कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 233, कुल 709 में से
संदर्भ में पढ़ें| १८४ | कादम्बरी- | [ कथायाम्- |
|---|
कमलवनेषु रेमे। कदाचिन्मृगपतिरिव स्कन्धावलम्बितकेसर-मालः क्रीडापर्वतेषु विचचार। कदाचिन्मधुकर इव विजृम्भमाण-कुसुम-मुकुलदन्तुरेषु लतागृहेषु बभ्राम। कदाचित्$^२$ नील-पट-विरचितावगुण्ठनो बहुलपक्ष-प्रदोष-दत्त-सङ्केताः सुन्दरीरभिससार। कदाचिच्च विघटितकनक-कपाट-प्रकटवातायनेष्वनवरत-दह्यमान-कृष्णागुरु-धूमरक्तैरिव पारावतैः$^५$ अध्यासित-विटङ्केषु महाप्रासाद-कुक्षिषु कतिपयाप्त-सुहृत्परिवृतो वीणा वेणु-मुरज-मनोहरमन्तःपुर-सङ्गीतकं ददर्श। किं बहुना, यद्यदतिरमणीयमभिमतमविरुद्धमायत्यां तदात्वे च तत्तदनाक्षिप्तचेताः परिसमाप्तत्पादन्येषां पृथिवीव्यापाराणां सिषेवे, न तु
कदाचिदिति। मृगपतिरिव सिंह इव, स्कन्धे अवलम्बिता धृता केसरमाला बकुलपुष्पस्रक्, सटापङ्किश्च येन स तादृशः, क्रीडापर्वतेषु खेलाशैलेषु विचचार बभ्राम।
कदाचिदिति। मधुकरो भ्रमरः तद्वत्, विजृम्भमाणैः प्रस्फुटद्भिः कुसुममुकुलैः पुष्पकुड्मलैः दन्तुराणि विषमाणि तेषु तादृशेषु, लतागृहेषु वल्लीभवनेषु बभ्राम विचचार। इह 'अशोकपादप इव' इत्यारभ्य 'मधुकर इव' इत्यन्तमुपमालङ्कारः।
कदाचिदिति। नीलपटेन श्यामवस्त्रेण विरचितं सम्पादितम्, अवगुण्ठनं शिरोऽवधिशिरोराच्छादनं येन सः तादृशः, अन्यकर्तृकावलोकनभियेत्याशयः। बहुलपक्षस्य कृष्णपक्षस्य प्रदोषे रजनीमुखे दत्तः सङ्केतः 'भवतीषु तत्रोपस्थितासु अहमुपेत्य रंस्ये' इति निर्देशो यासु ताः तादृशीः, सुन्दरीः रमणीः अभिससार स्वयमभिसरणं कृतवान्।
कदाचिदिति। अपि चेति चकारस्यार्थः। विघटितैः उद्घाटितैः कनककपाटैः सुवर्णनिर्मितकपाटैः प्रकठानि प्रस्फुटानि वातायनानि गवाक्षा येषु तादृशेषु, अनवरतं निरन्तरं दह्यमानानां सौगन्ध्यार्थमित्याशयः, कृष्णागुरूणां काकतुण्डानां धूमैः दहनकेतनैः रक्ता रञ्जिताः तैरिव धूम्रवर्णत्वादित्याशयः। पारावतैः कपोतैः अध्यासितानि अवलम्बितानि विटङ्कानि कपोतपालिका येषु तादृशेषु, महाप्रासादानाम् श्रेष्ठनृपभवनानां कुक्षिषु मध्यभागेषु कतिपयैः कियद्भिः आप्तैः रागादिरवशादपि नान्यथावादिभिः सुहृद्भिः मित्रैः परिवृतः सहितः, वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, तैः तेषां वाद्यैरित्यर्थः, मनोहरम् अतिरमणीयम्, अन्तःपुरस्य अवरोधस्य सङ्गीतकं नृत्यगीतवाद्यत्रयं च ददर्श अद्राक्षीत्।
'अनवरतदह्यमानकृष्णागुरुधूमरक्तैरिव' इत्यत्र क्रियोत्प्रेक्षा।
किमिति। किं बहुना बहुवक्तव्येन किमित्यर्थः, यत् यत् अनिर्दिष्टनामकं वस्तु अतिरमणीयम् अतिमनोहरम् अभिमतम् इष्टम् आयत्याम् उत्तरकाले तदात्वे तस्मिन् काले च 'तत्कालस्तु तदात्वं
समान कमल-वनमें क्रीडा करता था। किसी समय गल-प्रदेशमें वकुल (मौलसिरी) पुष्पोंकी माला धारकर स्कन्धदेशमें जटासमूहधारी सिंहके समान क्रीडा पर्वतोंपर विचरता था, किसी समय खिलती हुई फूलोंकी कलियोंसे असमानता प्राप्त लता-मण्डपोंमें भ्रमरके समान भ्रमण करता था। किसी समय नीलवर्ण-वस्त्रसे सभी अङ्गोंको आच्छादित कर कृष्णपक्षकी रात्रिके प्रदोष-कालमें संकेत करनेवाली सुन्दरीयोंसे मिलने जाता था। एवं किसी समय कितने ही प्रिय मित्रोंसे परिवृत होकर उत्कृष्ट महलके मध्यमें रहकर अन्तःपुरस्थ सुन्दरियोंके वीणा, वंशी और मृदङ्ग वाद्यसे मनोहर नृत्य-गीतादि रूप सङ्गीत देखता था, उस समय वह सभी महलके भीतर सुवर्णके किवाड खोलकर खिड़कियाँ खोल देता था, एवं वहाँ दिन-रात जलते काले अगरूके धूमसे मानो रँगे हुए कबूतर अपने खोपोंके अन्दर रहते थे। अधिक कहनेसे क्या होगा ? सारांश यह है कि—जो कुछ वस्तु संसारके मध्यमें अत्यन्त रमणीय मनोरञ्जक अपना अभिमत एवं उक्त समयके तथा भविष्य-कालके अनुकूल था उन सभी वस्तुओंको
१. स्कन्धावलम्बिकेसर ०००। २. 'कदाचिदनलताग्रथितमौलिर्नक्तमालिकुसुमस्तवकरचितशेखरः शुकपक्षकराग-मथरुपता नलिनोदलकोमलेन हरितकञ्चुकेनावच्छिन्नशरीरावयवः कोदण्डदण्डसनाथीकृतवामेतरांसदेशः पुरः प्रभाविलानानेकश्वगणिवागुरिकैरुपदिश्यमानवर्त्मभिरनेकपक्षिजानित्समालम्बनव्यग्रपाणिभिः परिहासपेशलं सवयोभिरनुगम्यमानो मृगयारसविद्धचेताः सुचिरं गिरिनदिकारण्यप्रसरेषु 'परिवभ्राम' इति पाठः क्वचित्समुपलभ्यते, किन्त्वप्राकरणिकत्वेनेह मूले न निवेशित इत्यवधेयम्। ३. बहूलनिशाप्रदोष०। ४. ०००कनककपाटं। ५. पारापतः। ६. अधिष्ठित ०००। ७. कुत्रचित् 'महा' इति पदं नास्ति। ८. मनोहरमवरोध..., मनोहर तममन्तःपुर ०००। ९. किञ्च बहुना। १०, अतिरमणीयमविरुद्धमायत्याम्।