कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 143, कुल 709 में से
संदर्भ में पढ़ें| ६४ | कादम्बरी— | [ कथामुखे- |
|---|
पिशितभारैः१, कैश्चित् प्रमथैरिव केसरिकृत्तिधारिभिः, कैश्चित् क्षपणकैरिव मयूरपिच्छवाहिभिः२, कैश्चिच्छिशुभिरिव काकपचधरैः, कैश्चित् कृष्णचरितमिव दर्शयद्भिः, समुत्खात-विधृत-गजदन्तैः, कैश्चिज्जलदागमदिवसैरिव जलधरच्छाया-मलिनैराम्बरैः३, अनेकवृत्तान्तैः शबरवृन्दैः, परिवृतम्, अरण्यमिव सखङ्गधेनुकम् , अभिनव-जलधरमिव मयूर-पिच्छ-चित्र-चापधारिणम्, बकराक्षसमिव गृहीतैकचक्रम् , अरुणानुजमिवोद्धृतानेकमहानाग-दशनम् ,
पिशितस्य मांसस्य भारः समूहो यैस्तैस्तादृशैः। उक्तोऽलङ्कारः।
कैश्चिदिति। प्रमथैरिव शिवपारिषदैरिव 'प्रमथाः स्युः पारिषदाः' इत्यमरः, केसरिणां सिंहानां कृत्तयश्चर्माणि हस्ते परिधाने च धरन्तीत्येवंशीलैः। इहाप्युक्तोऽलङ्कारः। अत्र च 'केसरिकृत्तिधारिभिः' इत्यत्र केसरिपदस्थाने व्याघ्रपदं निवेशनीयम्, प्रमथानां व्याघ्रकृत्तिधारित्वस्यैव प्रसिद्धत्वात्, अत एव च नात्र ख्यातिविरुद्धत्वदोष इति विचारणीयम्।
कैश्चिदिति। क्षपणकैरिव दिगम्बरैः संन्यासिभिरिव, मयूराणां बर्हिणां 'मयूरो बर्हिणो बहीं' इत्यमरः, पिच्छानि छदानि वहन्तीत्येवंशीलैः, दिगम्बराणां तद्धारणव्यवहारात् शवराणांस्तु तदेकत्रीकरणप्रहित्वा दिव्याशयः। उक्तोऽलङ्कारः।
कैश्चिदिति। शिशुभिरिव शावकैरिव, काकानां सकृत्प्रणानां पक्षान् छदान्, काकपत्तान् शिखण्ड-कांश्च धरन्तीत्येवंशीलैः 'काकपत्तः शिखण्डकः' इत्यमरः। शैशवे शिशूनां शिखण्डकधरणव्यवहारात् शबराणाञ्च तदा व्यापादितकाकपक्षादिस्थापनव्ययोः सादृश्यम्। उक्तोऽलङ्कारः।
कैश्चिदिति। समुत्खाताः प्रथमं सम्यक्प्रकारेणोत्पाटिताः विघृताः पश्चाच्च गृहीता गजदन्ता यैस्तैः तादृशैः गजदन्तान्मुखाय धारयद्भिरित्यर्थः, अत एव कृष्णचरितं वासुदेवस्य व्यवहारं दर्शयद्भिरिव प्रकाश-यद्भिरिव। अत्र क्रियोत्प्रेक्षा।
श्रीकृष्णो हि स्वव्यापादनया कंसाज्ञापितहस्तिपकव्यापारितं कुवलयापीडाभिधानं करिणं विजित्य तद्दन्तमुत्पाट्य च जग्राह' अनन्तरञ्च स्वयमेव तं गजं हस्तिपकञ्च निहतवानिति भागवतीया कथा।
कैश्चिदिति। जलदस्य वारिदस्य आगम उत्पत्तिर्येषु एवंभूतः दिवसैर्दिनैरिव, जलधरच्छायया मलिनम् अम्बरं गगनं येषु तैः। उपमालङ्कारः।
अनेकेति। अनेके बहुप्रकारा वृत्तान्ता आचरणानि येषां तै तादृशौः, शवरवृन्दैः भिल्लगणैः परिवृतं परिवेष्टितम्।
अरण्यमिति। अरण्यं काननं तद्वदिव खड्गधेनुका छुरिका तया सहेति तं तादृशम्, पक्षे खड्गैः गण्डकैः धेनुकाभिः अरण्यकरिणीभिश्च सहेति तत् तादृशम्। उपमालङ्कारः 'छुरिका चासिधेनुका' 'धेनुका नु करेण्वान्य' इति चामरः।
अभिनवेति। अभिनवो नूतनो यो जलधरो मेघस्तमिव, मयूराणां बर्हिणां पिच्छानि छदाः तद्वत् चित्रम् अनेकविधवर्णं चापं धनुः इन्द्रधनुश्च धारयितुं शीलं यस्य तं तादृशम्। उपमालङ्कारः।
बकराक्षसमिति बकः तत्संज्ञको यो राक्षसः असुरः तमिव, गृहीतं घृतम् एकम् अद्वितीयं चक्रम्
लटकाये हुये थे, कुछ भीलों ने शहद के छत्तों को घने पत्तों में लपेट कर हाथों में लटका लिया था, कुछ की मुट्ठियाँ सिंह के पञ्जों की तरह गजमोती से भरी हुई थी; कुछ राक्षसों की तरह मांस का बोझ लादे हुये थे, कुछ शङ्करजी के गणों के समान बाघम्बर लपेटे हुये थे, कुछ क्षपणको की तरह अपने हाथों में मोरपङ्ख लिये हुये थे, कुछ बालों में कौओं के पङ्ख खोंसने के कारण काकपक्षधारी बालकों जैसे लग रहे थे, कुछ हाथी के दाँत उखाड़ कर हाथों में लटकाये हुये चल रहे थे मानो कुवलयापीड़ का वध करने वाले भगवान् कृष्ण का अनुकरण कर रहे हों और कुछ मटमैले कपड़ों को पहिने हुये ऐसे प्रतीत होते थे मानो काले-काले बादलों की छाया से मैले आकाश वाले वर्षा के धुँधले दिन हो। वह सेनापति कमर की पेटी में कटारी खोंसे था मानों गैंडों और हथिनियों से भरा साक्षात् जङ्गल हो, वह मोर के पङ्खों से सजा हुआ धनुष लिये था मानो इन्द्रधनुष से सुशोभित नवीन साँवला बादल हो, वह एक हाथ में एक चक्र लिये था मानो एकचक्रा नगरी को धारण करने वाला बकासुर हो, वह अनेक बड़े-बड़े जङ्गली हाथियों के दाँत उखाड़ चुका था मानो अनेक साँपों के दाँत तोड़ने
१. ॰॰॰पिशिताहारैः। २. ॰॰॰धारिभिः । ३. मलिनैरम्बरैः ।