भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 226, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 226

शुकनासवर्णना-४ ] चन्द्रकला-विद्योतिनीसहिता । १७७

प्रेमरासः, नीतिशास्त्र-प्रयोग-कुशलः, भुवनराज्यभारनौ-कर्णधारः, महत्स्वपि कार्य्यसङ्कटे- ष्वविपण्णधीः, धाम धैर्य्यस्य, स्थानं स्थितेः, सिन्धुः सत्यस्य, गुरुर्गुणानाम्, आचार्यो आचाराणाम्, धाता धर्म्मस्य, शेषाहिरिव सकलमही-भारधारणक्षमः, सलिलनिधिरिव महासत्त्वनिवासः, जरासन्ध इव घटित-सन्धिविग्रहः, त्र्यम्बक इव प्रसाधितदुर्गः, युधि- ष्ठिर इव धर्म्मप्रभवः, सकल-वेद-वेदाङ्गवित्, अशेषराज्यमण्डलमङ्गलैकसारः, बृहस्पति-

नीतिशास्त्रं व्यवहारग्रन्थः तस्य प्रयोगः तदर्थपरिचरणं तत्र कुशलो निपुणः । भुवनराज्यस्य विष्टपाधिपत्यस्य भारः शासनव्यापार एव नौः तरणिः तस्याः कर्णधारो नाविकः । महत्स्वपि गुरुष्वपि कार्यसङ्कटेषु विधेय-कृच्छ्रेषु अविपण्णा अप्रतिहता धीः प्रज्ञा यस्य सः । इह 'भुवनराज्यभारनौकर्णधार' इत्यत्र परम्परितरूपकमलङ्कारः ।

धामेति । धैर्यस्य अविचलचित्ततायाः धाम आधारः, स्थितेः मर्यादायाः स्थानम् आश्रयः, सत्यस्य अवितथस्य सिन्धुः महाधारः, गुणानां दयाविनयादीनां गुरुः हितोपदेष्टा, आचाराणां शिष्टव्यवहाराणाम् आचार्यः उपदेष्टा, धर्मस्य सुकृतस्य धाता धारकः ।

शेषेति । शेषाहिः वासुकिनाग इव, सकलायाः समस्तायाः महाः भूमेः भारः शासनव्यापारः तस्य धारणे सञ्चालने क्षमः समर्थः अन्यत्र हि भारो गुरुत्वरूपगुणविशेषः तस्य धारणे उद्वहने क्षमः ।

सलिलेति । सलिलनिधिः सागर इव, महासत्त्वस्य उत्कृष्टाध्यवसायस्य निवास आश्रयः, अन्यत्र महतां विशालानां सत्त्वानां मकरादिजन्तूनां निवास आधारः ।

जरेति । जरासन्ध एतन्नाम्ना प्रसिद्धो भूपतिरेव, घटितौ प्रोजितौ, सन्धिः सामप्रयोगपूर्वक-द्रव्यादिसमर्पणेन मैत्रीस्थापनम्, विग्रहः संग्रामश्च तावुभौ येन स तादृशः, अन्यत्र हि घटितो विहितः सन्धिः खण्डद्वयस्य संयोगो यस्य स तथोक्तो विग्रहौ वपुर्यस्य स तादृशः ।

पुरा किल बृहद्रथाख्यो भूपतिः स्वतनयादिकमनवलोक्य चण्डकौशिकं मुनिमुपेत्य आराध्यितुं प्रवृत्तः, ततस्तुष्टो मुनिः तस्मै एकमात्रफलं पत्नीभ्यां भोक्तुं प्रददौ । भूर्द्धमर्द्धं विभज्य खादितवतीभ्याञ्च ताभ्यां समयान्तरऽर्द्धार्धशरीरयुक्तं बालकद्वयं प्रसूतम्, तन्निरोक्ष्य नितरां सन्तप्तो भूपतिः श्मशानभूमा-वादाय निक्षिपेप । अनन्तरं जरानाम्नी काचन श्मशानवासिनी राक्षसी यावदेव तद्भागद्वयमेकत्र स्थापितवती तावदेव जीवितं तं निरीक्ष्य तस्मै भूपतये समर्पितवती तत एव 'जरासन्ध' इति नामेति महाभारतीया कथा ।

त्र्यम्बक इति । त्र्यम्बको विरूपाक्षः (शङ्करः) इव, प्रसाधितानि सम्पादितानि दुर्गाणि परिखादीनि येन स तादृशः, अन्यत्र प्रसाधिता प्रसन्नीकृता दुर्गा पार्वती येन सः ।

युधीति । धर्म्माणां सुकृतानां प्रभवो यागादिना उद्भवो यस्मात् स तादृशः, अन्यत्र धर्मात् प्रभवो जनिः यस्य स तादृशः । धर्मपुत्रो 'युधिष्ठिर' इत्याख्यायिका महाभारतादावनुसन्धेया ।

सकलेति । सकलानि समस्तानि यानि वेदवेदाङ्गानि ऋग्यजुःसामाथर्वछन्दःकल्पादीनि तानि वेति जानातीति स तादृशः । अङ्गानि वेदस्य-

'छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।।' इति ।

अशेषेति । निखिले राज्यमण्डले मङ्गलैकसारः कल्याणैकरहस्यभूतः सकलगुणानां निधिरूपत्वादित्याशयः ।

बृहस्पतिरिति । सुनासीर इन्द्रः तस्य बृहस्पतिः सुराचार्यः तद्वत्, 'वृद्धश्रवाः सुनासीरः

प्रगढानुराग उत्पन्न हो गया था। वह नीति-शास्त्र के प्रयोगमें कुशल था; एवं संसारके राज्यशासनकार्यरूप नौका-का कर्णधार था, बड़े-बड़े सङ्कटोंमें भी उसको बुद्धि कुण्ठित नहीं होती थी। वह धैर्यका आधार था; मर्यादाका आश्रय था; सत्यका समुद्र था; गुणोंका शिक्षक था; सदाचार का उपदेशक था; एवं धर्मका आश्रय था। शेषनाग जिस प्रकार पृथिवीका भार-वहन करनेमें समर्थ हैं, वह भी उसी प्रकार समस्त पृथिवीका शासन करनेमें अच्छी तरह समर्थ था। जिस प्रकार समुद्र मकरादि बड़े बड़े जलजन्तुओंका आश्रय है, उसी प्रकार वह भी अत्यन्त अध्यवसायका आश्रय था। जिस प्रकार जरा नामकी श्मशानवासिनी राक्षसीने जरासन्धके शरीरके दो हिस्सोंको सङ्घटित किया था, उसी प्रकार उसने भी दण्डप्रदानमें सन्धि = मेल, और विग्रह = लड़ाई को सङ्घटित किया था।


१. भारैकनौ । २. सेतुः । ३. क्वचित् 'सकल' इति पदं नास्ति । ४. प्रकुटित...। ५. ०००मण्डलैकसारः ।