मृगकरीषैः हरिणपुरीषैः पांसुला सधूलीका इयं दृश्यमाना वनस्थली अरण्यभूमिः त्वरिततरं वेगवत्तरम् अध्यास्यतां हरिणमार्गमाय अवलम्ब्यताम् प्रविश्यतामित्यर्थः। तरोः वृक्षस्य शिखरम् ऊर्ध्वदेश आरुह्यताम् पक्षिहननाय आरोहविषयीक्रियताम्। इयम् अभिमुखी दिक् ककुप् आलोक्यतां 'पशवो विद्यन्ते न वे'ति बोधनाय परिदृश्यताम् । अयं शब्दः आकर्ण्यतां श्रूयतां यतश्चोदेति शब्दस्तद्देशे यातव्यमिति भावः । धनुश्चापः गृह्यतां झटिति पशुवधाय आदीयताम् । अवहितैः सावधानैः भवद्भिः स्थीयताम् उपविश्यताम् अन्यथा चेत् अन्तिकादेवाविद्ध- गात्राः पशवः पलायिता भवेयुरित्याशयः। श्वानः कौलेयकाः विमुच्यन्तां परिप्रेष्यन्तां व्यापाद्यपशुमार्ग- णायेति भावः। 'स्वपालितश्वानो हि पशून् मार्गयित्वा सङ्केतविशेषेण स्वामिनं बोधयन्ती'ति लोकवार्ता । इति अन्योन्यम् एवं परस्परम् अभिदधतः कथयतः, मृगयासक्तस्य आखेटलग्नस्य महतो विपुलस्य अधिकदेशव्यापिन इत्यर्थः, जनसमूहस्य मनुष्यसमुदायस्य । तरूणां वृक्षाणां गहनं वनं तेन अन्तरिता आच्छादिता विग्रहा देहा यस्य तस्य तथोक्तस्य, क्षोभितं काननं येन तं तथोक्तं सञ्चालितवनं कोलाहलं कलकलम् अशृणवम् ।

अथेति । अथ कोलाहलश्रवणानन्तरम् 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ' इत्यमरः, नाति- चिरादेव स्वल्पसमयेनैव 'सर्वतः प्रचलितमिव तदरण्यमभवदिति वक्ष्यमाणेन सम्बन्धः । इह तृतीयान्त- पदानि प्रचलितमिति क्रियायाः करणानि । अनुलेपनं पार्श्वमुखद्वये द्रवद्रव्यविशेषलेपनं तेन आर्द्रः स्निग्धो यो मृदङ्गो मुरजवाद्यम् तस्य ध्वनिः शब्दः तद्वद् धीरेण गम्भीरेण । गिरिविवरेषु पर्वत कन्दरासु विजृम्भि- तेन विस्तीर्णेन प्रतिनादेन प्रतिशब्देन गम्भीरो विपुलः तेन तादृशेन । इहाचविशेषणे लुप्तोपमा ।

शबरेति । शवराणां किरातानां शरा इषवः तैः ताडितानां व्यथितानां केसरिणां मृगपतीनां निनादेन शब्देन 'शब्दो निनादनिनदे'त्याद्यमरः ।

सन्त्रस्तेति । संत्रस्तेन शवराक्रमणाच्चकितेन यूथेन स्ववर्गीयसमूहेन मुक्तानां त्यक्तानाम् अत एव


रही है, यह किसी जंगली हरिणी के गर्भ के टटके खून से भरी हुई जगह है, जहाँ उसने अभी-अभी बच्चा पैदा किया है, यह अपने परिवार के साथ घूमनेवाले गजपति के मद-जल से काली पड़ी हुई तथा वेणी के समान प्रतीत होने वाली वनपंक्ति है, यह हरिणों के पैरों की निशानी से भरी हुई उनके आने-जाने की राह है, इसी रास्ते से उनका पीछा करो, यह हरिणों के सूखे कंदो से भूरी-भूरी दिखाई देनेवाली वनभूमि है, यहाँ शीघ्रता से बैठ जाओ, वृक्ष की चोटी पर चढ़ जाओ, उधर देखो, यह शब्द सुनो, धनुष ले लो, सावधान होकर खड़े हो जाओ और कुत्तों को छोड़ दो।' वह मोड़ यद्यपि घने वृक्षों में छिप सी गई थी किन्तु उसके कोलाहल से सारा जंगल क्षुब्ध सा हो उठा था ।

थोड़े ही देर में चारों ओर भीतर ही भीतर होनेवाली ध्वनियों से सारा जङ्गल काँप सा उठा । कहीं भीलों के बाणों से घायल सिंहों की दहाड़ पर्वतों की गुफाओं में और भी भयंकर रूप से गूंजती हुई ऐसी प्रतीत होने लगी मानो टटके अनुलेपन से गीले मृदङ्गों की गम्भीर ध्वनि गूंज रही हो, कहीं मदमत्त दुष्टों से बिछुड़


१. ऽभिददतः ।
२. नृगयाप्रसक्तस्य, मृगयाप्रसक्तास्ते ।
३. •••'दिवा'••• ।
४. •••'ध्वनि ।
५. प्रतिनिनादगम्भीरेण ।
६. 'शबर' इति पदं क्वचिन्न विद्यते ।