कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 227, कुल 709 में से
संदर्भ में पढ़ें१७८ कादम्बरी- [ कथायाम्-
रिव सुनासीरस्य, कविरिव वृषपर्वणः, वशिष्ठ इव दशरथस्य, विश्वामित्र इव रामस्य, धौम्य इवाजातशत्रोः, दमनक इव भीमस्य, सुमतिरिव नलस्य, सर्वकार्येष्ववाहितमतिः, अमात्यो ब्राह्मणः शुकनासो नामासीत् । या नरकासुर-शस्त्रप्रहार-भीषणे भ्रमन्मन्दर-नितम्ब-निर्दय-निष्पेषकठिनांसपीठे नारायणवक्षःस्थलेऽपि स्थितामदुष्करलाभाममन्यत प्रज्ञाबलेन लक्ष्मीम् । यञ्च समासाद्य दर्शितानेकराल्यफला लतेव महापादपम् अनेकप्रतानगहना विस्तारमुपययौ प्रज्ञा ।
पुरुहूतः पुरन्दरः, 'बृहस्पतिः सुराचार्यः' इति चामरः । वृषपर्वणो निजनामख्यातस्य दैत्याधिपतेः' कविः शुक्राचार्यः तद्वत् 'शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः' इत्यमरः । दशरथस्य रामपितुः वशिष्ठः अरुन्धतीपतिः तद्वत् । रामस्य दशरथात्मजस्य विश्वामित्रः कौशिकः तद्वत् । अजातशत्रोः युधिष्ठिरस्य धौम्यः तद्वत् । भीमस्य निषधराजस्य दमयन्तीतातस्य दमनक इव सुमतिः तद्वत् । सर्वकार्येषु समस्तकृत्येषु नलस्य आहिता स्थापिता मतिर्बुद्धिर्यस्य स तादृशः, शुक्रस्य कीरस्येव नासा, नासिका यस्य स तादृशः । अन्वयस्तु प्रागेवोक्तः ।
य इति । यः शुकनासः प्रज्ञाबलेन बुद्धिसामर्थ्येन, नरकासुरस्य नरकाख्यदैत्यस्य शस्त्रप्रहारेण शस्त्राघातेन भीषणे क्षतचिह्नयुक्ततया भयानके, तथा भ्रमतः क्षीरोदमन्थनकाले घूर्णमानस्य मन्दरस्य अद्रेः यो नितम्बो मध्यभागः तस्य निर्दयनिष्पेषेण निरनुकम्पघर्षणेन कठिने कठोरे अंसपीठे पीठवद्विपुले स्कन्धद्वयं यस्य तथोक्ते, नारायणस्य विष्णोः वक्षःस्थले स्थितां विद्यमानामपि लक्ष्मीं श्रियम् अदुष्करलाभां स्वप्रयासलभ्याम् अमन्यत ज्ञातवान् । इह नरकासुरः शस्त्रप्रहारेणापि यां प्राप्तुं न समर्थो बभूव, या च मन्दराचलनिष्पेषेणापि न गतवती तामपि श्रियमदुष्करलाभाममन्यत इत्यर्थस्य पूर्वविशेषणद्वयेन ध्वननान्नापुष्टार्थत्वदोषस्य प्रसक्तिरिति भावुकानां भावः । भूमिसुतं नरकासुरं श्रीकृष्णो जघानेति हरिवंशीया कथेहानुसन्धेया । 'श्रोपाहिरिव' इत्यारभ्य 'त्र्यम्बक इव' इत्यन्तं पूर्णोपमालङ्कारः ।
यमिति । लता शततिः महापादपं विस्तृततरुमिव, प्रज्ञा मतिः 'धीः प्रज्ञा शेमुषी मतिः' इत्यमरः, यञ्च शुकनासं समासाद्य लब्ध्वा, दर्शितानि प्रकटितानि अनेकानि बहूनि राज्यानि अभिनवराज्यप्राप्तयः
जिस प्रकार महादेवजी पार्वतीको प्रसन्न करनेके लिए आभूषणादिका सम्पादन करते हैं, उसी प्रकार वह भी अनेक स्थानमें दुर्गिनिर्माणक्रियाका सम्पादन करता था । जिस प्रकार युधिष्ठिर धर्मप्रभव ( धर्मराजसे उत्पन्न ) थे, उसी प्रकार वह भी धर्मप्रभव ( यागादिद्वारा धर्मका उत्पादक ) था । और वह समस्त वेद-वेदाङ्गको जानता था । एवं समस्त राज्यके मध्यमें अद्वितीय प्रधान व्यक्ति था। जिस प्रकार वृहस्पति इन्द्रके, शुक्राचार्य वृषपर्वाके, वशिष्ठ दशरथके, विश्वामित्र रामचन्द्रके, धौम्य युधिष्ठिरके, दमनकमुनि भीमराजाके, एवं सुमति नलराजाके मन्त्री थे, उसी प्रकार शुकनास भी तारापीडका मन्त्री था और वह सभी कार्योंमें बुद्धि-प्रयोग ( विवेकपूर्ण कार्य ) करता था ।
नरकासुरके अस्त्र-प्रहारसे चिह्न-युक्त होकर जिसका वक्षःस्थल भयङ्कर हो गया था एवं समुद्रमन्थनके समय कन्धों पर भ्रमण करते हुए मन्दराचलके निर्दय घर्षणसे जिसके वक्षःस्थल के समीपवर्ती स्कन्धद्वय कठिन हो गये थे, नारायणके उस वक्षःस्थलमें लक्ष्मीदेवीके वास करने पर भी वह (शुकनास) उसे अपने बुद्धिबलसे प्राप्त करना दुर्लभ नहीं समझता था ।
एवं जिसप्रकार लता किसी एक विशाल वृक्षको पाकर उसके अवलम्बनसे अनेक फल उत्पन्नकर नये पल्लवोंसे सघन होकर क्रमसे विस्तारको पा जाती है, उसीप्रकार बुद्धि-जिस शुकनासको पाकर नये-नये राज्यप्राप्तिका दर्शन कराकर एवं बहुत्तर विषयमें प्रवेश कर दूसरोंके दुर्ज्ञेय होकर क्रमसे विस्तार पा गई थी ( सारांश यह है कि-वह अपनी बुद्धिसे राज्यमें ऐसे ऐसे कार्योंको करता था, जिनसे प्रजाको उत्तम शासनके अनेक लाभोंका अनुभव होता था, ऐसी उसकी लतारूप बुद्धि उस महावृक्षरूपी प्रधानके समागमसे अगणित प्रतानोंसे गहन होकर विस्तार पा गई थी ) ।
१. 'दमनक इव नलस्य', इत्येव पाठो न तु 'सुमतिरिव' इत्यादिः । २. अप्रतिहतमतिः । ३. क्वचित् 'प्रहार' इति पदं नास्ति । ४. क्वचित् 'नितम्ब' इति पदं नास्ति । ५. पादपम् ६. उपाययौ ।