कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 137, कुल 709 में से
संदर्भ में पढ़ें| ८८ | कादम्बरी- | [कथामुखे- |
|---|
अभिमुखमापतंश्च तस्माद्वनान्तरादर्जुनभुजदण्ड-सहस्र-विप्रकीर्णमिव नर्मदाप्रवाहम्, अनिलचलितमिव तमालकाननम्, एकीभूतमिव कालरात्रीणां यामसङ्घातम्, अञ्जनशिला-स्तम्भ-सम्भारमिव क्षितिकम्प-विघूर्णितम्, अन्धकारपुरमिव रविकिरणाकुलितम्, अन्तक-परिवारमिव परिभ्रमन्तम्, अवदारित-रसातलोद्भूतमिव दानवलोकम्, अशुभ-कर्म्म-समूहमिवैकत्र समागतम्, अनेक-दण्डकारण्यवासिँ-मुनिजन-शाप-सार्थमिव सञ्चर-न्तम्, अनवरत-शर-निकर-वर्षि-राम-निहत-खर-दूषण-बलमिव तदपध्यानात् पिशाचता-
अभिमुखमिति । तस्माद्वनान्तरात् अभिमुखमापतत शबरसैन्यमद्राक्षमित्यग्रिमक्रियया सम्बन्धः । इह द्वितीयान्तानि शबरसैन्यविशेषणानि बोध्यानि । वनान्तरात् वनमध्यात् अभिमुखं संमुखम् आपतत् आगच्छत् । अर्जुनस्य कार्तवीर्यस्य राज्ञो भुजदण्डसहस्रेण सहस्रसंख्यकदण्डसदृशबाहुभिः विप्रकीर्णम् इतस्ततो विक्षिप्तं नर्मदाया मेखलाद्रिजाया नद्याःप्रवाहमिव स्रोत इव, धारावाहिकपङ्किकत्वाद्दित्याशयः । इहोपमा । अत्रायं रामायणीयेतिहासः—पुरा किल हैहयानामधिपतिः कार्तवीर्यः सहस्रबाहुभिः नर्मदा-प्रवाहमवरुध्य जलक्रीडां सम्पादितवानिति ।
अनिलेति । अनिलेन पवनेन चलितं प्रयातम् उत्पादितं सत् स्थानान्तरप्राप्तियोग्यमित्यर्थः, तमालानां तापिच्छानां काननम् अरण्यमिव सान्द्रश्यामवर्णत्वाहीर्घस्वरूपत्वाच्चेत्याशयः । इहाप्युपमा ।
एकीभूतमिति । कालरात्रीणां प्रलयक्षणानाम् अत्यन्तान्धकारत्वेन सान्द्रश्यामानामित्याशयः, एकी-भूतम् एकत्रमिश्रीभूतं यामसङ्घातं प्रहरसमुदायम् इव । इह जात्यूत्प्रेक्षा ।
अञ्जनेति । क्षितिकम्पेन पृथिवीकम्पेन विघूर्णितम् आन्दोलितम् अञ्जनवत् कज्जलवत् श्यामवर्णा इत्यर्थः, ये शिलास्तम्भाः पाषाणरचितस्थूणाः तेषां सम्भारं संघातमिव । इहोपमालुप्तोपमयोः सङ्करः ।
अन्धकारेति । रविकिरणैः सूर्यरश्मिभिः आकुलितं सञ्चाल्य व्याकुलीभूतम् अन्धकाराणां तमसां पूरं प्रवाहमिव । अत्रान्धकारत्वजातिस्वरूपोत्प्रेक्षा । अन्धकारस्य द्रव्यत्वेनानेकत्वेन च जातित्वम् , एतच्च पूर्वोत्तरपक्षाभ्यां मुक्तावल्यादौ निर्णीतम् । तथा चोक्तम्—
'तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धधर्मवैधम्र्म्यान्नवभ्यो भेत्तुमर्हति' ॥
वैशेषिकादयस्तु आवश्यकतेजोभावेनैव चैतस्य सिद्धिं दिशन्ति ।
अन्तकेति । परिभ्रमन्तम् इतस्ततः पर्यटन्तम् अन्तकस्य वैवस्वतस्य 'वैवस्वतोऽन्तकः' इत्यमरः, परिवारं परिजनवर्गमिव निविडश्यामवर्णत्वादित्याशयः । इहापि जातिस्वरूपोत्प्रेक्षा ।
अवदारितेति । अवदारितेन विदीर्णेन रसायाः पृथिव्याः तलेन तन्मार्गेणेत्यर्थः उद्भूतं पातालादुद्गतं दानवलोकं दैत्यजनमिव । इहान्युत्कालङ्कारः ।
अशुभेति । एकत्र एकस्मिन् स्थाने समागतं मिलितम् अशुभकर्मणाम् अघमंकार्याणां समूहं गगमिव । उक्तालङ्कारः ।
अनेकेति । अनेकेषां दण्डकारण्यवासिनां दण्डकवननिवासिनां मुनिजनानां तपस्विलोकानां शापसार्थम् अभिसम्पातसमूहमिव सञ्चरन्तं गच्छन्तम् । उक्तलङ्कारः । 'सार्थो वणिक् समूहेन स्यादपि सङ्घातमात्रके' इति मेदिनी ।
अनवरतेति । अनवरतं सततं शरनिकरं बाणसमूहं वर्षतीत्येवं शीलो यो रामो दशरयतनयः तेन
मैंने उस वन के भीतर से अपनी ही ओर आनेवाली भयदायिनी भीलों की सेना देखी जिसमें अनेकों हजार भील थे । वह सैन्य दल ऐसा प्रतीत हो रहा था मानों कार्तवीर्य अर्जुन की हजारों बाहुओं से कई धाराओं में बिखरा हुआ नर्मदा नदी का प्रवाह हो, अथवा वायु के झोंकों में काँपता हुआ तमाल वृक्षों का वन हो, कालरात्रि के एकत्रित पहरों का समूह हो, अथवा भूचाल में हिलते हुए काले पत्थरों के खम्भों का ढेर हो, अथवा सूर्य की किरणों से व्याकुल अन्धकार का समूह हो, अथवा इधर-उधर भटकता हुआ यमराज का परिवार हो, अथवा पृथ्वीतल को फाड़ कर निकलते हुए दानवों का समूह हो, अथवा अशुभ कर्मों के समूह एकत्रित होकर आ गए हों, अथवा दण्डकारण्य में रहने वाले अनेकों मुनियों के शापों का झुण्ड एक
१. आपतितन्, लापतन्तन् ।
२. अनिलदलचलितमिव, अनलवशचलितमिव ।
३. ०°पूरमिव ।
४. ०°नाकुलन् ।
५. ०°तलोद्गतमिव ।
६. अशेष०° ।
७. ०°वासित०° ।
८. निहतन् , इतखरदूषणनिवहमिव ।