कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 231, कुल 709 में से
संदर्भ में पढ़ें| २८२ | कादम्बरी- | [ कथायाम्- |
|---|
लक्तक-सिक्त-हंस-मिथुनम्, अलक-निपतित-कुसुमनिकर-शारम्, प्लवमान-कर्णपूर-कुव- लयदलम्, उन्नत-नितम्ब-संक्षोभ-जर्जरित-तरङ्गम्, उद्दलित-नाल-पर्यस्त-नलिननिपतित- धूलि-पटलम्, अनवरत-करास्फालनस्फुरत्-फेनबिन्दु-चन्द्रकितम्, सावरोधजनो जलक्रीडां गृहदीर्घिकाणामम्भश्चकार ; कदाचित् सङ्केत-वञ्चिताभिः प्रणयिनीभिराबद्ध-भङ्गुर-भ्रुकुटीभिरारणित-मणिपरि- हार्य्य-मुखर-भुजलताभिर्वकुलकुसुमावलीभिः संयत-चरणं नख-किरण-विमिश्रैः कुसुम- दामभिः कृतापराधो दिवसमताड्यत ।
गृहदीर्घिकाणां भवनवापीनाम् अम्भो जलम् एतादृशं चकार निर्ममे इत्यग्रिमेण सम्बन्धः । इह द्वितीया- न्तानि पदानि अम्भोविशेषणानि । कुचयोः स्तनयोः चन्दनचूर्णैः मलयजक्षोदैः धवलिता शुभ्रीकृता ऊर्मि- माला तरङ्गपङ्क्तिः यस्य तत्तादृशम् । चञ्चलाभ्यां चलिताभ्यां तुलाकोटिभ्यां नूपुराभ्यां वाचालयोः शब्दाय- मानयोः चरणयोः पादयोः अलक्तकैः लाक्षारसैः सिक्तं सेचितं हंसमिथुनं नूपुरशब्दाकृष्टं सितच्छदद्वन्द्वं यत्र तत्तादृशम् । 'पादाङ्गं तु तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । अलकात् चूर्णकुन्तलात् निपतितैः स्खलन्तैः कुसुमनिकरैः पुष्पसमूहैः शारं नानारूपम् । प्लवमानानि सलिलोपरि सन्तरन्ति कर्णपूराणाम् आकण्ठमग्नमहिलाग्रवगभूषणीभूतानां कुवल्यानां नीलोत्पलानां दलानि पत्राणि यत्र तत्तादृशम् । उन्न- तानाम् उच्चानां नितम्बानां श्रोणत्याः पश्चाद्भागानां संक्षोभेण आस्फालनेन जर्जरिताः चूर्णीकृताः तरङ्गाः कल्लोला यत्र तत्तादृशम् । उद्दलित्तानि उच्छिन्नानि नालानि विसानि येषां तादृशानि, अत एव पर्यस्तानि सलिलोपरि पतितानि यानि नलिनानि कमलानि तेभ्यो निपतितं स्रस्तं धूलिपटलं रजःसमूहो यत्र तत्तादृशम् । तथा अनवरतं निरन्तरं करास्फालनेन सलिलसेचमाय तत्रैव पाणिसाञ्चालनेन स्फुरद्भिः देदीप्यमानैः फेनविन्दुभिः अब्धिकफपृषतैः सञ्जाताः चन्द्रकाः चन्द्राकारसलिलस्फोटा अस्येति तत्तादृशम् । अन्वयस्तूक्त एव ।
कदाचिदिति । सङ्केते वञ्चिताभिः, 'एवंविधसमये तथाविधस्थले भवतीभिः सह विहरिष्ये' इत्येवं- रूपेण निर्णये विहिते तत्र समुपस्थितासु तासु 'नृपतिस्तु नागत इति' तेन विप्रलब्धाभिरित्यर्थः, अत एव आबद्धाः विहिताः भङ्गुराः वक्राः भ्रुकुटयो याभिस्ताभिस्तथोक्ताभिः, आरणिताः ताडनाय हस्तान्दोलनात् शब्दिताः ये मणिपरिहार्याः रत्नकटकानि 'आवापकः परिहार्यः कटको वलयोऽस्त्रियाम्' इत्यमरः, तैः मुखराः वाचाला भुजलता बाहुवल्ल्यो यासां ताभिः तादृशीभिः, प्रणयिनीभिः मानिनीभिः (कर्त्रीभिः) वकुलकुसुमावलीभिः केसरपुष्पमालाभिः (करणैः), संयतौ बद्धौ चरणौ पादौ यस्य स तादृशः, कृताप- राधः विहितागाः सङ्केतस्थलेऽनागमनादित्याशयः, भूपतिः, नखकिरणविमिश्रैः पुनर्भवमयूखसंस्पृष्टैः कुसुम- दामभिः अन्यपुष्पमालाभिः दिवसं समग्रं दिनम् अभिव्याप्य अताड्यत प्राहिषत 'कालाध्वनोरत्यन्त- संयोगे द्वितीया' इत्यनेन 'दिवसम्' इत्यत्र द्वितीया ।
वरोंके मध्यमें प्रवेश करता था, उस समय उसके जलमें किसी रमणीके स्तनोंका चन्दन घुल जानेसे उनकी तरङ्गे श्वेतवर्ण हो जाती थीं। किसी रमणीके चञ्चल नूपुर (पायजेब) के हिलनेसे झन-झनाहट करते चरणोंमें लगा अल- क्तरस अनुकरणकारी हंस-दम्पती पर छिड़क जाता था, किसी सुन्दरीके केशकलापसे स्खलित कुसुमसमूहके गिर जानेसे दीर्घिका (गृहसरोवर) का जल विचित्र हो जाता था; किसी सुन्दरीके जलमध्यमें आकण्ठ मग्न होने पर उसके कर्णाभरण नीलोत्पलके पत्र जलके ऊपर तैरने लगते थे; किसी रमणीके ऊँचे-ऊँचे नितम्बोंके क्षोभसे तरङ्गें छिन्न-भिन्न हो जाती थीं, किसी रमणीके द्वारा नालसे तोड़कर फेंके हुए कमलों की रज फैल जाती थी और किसी सुन्दरी द्वारा राजाके रोर पर जलसेचन करनेके समयमें बार-बार पानीको हाथसे हिलोड़नेसे उड़ते हुए फेनबिन्दुसमूह उत्पन्न होकर जलके ऊपरमें चन्द्राकार बन जाते हैं।
किसी समय राजा संकेतकार रात्रिमें उस स्थान पर नहीं गया जिससे प्रतारित प्रियाएं दूसरे दिन भृकुटि टेढ़ी करके झनझनाते मणिकङ्कणोंसे शब्दायमान भुजलताओंद्वारा मौलसिरीके फूलों की मालासे उस अपराधी राजाका पैर बाँधकर अपने नख-किरणोंसे मिश्रित अपर पुष्पमाला द्वारा उसे ताड़ना करती थीं ।
१. '...कुसुमनिकरम्, कुसुमनिकरशारम्' । २. क्वचित् 'पूर' इति पदं नास्ति । ३. '...क्षोभं...' । ४. '...करतलास्फालन...' । ५. '...विस्फुरत्...' । ६. भ्रुकुटीभिः, भुकुटिभिः, भ्रूकुटीभिः । ७. '...भारणितपरिहार्य्य... । ८. बकुलकुसुमावलीसंयत... ।