भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 209, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 209
१६०कादम्बरी-[ कथायाम्-

सांख्यागमनेव प्रधान-पुरुषोपेतेन, जिनधर्मेणेव जीवानुकम्पिना, विलासिजनेनाधिष्ठिता, सशैलेव प्रासादैः, सशाखानगरेव महाभवनैः, सकल्पवृक्षेव सत्पुरुषैः, दर्शितविश्वरूपेव चित्रभित्तिभिः, सन्ध्येव पद्मरागानुरागिणी, अमराधिप-मूर्त्तिरिव मखशतानलधूमपूता, पशुपति-लास्यक्रीडेव सुधाधवलादृट्टासा, वृद्धेव जातरूपस्या, गरुडमूर्त्तिरिवाच्युतस्थितिर्-

सांख्येति। सांख्याः कापिलाः तेषामागमः सिद्धान्तः तच्छास्त्रमित्यर्थः, तेनेव, प्रधानपुरुषैः धनगुणा- दियुक्ततया उत्तमपुरुषैः उपेतेन सहितेन, पक्षे तु-प्रधानं सत्त्वरजस्तमसां साम्यावस्थारूपा प्रकृतिः, पुरुषो नित्यशुद्धबुद्धमुक्तस्वभावः प्रकृतिविकृतिविलक्षणश्चेतनरूपः ताभ्याम् उपेतेन सहितेन । तथा च सांख्यसूत्रम्—'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्योगस्तद्योगादृते, इत्यादि । सांख्यकारिकायामपि—

'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥' इति ।

जिनेति । जिन आर्हतः तद्धर्मेण तन्न्यायेनेव जीवान् निखिलान् प्राणिनः अनुकम्पते कृपां विधत्त इति तेन तादृशेन, विशेषणमिदं पक्षद्वयेऽपि तुल्यम् , जैनानामहिंसावादित्वात् ।
कवेः कीदृशं दर्शनशास्त्रगभीरपाण्डित्यमित्येतत्प्रदर्शनेनैव सुधियो विभावयन्तु ।
इह 'सुरभिमासमारुतेनेव' इत्यारभ्य 'जिनधर्मेणेद' इत्यन्तं पूर्णोपमालङ्कारः ।
विलासीति । विलासिजनः ।

'गतिः स्थानासनादीनां मुखनेत्रादिकर्मणाम् । तात्कालिकं तु वैशिष्ट्यं विलासः प्रियसङ्गजम्' ॥ इति ॥

इति लक्षणलक्षितः पुरुषः तेन अधिष्ठिता सदलम्बि्रता ।
सशैलेति । प्रासादैः देवभूषसदनैः सशैलेव साचलेव, तेषामत्युन्नतत्वादित्याशयः । तृतीया चेह (प्रकृत्यादिभ्य उपसंख्यानम्) इत्यनेन करणे बोध्या, एवमन्यत्रापि । महाभवनैः अतिविस्तृतगृहैः शाखा- नगरं निकटस्थायि क्षुद्रनगरं तत्सहितेव तेषां शाखानगरवद्दीर्घत्वादित्यभिप्रायः । सत्पुरुषैः महापुरुषैः सक- ल्पवृक्षेव सह पारिजातेनेव तद्वत्तेषां याचकयाच्ञासाफल्यकरणादित्यशयः । चित्रभित्तिभिः आलेख्ययुक्त- कुड्यैः दर्शितानि प्रकाशितानि विश्नेषां संसाराणां निखिलवस्तूनां रूपाणि आकृतयो यया सेव, जगतां निखिलपदार्थानामेव तत्रालिखितमानत्वादित्याशयः ।
इह 'सशैलेव प्रासादैः' इत्यत्र शैलसंयोगस्योत्प्रेक्षणादुत्प्रेक्षालङ्कारः, तेन च प्रासादा एव शैला इति रूपकालङ्कारो ध्वन्यत इत्यलङ्कारेणालङ्कारध्वनिः । एवमग्रेऽपि । 'दर्शितविश्वरूपेव चित्रभित्तिभिः' इत्यत्र विश्वरूपप्रदर्शनक्रियोत्प्रेक्षणात् क्रियोत्प्रेक्षालङ्कारः ।
सन्ध्येति । सन्ध्या सायं समयमिव, पद्मरागैः यत्र तत्र खचितैस्तन्नामरत्नैः अनुरागो रक्तिमा, पद्मरागवत् अनुरागो लौहित्यं च अस्या अस्तीति सा तादृशी ।
अमरेति । अमराधिपस्य इन्द्रस्य मूर्त्तिः शरीरमिव, मखशतस्य विविधमखस्य, शतसंख्यकाश्वमेध- मखानाञ्च अनलस्य अग्नेः धूमेन दहनकेतनेन पूता पवित्रा ।
पश्विति । पशुपतेः महेश्वरस्य लास्यक्रीडेव नृत्यखेलेव, सुधामिः श्वेतगृहधवलीकरणद्रव्यैः धवलानां श्वेतीभूतानाम् अट्टानाम् अट्टालिकानां हासो विकासो यत्र सा तादृशी, पक्षे तु सुधावत् पीयूषवत् धवलः श्वेतः अट्टहासो महाहास्यं तत्र सा तादृशी 'यशसि धवलता वर्ण्यते हासकीर्त्योः' इति हि कविसमयः ।
वृद्धेति । वृद्धा स्थविरा नारीव, जातरूपाणां सुवर्णानां ऋचा भवनानि यन्त्र सा तादृशी, पक्षे तु—

लोगोंके बीचमें भी उसी प्रकार प्रधान-प्रधान मनुष्य हैं, और जैनधर्मके समान वे सभी जीवों पर दया रखते हैं । उस उज्जयिनीमें पर्वतोंके समान राजमहल हैं, देवनवनों के समान भवन हैं और कल्पवृक्षके समान सत्पुरुष हैं । वह अपनी चित्रित भित्तियोंसे मानो विश्वरूप प्रकट करती है । सन्ध्या जिस प्रकार पद्मरागमणियोंके समान रक्तवर्ण होती है, उज्जयिनी भी उसी प्रकार अधिकतर पद्मरागखचित होनेसे रक्तवर्ण है । इन्द्रकी मूर्त्ति जिस प्रकार शत अश्वमेधयज्ञके अग्निधूमसे पवित्र हो गई थी, उज्जयिनी भी उसी प्रकार यज्ञीय अग्निके धूमसे पवित्र हो गई है । शङ्करकी नृत्य-क्रीडा जिसप्रकार चन्द्रकले समान धवल अट्टहास-समन्वित होतो है, उज्जयिनी भी उसी प्रकार चूनेसे सफेदी


१. ॰॰॰पुरुषगुणोपेतेन । २. सर्वभूतानुकम्पिना । ३. सशैलेव । ४. पद्मरागानु० ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 209, कुल 709 में से · BharatKosha