कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 165, कुल 709 में से
संदर्भ में पढ़ें| ११६ | कादम्बरी- | [ कथामुखे- |
|---|
'प्रज्ञाम् उपतट-प्ररूढ-नलिनी-पलाशस्य जलशिशिरायां छायायां निधाय यथासमुचितमकरोत् स्नानविधिम् । अभिषेकावसाने चानेकप्राणायामपूतोऽपि जपन्नघमर्षणानि प्रत्यग्रभग्नैरन्मुखो रक्तारविन्दैनैलिनीपत्र-पुटेन भगवते सवित्रे दत्त्वार्घमुदतिष्ठत् । आगृहीत-धौत-धवल-वल्कलश्च सज्योत्स्नँ इव सन्ध्यात्पः करतल-निर्धूतनं-विशद-सटः प्रत्यग्रस्नानाई-जटेन सकलेन तेन मुनिकुमार-कदम्बकेनानुगम्यमानो मां गृहीत्वा तपोवनाभिमुखं शनैः शनैरगच्छत् ।
अनतिदूरमिव गत्वा दिशि सदासन्निहित-कुसुर्मफलैः ताल-तिलकैतमाल-हिन्ताल-
माम्, उपतटे तीरनिकटे प्ररूढा प्रादुर्भूता या नलिनी कमलिनी तस्याः पलाशस्य पत्रस्य, जलेन सलिल-सेकेन शिशिरा शीतला यस्यां तस्यां तादृश्यां छायायाम् अनातपे निधाय संस्थाप्य यथासमुचितं यथा-योग्यं शरीरपु मृत्तिकालेपनादियुक्तमित्यर्थः स्नानविधिं मज्जनविधिम् अकरोत् कृतवान् ।
अभिषेकेति । अभिषेकस्य स्नानस्य अवसाने अन्ते च, अनेकैः बहुविधैः प्राणायामैः पूरककुम्भकरेच-काख्यैः वायुनिरोधनिरोधरूपयोगाङ्गविशेषैः पूतोऽपि पापरहितोऽपि । अघं दुष्कृतं मृज्यते प्रमाज्यंते एभि-रिति तानि तादृशानि अघमर्षणानि सूक्तानि, एतानि हि 'ऋतञ्च सत्यञ्चाभीद्धात्तपसोऽध्यजायत' इत्या-रभ्य 'दिवञ्च पृथिवीञ्चान्तरिक्षमथो स्वः' इत्यन्तानि वरुणदेवतास्तुतिरूपाणि बोध्यानि । अन्यत्रापि 'सर्वै-नसामपध्वंसि जप्यं त्र्यश्वघमर्षणम्' इति । उन्मुखः उपरिभागकृताननः दिनाधिपाभिमुखः सन्नित्यर्थः, प्रत्यग्रमग्नैः तत्काल्योत्खातैः रक्तारविन्दैः रक्तवर्णकमलैः, नलिनीपत्रपुटेन रक्तकमलारभूतेन कमलदल-पुटकेन भगवते माहात्म्यवते सवित्रे आदित्याय अर्घं पूजां दत्त्वा समर्प्य उदतिष्ठत् ।
आगृहीतेति । आगृहीतं स्नानानन्तरं सम्यक्प्रकारेण परिहितं धौतं क्षालितं धवलं स्वच्छं वल्कलं धृक्षत्वक् येन स तथोक्तः, अत एव ज्योत्स्नया, चन्द्रिकया सहेति सज्योत्स्नः, सन्ध्यात्तपः, सायंसम्बन्धि-सूर्यप्रकाश इव । करतलाभ्यां हस्ततलाभ्यां निर्धूननेन आस्फालनेन ताडनेनेत्यर्थः, विशदा नीरजाः सटा जटा यस्य स तादृशः, प्रत्यग्रेण नूतनेन तत्कालविहितेन स्नानेन मज्जनेन आर्दा स्विन्ना जटा यस्य स तेन तादृशेन, तेन पूर्वोक्तेन मुनिकुमारकदम्बकेन ऋषिपुत्रसमूहेन अनुगम्यमानः अनुव्रज्यमानो हारीतो मां वैशम्पायनं गृहीत्वा आदाय शनैःशनैः मन्दं मन्दं तपोवनाभिमुखं निजाश्रमसन्मुखम् अगच्छत् अव्रजत् ।
अनतिदूरमिति । अनतिदूरं किञ्चिद्वयीयांसं मार्ग गत्वा आश्रमं स्वस्थानम्पश्यदिति सुदूरस्थायिन्या क्रियया सम्बन्धः । इव शब्दोऽत्र वाक्यालङ्कारे । इह तृतीयान्तानि यानि पदानि सन्ति तानि अग्रिमस्य 'काननै'रित्यस्य विशेषणानि बोध्यानि । दिशि दिशि प्रतिदिशम् । सदा सर्वदा सन्निहितानि अवस्थितानि समीपर्त्तीनि कुसुमानि पुष्पाणि फलानि रसोद्भवानि च येषु तैः तादृशैः तालाः स्वनामप्रसिद्धाः तिलकाः श्रीमद्वृक्षविशेषाः, तमालाः तापिच्छाः, हिन्तालाः फलतरुविशेषाः, बकुलाः, केसराश्च बहुला अधिका येषु तैः
मैं होश में आ गया । तब उन्होंने मुझे किनारे पर उगी हुई कमलिनी के पत्ते की जल से ठण्डी छाया में रख दिया, फिर स्वयम् विधिपूर्वक स्नान किया, स्नान के पश्चात् अनेक प्राणायामों से अपने को पवित्र करके भी अघमर्षण (पापों को दूर करने वाला) मन्त्रों का जप किया और भगवान् सूर्य की ओर मुँह उठाकर टटके कमल के लाल फूलों और कमलिनी के जल से भरे पत्ते के दोने से उन्हें अर्घ दिया । इसके पश्चात् उन्होंने उठकर धुली हुई उजली छाल पहन ली। उस समय वह ऐसे प्रतीत होने लगे थे म.नो चाँदनी से युक्त सायङ्काल की धूप हो। फिर उन्होंने अपनी जटाओं को फटकार कर साफ किया और सभी मुनिकुमारों के साथ मुझे लेकर तपोवन की ओर प्रस्थान किया। पीछे पीछे चलने वाले उन सभी मुनिकुमारों की जटायें अभी-अभी स्नान करने के कारण गीली हो थी।
कुछ ही दूर जाने पर मैंने दूसरे ब्रह्मलोक के समान एक रमणीय आश्रम देखा। उसके चारों ओर फूलों-फलों से लदे हुए घने वृक्षों के जंगल स्थित थे। उन जंगलों में ताड़, तमाल, तिलक, हिंताल और मौलसिरी के
१. उपतटप्ररूढस्य यह्ननवनलिनीदलस्य । २. स्वोचितम्, समुचितम् । ३. अभिगताभिषेक । ४. ....पूतो जपन् परिम्लाणघमर्षणानि । ५. अर्घ्यम् । ६. आगृहीतधवल...। ७. सहज्योत्स्न इव । ८. विधुतविशदजटः । ९. कमण्डलुमापूर्यं कमलकिञ्जल्कसुरभिणा शुचिना सरोवारिणा प्रत्यग्रस्नानाईजटेन । १०. कुमारक । ११. क्वचिद् 'शनैः' इत्येकमेव पदमुपलभ्यते । १२. कुसुमपटलैः । १३. ...तिलकतालीतमाल ।