कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 164, कुल 709 में से
संदर्भ में पढ़ेंशुकजलपानादिवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । १९५
तदवस्थमालोक्य समुपजातकरुणं^१ समीपवर्त्तिनं^२मृषिकुमारकमन्यतममब्रवीत् 'अयं कथमपि शुक-शिशुरसञ्जात-पक्षपुट एव तरुशिखरादस्मात् परिच्युतः । श्येन-मुख-परिभ्रष्टेन वाऽनेन^३ भवितव्यम् । तथाद्यस्त्यल्पशेषं जीवितम्, अयमामीलित-लोचनो मुहुर्मुहुरुल्बणं श्वसिति^५, मुहुर्मुहुर्मुखेन पतति^६, मुहुर्मुहुश्चञ्चुपुटं विवृणोति^७, न शक्नोति शिरोधरां धारयितुम् । तदेहि यावदेवायमसुभिर्न विप्रमुच्यते^८ तावदेव गृहाणेमम् अवतारय सलिलसमीपम्' इत्यभिधाय तेन मां सरस्तीरमनाययत् ।
उपसृत्य च^९ जल-समीपमेकदेश-निहित-दण्ड-कमण्डलुरादाय स्वयं मां मुक्तप्रयत्नम्^१० उत्तानित^११-मुखम् अङ्गुल्या कतिचिन्न सलिल-बिन्दूनपाययत् । अम्भःक्षोदकृतसेकञ्च समुपाजात^१२-
यनम् आलोक्य दृष्ट्वा समुत्जाता समुत्पन्ना करुणा दया यस्यैतादृशः समीपवर्तिनं निकटस्थायिनम् अन्यतमं बहुषु कमप्येकम् ऋषिकुमारकं मुनितनयम् अब्रवीद् अवोचत् ।
अयमिति । अयं पुरो दृश्यमानः शुकशिशुः कीरशावकः कथमपि महता क्लेशेन असंजातपक्षपुट एव असमुत्पन्नपत्रपुट एव अस्मात् प्रत्यक्षात् तरुशिखरात् वृक्षप्रदेशाद् परिच्युतो निपतितः । वा अथवा अनेकशुकशिशुनाशयेन मुखपरिभ्रष्टेन सिन्नानकवदननिपतितेन भवितव्यम् । तदेवोपपादयति—तथाहीति । अतिदीर्घायः अत्यन्तदूरः तस्य भावस्तया तादृश्या अस्य कीरशावकस्य ल्पशेषं किञ्चिदवशिष्टं जीवितं जीवनम् । अयम् आमीलितलोचनः सङ्कुचितनेत्रः मुहुर्मुहुः अनेकशः अम्युल्बणं नितान्तद्रौपं यथा स्यात्तथा श्वसिति प्राणिति, मुहुर्मुहुः वारंवारं मुखेन वदनेन पतति परिच्यवते, चञ्चुपुटं त्रोटीपुटं विवृणोति व्याददाति, शिरोधरां ग्रीवां धारयितुं साक्ष्येण स्थापयितुं न शक्नोति न समर्थो भवति । तत् तस्मात् कारणात् एहि आगच्छ यावदेव यावति समये अयं शुकशिशुः असुभिः प्राणैः न व्यक्तो भवति तावदेव तावति समये इमं शुकशिशुं गृहाण धारय, सलिलसमीपं जलान्तिकम् अवतारय प्रापय' इति पूर्वोक्तविधिना अभिधाय दत्त्वा तेन मुनिकुमारेकण सरस्तीरं पम्पासरोवरतटम् अनाययत् प्रापयत् ।
उपसृत्य इति । जलसमीपं सलिलान्तिकम् उपसृत्य प्राप्य च, एकस्मिन् देशे भागे निहितौ स्थापितौ दण्डकमण्डलू दण्डकुण्डिके येन स तादृशो हारीतः, स्वयम् आत्मना माम् आदाय गृहीत्वा मुक्तः परित्यक्तः प्रयत्नः सलिलपाने उद्योगः वदनविकासादि व्यापार इत्यर्थः, येन तं तादृशम् अत्यन्तावसन्नमत्वादिप्याशयः । उत्तानितमुखम् उर्ध्वाङ्कृतताननम् अङ्गुल्या कराग्रेण कतिचित् कियन्तः सलिलबिन्दून् जलकणान् अपाययत् पानमकारयत् ।
अम्भ इति । अम्भक्षोदैः सलिलप्रदानसमये कुमारकराच्च्युतैः जलबिन्दुभिः सलिलकणैः कृतो विहितः सेचनं यस्य तं तादृशं च, अत एव समुपाजाता समुत्पन्ना प्रज्ञा प्रकृष्टबोधो यस्य तं तादृशं
उन्होंने अपने पास ही खड़े एक दूसरे मुनिकुमार से कहा—देखो, सुग्गे के बच्चे को अभी पंख भी नहीं आये हैं लेकिन न जाने कैसे यह इस वृक्ष की चोटी से गिर पड़ा है, अथवा यह भी हो सकता है कि किसी बाज पक्षी के मुख से छूटकर गिर पड़ा है। अब इसमें बहुत थोड़ी जीवनशक्ति बच गयी है इसलिए यह आँखें बन्द किये हुए बार-बार लम्बी-लम्बी ठण्डी साँसें खींच रहा है, बार-बार ओंधे मुंह लुढ़क रहा है और बार-बार चोंच खोल रहा है। यह यह अपनी गरदन भी नहीं संभाल पा रहा है, इसलिए इसे मरने के पहिले ही उठाकर जल के पास पहुँचा दो। इस प्रकार कहकर वे मुझे सरोवर के किनारे लिवा ले गये।
उन्होंने जल के किनारे पहुँचकर अपना दण्ड और कमण्डलु एक ओर रख दिया। मैं मरणासन्न होने के कारण अत्यन्त शिथिल हो चुका था; इसलिए उन्होंने स्वयं मुझे उठा लिया और मेरा मुख उठाकर अपनी अंगुली से पानी की कुछ बूँदें पिलायीं। जल पिलाते समय कुछ बूँदें मेरे शरीर पर भी गिरी थीं जिसकी शीतलता से
१. ***ददः ।
२. समीपतरवर्तिनम् ।
३. इह 'प्रायः' इत्यधिकः पाठः ।
४. तदाहि अतिदीर्घादस्यदाप्रयातस्यावशेषजीवितः ।
५. निःश्वसिति ।
६. वमति ।
७. विवृणुते ।
८. पप्तन् ।
९. क्वचिद् 'च' इति नास्ति ।
१०. नलमुक्तप्रयत्नं ।
११. उत्तानितमुखन्, उत्तानितमन्मुखम् ।
१२. द्रवनादनवीन्दमानम् ।