कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 144, कुल 709 में से
संदर्भ में पढ़ेंशबरसेनापतिवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ६५
भीष्ममिव शिखण्डि-शत्रुम् , निदाघदिवसमिव सतताविर्भूत-मृगतृष्णम् , विद्याधरमिव मानस-वेगम् , पराशरमिव¹ योजनगन्धानुसारिणम् , घटोत्कचमिव भीमरूपधारिणम् , अचलराज-कन्यका-केशपाशमिव नीलकण्ठ-चन्द्रकाभरणम् , हिरण्याक्ष-दानवमिव² महावराह-दंष्ट्रा-
अस्त्रविशेषो येन तम्, अन्यत्र तु गृहीता निवासाय स्वाधीनीकृता एकचक्रा तत्संज्ञका पुरी येन तं तादृशम्। उपमालङ्कारः।
पुरा किल एकचक्राख्यायां नगर्यां बकाभिधानोऽसुरः नरसंहारेणायुपद्रवं कृतवान्। ततस्तन्नत्यो राजा प्रतिदिनमेकैकं नरं तद्भोजनाय प्रेष्य तस्मादनर्थाल्लोकान् रक्षयामास। कस्मिंश्चित्समये दह्यमान-लाक्षाभवनेतः पलायितानां पाण्डवादीनामाश्चयदातृविप्रस्यावसरः समापन्नः। पारिवारिकस्थित्यातिव्यग्रं तं समीक्ष्य कुन्ती निजमेकमात्मजं तत्र प्रेषयितुं स्वीकृत्य तद्भोजनाय भीमसेनं प्रेषितवती। स च तत्रोपेत्य तं व्युत्पादितवानिति माहाभारतीया कथा।
अरुणेति। अरुणानुजो गरुडः तमिव, उद्घृता उत्खाता अनेकेषां महानागानाम् अनेकपृथुलगजानां दशना दन्ता येन तं तादृशम्, पक्षे उद्धृतान् खातान्निःसारितान् अनेकान् बहून् महानागान् विशालसर्पान् दशति चञ्चुपुटेन सन्दश्य भक्षयतीति तं तादृशम्। उक्तालङ्कारः।
भीष्ममिति। भीष्मो गाङ्गेयः तमिव, शिखण्डिनां मयूराणां शत्रुं बहोः कालेन व्यापादयितारम्, पक्षे शिखण्डिनः तत्संज्ञकपाण्डवपक्षीयद्रुपदात्मजस्य शत्रुं चिररिपुम्। उक्तालङ्कारः।
पुरा किला अम्बालिका काशिराजसुता स्वविवाहस्य भीष्मपितामहमेव वव्रे किन्तु तत्प्रत्याख्याता सती तत्प्राणनाशार्थमेव स्वप्राणान् त्यक्त्वा द्रुपदराजसुता संजाता, अनन्तरञ्च गन्धर्वस्य पुंस्त्वं जग्राह ततः शिखण्डीतिसंज्ञकेन लोके प्रसिद्धा आसीदिति संक्षिप्ता महाभारतीया कथा।
निदाघेति। निदाघो ग्रीष्मकालः तमिव, सततं निरन्तरम् आविर्भूता वनात् प्रकटीभूता मृगेषु हरिणेषु तद्धननेच्छेत्यर्थः, तृष्णा अभिलाषो यस्य तं तादृशम्, पक्षे सततमाविर्भूता मृगतृष्णा मरीचिका दिनकररश्मिषु सलिलभ्रमो यस्मिन् तं तादृशम्।
विद्येति। विद्याधरो देवयोनिविशेषः तमिव, मानेन शक्त्यहङ्कारेण मनोवद्वा सवेगं सर्वदा तीव्रगति-मन्तम्, अन्यत्र मानसे मानसामिधाने सरसि वेगो मज्जनादिनिमित्तं वेगेन गमनं यस्य तं तादृशम्। मानस-वेगाख्यो गन्धर्वः कश्चिद्भवेदिति तु न शङ्कनीया तथा सति पदावृत्तप्रसङ्गात्।
पराशरमिति। पराशरो व्यासपिता तमिव, योजनं चतुष्क्रोशन्यापि ‘योजनं परमात्मनि। चतुष्क्रोशां च योगे च' इति मेदिनी, गन्धः सौरभोऽस्यास्तीति योजनगन्धः कस्तूरीमृगः, अर्श आदित्वादच् प्रत्ययः, अन्यत्र=योजनगन्धां तन्नामिकां वृषलकन्यामनुसरतीत्येवं शीलम्। ‘व्यासमातरि। कस्तूरी-शीतयोश्च' इति भानुचन्द्रधृतकोशः। उक्तालङ्कारः।
कदाचित् पराशरो हि सर्वयोगसमन्वितं पुत्रोत्पादनसमयं यावद्विचारयति तावत् काञ्चिदतिसुन्दरीं धीवरतनयां सत्यवतीनाम्नीं ददर्श, दृष्ट्वा च जातस्मरतया रिरंसया कुहकं निर्माय मैथुनायोपचक्रमे इति माहाभारतीया कथा।
घटेति। घटोत्कचः हिडम्बायां भीमसेनादुत्पन्नोऽसुरः तमिव, भीमं भीषणम्, अन्यत्र आत्मा एव वीर्यरूपेण स्त्रीयोनौ प्रविशतीति सिद्धान्तात् भीमं भीमसेनेनतुल्यं रूपम् आकृतिं धारयितुं शीलं यस्य तं तादृशम्। ‘सत्या भामा' इतिवद् भीमेति नामैकदेशे नामग्रहणम्। उक्तालङ्कारः।
अचलेति। अचलराजः पर्वताधिपतिर्हिमालयः तस्य कन्यका पार्वती तस्याः केशपाशः कचसमूहः
वाला गरुड हो, वह मोरों का शत्रु था मानो शिखण्डी का शत्रु भीष्म हो, उसमें मृगों के मारने की अभिलाषा निरन्तर उठती रहती थी मानों मृगमरीचिका से परिपूर्ण ग्रीष्म ऋतु का दिन हो, वह अहङ्कार के वेग में चूर था मानो मानस सरोवर की ओर वेग से जाने वाला कोई विद्याधर हो, वह योजनगन्धा का अनुसरण करने वाले पराशरमुनि के समान कोसों तक गन्ध मारने वाली कस्तूरी का पीछा करने वाला था, भीम रूपधारी घटोत्कच के समान उसकी आकृति अत्यन्त विशाल और भयङ्कर थी, भगवान् शङ्कर को चन्द्रकला से विभूषित भगवती पार्वती के दायों के समान वह भी मोर-चन्द्रिकाओं से सुशोभित था, महावराह की दाढ़ों से पाण्ड
१. पाराशरमिव ।
२. हिरण्याक्षं··· ।