भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 166, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 166
जाबाल्याश्रमवर्णनम् ]चन्द्रकला-विद्योतिनीसहिता ।११७

बकुल-बहुलैः, एलालताकुलित-नारिकेल-कलापैः ओलोल-लोध्र-लवली-लवङ्ग-पल्लवैः, उल्लसत्-चूत-रेणु-पटलैः, अलिकुल-झङ्कार-मुखर-सहकारैः, उन्मद-कोकिल-कुल-केलालाप-कोलाहलिभिः, उत्फुल्ल-केतकी-कुसुम-मञ्जरीरजःपुञ्ज-पिञ्जरैः, पूगीलता-दोलाधिरूढ-वनदेवर्तैः, तारकावर्षमिवोधर्म-विनाश-पिशुनं कुसुम-निकरमनिल-चलितमनवरतमतिधवलमुत्सृजद्भिः, संसक्तपादपः काननै रुपगूढम् , अचकित-प्रचलित-कृष्णसारै-शत-शबलाभिः, उत्फुल्ल-स्थल-कमलिनी-लोहिनीभिः, मारीचँमायामृगावलून-प्ररूढै-वीरुद्दलाभिः, दाशरथि-चाप-कोटि-क्षत-

तादृशै। एलालताभिः चन्द्रवालावल्लीभिः आकुलिता व्याप्ता नारिकेलानां लाङ्गलीनां तरूणां कलापाः समूहा येषु तैस्तादृशैः। आलोलाः पवनवेगेन समन्ताच्चञ्चलाः लोध्राणां गाल्वानां लवलीनां लताविशेषणां लवङ्गानां श्रीसंज्ञकानां पल्लवाः किसलयानि येषु तैः तादृशैः। उल्लसन्ति पवनवेगेन प्रचलन्ति चूतानाम् आम्रपुष्पाणाम् 'आम्रश्चूतो रसालोऽसौ' इत्यमरः, रेणुपटलानि परागसमूहा येषु तैः तादृशैः। अलिकुलस्य भ्रमरगणस्य झङ्कारैः 'झम्' इत्येवंविधशब्दैः मुखरा वाचालाः सहकारा अतिसुगन्धिरसाला येषु तैः तादृशैः 'आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः' इत्यमरः। उन्मदस्य मद्योन्मत्तस्य कोकिलकुलस्य पिकगणस्य कलालापः अव्यक्तमधुरध्वनिरूपः कोलाहलः कलकलः एषामस्तीति तैः तादृशैः। उत्फुल्लानां प्रस्फुटितानां केतकीकुसुमानां मालतीपुष्पाणां या मञ्जर्यः वल्लर्यो 'वल्लरिर्मञ्जरी स्त्रियौ' इत्यमरः, तासां रजःपुञ्जैः परागपटलैः पिञ्जराणि पीतवर्णानि येषु तैः तादृशैः। पूगीनां क्रमुकानां वा लता वल्ल्यो तद्वत् कृशास्तरवः ता एव दोल अधिरोहिण्यः 'दोला प्रेङ्खाः पुमान् प्रेङ्खा, निभ्रणिरधिरोहिणी' इति रत्नकोशः, स्थानविशेषे दोलावदनेकानां कुटिलीभूतत्वादित्याशयः तत्र अधिरूढा आश्रिता वनदेवता अरण्याधिष्ठात्र्यो देवता येषु तैः तादृशैः। अधर्मस्य पापस्य विनाशो ध्वंसः तस्य पिशुनं सूचकं देवार्चनोपयोगित्वादित्याशयः, अनिलचलितं पवनान्दोलितम्, अतिधवलम्, अत्यन्तशुभ्रं कुसुमनिकरं प्रसूनवृन्दम्, तारकावर्षमिव उल्कापातमिव अनवरतं निरन्तरम् उत्सृजद्भिः परित्यजद्भिः। संसक्ता मिथो मिलिताः पादपाः तरवो येषु तैः तथोक्तैः काननैः वनैः उपगूढम् आश्लिष्टम् आच्छादितमित्यर्थः, 'गहनं काननं वनम्' इत्यमरः। 'पूगीलता-दोलाधिरूढ-वनदेवतैः' इत्यत्र वनदेवतानां तथाविधदोलाधिरोहणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलङ्कारः। 'तारकावर्षमिव इत्यत्र पूर्णोपमालङ्कारः।

अचकितेति । अचकितेत्यारभ्य 'गर्तविषे'त्यन्तानि स्त्रीलिङ्गपदानि दण्डकारण्यस्थलीभिरित्यस्य विशेषणानि। अचकितानाम् अभीतानां हिंसाभावादित्याशयः, प्रचलितानां सञ्चरतां कृष्णसाराणां तदाख्यहरिणानां शतेन आधिक्येन समुदायेनेत्यर्थः। शबलाभिर्विचित्राभिः उत्फुल्लाभिः प्रस्फुटिताभिः स्थलकमलिनीभिः स्थलपद्मिनीभिः लोहिन्यो रक्तवर्णाः ताभिः तादृशीभिः। मारीच एतन्नामाऽसुर एव मायामृगः व्याजेन मृगरूपधारी तेन अवलून्रानि पूर्वं प्रासाय छिन्नानि पश्चात् प्ररूढानि समुपजातानि वीरुधां लतानां दलानि पर्णानि यासु ताभिः तादृशीभिः 'पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्' इत्यमरः।

पेड़ों की अधिकता थी। इसके अतिरिक्त कहीं इलायची की लताओं से घिरे हुए नारियल के पेड़ थे, कहीं लोध्र, लवली और लवंग की लताओं के पत्ते हवा के झोंकों से लहरा रहे थे, कहीं आम की मञ्जरियों की धूल छायी थी, कहीं उन पर भौरों की मधुर गुंजार हो रही थी, कहीं मतवालो कोयलें मधुर स्वर से कूक रही थीं, कहीं खिले हुए केवड़ों के फूलों की मंजरियों की धूल से सारा वन पीला-पीला सा हो उठा था, कहीं सुपारी लताओं के फूलों में वनदेवियाँ विराजमान थीं और कहीं वायु के झोंकों से लगातार झड़ने वाले फूलों से सारा वन उजला हो उठा था मानो अधर्म के विनाश की सूचना देने वाली उल्कायें बरस रही हों। उस आश्रम के पिछले भाग में दण्डकारण्य की भूमि थी, जहाँ कहीं-कहीं सैकड़ों हरिण निर्भय होकर छलांगें मार रहे थे, कहीं-कहीं स्थलकमलों के खिलने से सारी भूमि लाल हो उठी थी, कहीं कहीं आज वे लतायें फिर पल्लवों से हरी-भरी हो उठी थीं जिनके पत्तों को मायावी मृग का रूप धारण करने वाले मारीच ने नोच डाला था और कहीं-कहीं की भूमि


१. नालिकेरी...। २. लोल । ३. पुष्पैः। ४. उल्लसित...। ५. कुतुकलाप...। ६. ...केतक-मञ्जीरजः; केतकीरजः...। ७. तारकावृष्टिम् । ८. क्वचित् 'काननैः' इति पाठो नास्ति । ९. सारसारङ्ग । १०. क्वचित् 'स्थल' इति पाठो न विद्यते । ११. मारीचि । १२. रूढ ।