कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 232, कुल 709 में से
संदर्भ में पढ़ेंराजभोगविलासश्च ०-५ ] चन्द्रकला-विद्योतिनीसहिता । १८३
कदाचिद्वकुलतरुरिव कामिनी-गण्डूष सीधु-धारा'-स्वादु-मुदितो विकासमभजत । कदाचिदशोक-पादप इव युवति-चरणतल-प्रहार-संक्रान्तालक्तकरसो रागमुवाह । कदाचि-न्मुसलायुध इव चन्दन-धवलः कण्ठावसक्तोल्लसल्लोल-कुसुममालः पानमसेवत । कदाचिद्-गन्धगज इव मद्रक्त-कपोलदोलायमान-कर्णपल्लवो मदकलः काननं विकँच-वनलता-कुसुममुरभि-परिमलं जगाहे । कदाचित् कर्ण-न्मणिनूपुरनिनादानन्दितमानसो हंस इव
कदाचिदिति । बकुलतरुः केसरवृक्षः स इव, कामिन्याः रमण्याः गण्डूषसीधुधाराया वदनपूर्णमद्य-धारायाः स्वादेन पानचर्वणेन मुदितो हर्षितः, विकासं हर्षेण विस्फारितहृदयत्वं विकस्वरत्वञ्च अभजत बकुलतरोरिव राजा तु प्राप्तवानित्यर्थः । यदि कालभेदाद्प्रक्रमतादोष आपततीति विभाव्यते तदा 'यथा कामिनीगण्डूषसीधुधारास्वादमुदितो बकुलतरुः विकासं भजते तथा कदाचिद्विकासमभजत' इति पाठान्तरेण समाधेय इति सुधियो विभावयन्तु । न चैवमपि मद्यपानस्य शास्त्रनिषिद्धत्वादत्र राज्ञः कथं तदास्वाद इति वाच्यम्, मद्यपदेन सुरामद्यस्यैव ग्रहणं तस्यैव हि निषेधो न त्वन्यस्य, अत्र च सीधु-पदस्य इक्षुविकारप्रतिपादकत्वेन दोषाभाव इति सुधीभिराकलनीयम् ।
कदाचिदिति । अशोकपादपः कङ्केलिवृक्षः तद्वत् युवतीनां तरुणीनां यः चरणतलप्रहारः पादतलावाघातः तेन संक्रान्तः तस्मात् स्वशरीरं सङ्करितः अलक्तरसः स्यामकद्रवो यस्य स तादृशः, रागं तास्वनुरागं रक्ततां च उवाह अवहत् । 'स्त्रीणां पादाघातादशोकं विकसती'ति कविसमयप्रसिद्धिः, तया-चोक्तं साहित्यदर्पणे—
'पादाघातादशोकं विकसति बकुलं योषितामास्यमद्यैः' इति ।
कदाचिदिति । मुसलायुधो बलभद्रः तद्वत्, चन्दनेन शरीरे मलयजलेपनेन धवलः शुक्लः, पक्षे चन्दनवद्धवलः, कण्ठे अवसक्ता लग्ना उल्लसन्ती देदीप्यमाना लोला चपला कुसुममाला पुष्पस्रक् यस्य स तादृशः, पानं सीध्वादिसद्यपानम् असेवत अभजत ।
कदाचिदिति । गन्धगजो गन्धप्रधानो हस्ती स इव, मदेन मद्यपानोत्पन्नमत्ततया रक्तौ रक्तवर्णौ अन्यत्र मदजलेन रञ्जितौ यौ कपोलौ गण्डद्वयं तयोः दोलायमानौ सञ्चाल्यमानौ कर्णपल्लवौ श्रवणभूषणी-भूतपल्लवौ प्रथितकर्णौ च यस्य स तादृशः । मदेन आनन्देन कलो मधुराव्यक्तध्वनिर्यस्य स तादृशः, मदान्त्तश्च । विकचैः विकस्वरैः वनलतानाम् अरण्यवल्लीनां कुसुमैः पुष्पैः सुरभिः घ्राणतर्पणः परिमलो गन्धो यत्र तत्तादृशम्, काननम्, उपवनम् अरण्यञ्च जगाहे विलोडयामास ।
कदाचिदिति । क्वणन्ति शब्दायमानानि यानि मणिनूपुराणि रत्ननिर्मितानि पादभूषणानि 'मञ्जीर' इत्यर्थः, तेषां निनादेन शब्देन आनन्दितं मुदितं चित्तं मानसं यस्य स तादृशः । हंसपक्षेऽप्येवम्, तस्यापि नूपुरशब्देन मुदितमनस्त्वस्य प्रसिद्धत्वात् । कमलबनेषु नलिनकाननेषु रेमे अरमत ।
जिस प्रकार बकुल (मौलसिरी) वृक्ष कामिनियोंके मुख-मद्यके संस्पर्शसे स्वकीय पुष्प-समूहको विकसित करता है उसी प्रकार राजा भी किसी समयमें कामिनियोंके मुखमें भरे मदिराके घूंटके स्वादसे आनन्दित होकर स्फूर्ति लाभ करता था । जिस प्रकार अशोक वृक्षमें युवतियोंके चरणतलके प्रहारसे लगे हुए अलक्तक रससे रक्त-पुष्प निकलते हैं, उसी प्रकार राजा भी किसी समयमें युवतियोंके चरण-प्रहारसे शरीरमें लगे हुए अलक्तक रससे उन लोगोंके प्रति और भी अनुरक्त होता था । किसी समय राजा, बलरामके समान चन्दन लेपन करनेसे शुभ्रवर्ण हुए कण्ठमें मनोहर और चञ्चल कुसुममाला धारणकर प्रिय युवतियोंके साथ मद्यपान करता था । जिस प्रकार मत्त गन्धगज स्वकीय मदजलपूरित कपोलद्वयके ऊपर विस्तृत कर्णयुगल हिलता हुआ खिले हुए वनलता कुसुमोंकी उत्तम सुगन्धसे युक्त वनमें भ्रमण करता है, उसी प्रकार राजा भी किसी समय मदसे मत्त हुए-स्वकीय मदसे लाल हुए कपोलद्वय पर कानमें पहने हुए पल्लवको झुलाता हुआ हर्षवश मधुरध्वनिसे युक्त होकर प्रिय युवतियोंके साथ खिले हुए वनलता-कुसुमोंकी उत्तम सुगन्धसे युक्त उद्यान (बगीचे) में भ्रमण करता था । किसी समय राजा मणिरचित युवतियोंके रुन-झनाने नूपुर (पायल) के शब्दसे आनन्दित चित्त होकर हंसके
१. कामिनीनां गण्डूष० । २. आस्वादन० । ३. ००अलक्तको रागं००। ४. चन्दनधवलकण्ठ००।
५. कण्ठावसक्तलोल००, कण्ठावभग्नकुसुमलोल००। ६. क्वचिद् 'कर्ण' इति पदं नास्ति । ७. विकस्वर ।
८. क्वणित्००।