भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 236, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 236

अनपत्यताविषाद०-६ ] चन्द्रकला-विद्योतिनीसहिता । १८७

एवं तस्य मंत्रि-विनिवेशित-राज्यभारस्य यौवन-सुखमनुभवतः कालो² जगाम । •भूयसा च कालेनान्येयामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ, एकन्तु सुत-मुख-दर्शनसुखं न लेभे । तथा संभुज्यमानमपि निष्फलपुष्पदर्शनं शरवणमिवान्तः पुरमभवत् । यथा यथा च॑ यौवनमति-चक्राम, तथा तथा विफैल-मनोरथस्यानपत्यताजन्माऽवर्द्धताऽस्य सन्तापः । विषयोपभोग-सुखेच्छाभिश्च मनो विजहे । नरपतिसहस्र-परिवृतमप्यसहायमिव, चक्षुष्मन्तमप्यन्धमिव, भुवनालम्बनमपि निरालम्ब्यैनमिव आत्मानम् अमन्यत ।

आच्छादितो दिवसो वासरालोको यासु ताः तादृश्यः। इह प्रतिविशेषणं सम्बन्धभावेऽपि सम्बन्ध-रूपातिशयोक्तिः ।

एवमिति । एवं पूर्वोक्तविधिना, सचिवे विनिवेशितः सम्पूर्णभावेन स्थापितः राज्यभारः आधिपत्य-भारो येन तस्य तादृशस्य, यौवनसुखं तारुण्यसौख्यम् अनुभवतः अनुभवं कुर्वतः तस्य तारापीडस्य कालः समयो जगाम गतवान् । भूयसा भूरियेण समयेन प्रायो बाहुल्येन अन्येषामपि जीवलोकसुखानां प्रजालोकानन्दानां सर्वेषाम् अन्तं ययौ अनुभवेन पारं प्राप । तु किन्तु सुतमुखदर्शनसुखं पुत्रवदना-वलोकनानन्दं यत्तदेकं न लेभे न प्राप । तथा सम्भुज्यमानमपि तथाविधोक्तरूपेण संभोगविषयीक्रिय-माणमपि अन्तःपुरम् अवरोधस्थयोपित्समूहः, शरवणं बाणसंज्ञकतृणसमूहमिव, निर्नास्ति फलं सुतो-त्पत्तिरूपं प्रयोजन सस्यञ्च यस्य तत्तादृशम् , पुष्पाणां रजसां प्रसूनानाञ्च दर्शनं यत्र तत्तथोक्तम् अभवत् । शरवणे यथा प्रसूनोत्पत्तिर्भवति किन्तु फलं न जायते तथा पूर्वोक्तासु वनितासु रजःस्वलास्वपि रमण-प्रधानफलभूतः सुतो नाजायत इति स्पष्टार्थः । इह च पूर्णोपमा ।

यथेति । यथा यथा येन येन प्रकारेण यौवनं तारुण्यम् अतिचक्राम अतिक्रान्तवान् तथा तथा तेन तेन प्रकारेण, विफलो निष्फलो मनोरथोऽभिलापो यस्य तादृशस्य अस्य भूपतेः तारापीडस्य, अन-पत्यतायाः निःसन्तानतायाः सकाशात् जन्म उत्पत्तिर्यस्य स तादृशः, सन्तापो मानसी व्यथा अवर्द्धत वृद्धिं पाप । विषयाणां स्रक्चन्दनादीनां य उपभोगोऽसङ्गदोगः तस्मादुत्पन्नं यत्सुखम् आनन्दः तस्य इच्छाभिः अभिलापाभिः, मंनश्चित्तं विजहे परित्यजाज ।

नरपतीति । नरपतीनां राज्ञां यत् सहस्रं समूहः तेन परिवृतं परिवेष्टितमपि असहायम् द्वितीयेन सहायकेन शून्यम् , 'अपुत्रस्य गृहं शून्यम्' इति न्यायादित्यर्थः। चक्षुष्मन्त सनेत्रमपि अन्धमिव गताद्यमिव पुन्नामनरकोद्धारणोपायानवलोकनादित्याशयः । भुवनालम्बनमपि शासकतया जगदाधारमपि निरालम्बनं निराधारमिव, पिण्डविच्छेदासम्भवेन पतनसम्भवादित्याशयः । आत्मानं स्वम् अमन्यत अज्ञासिष्ट ।

इह नरपतीत्यादौ भुवनेत्यादौ चाभावाभिमानिनी 'चक्षुष्मन्तमिव' इत्यत्र भावाभिमानिनी जात्युत्प्रेक्षा, इत्यासां परस्परं नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः ।,

इस प्रकार मन्त्रीके ऊपर समस्त राज्यका भार सौंपकर वह राजा यौवन-सुखके अनुभव में समय व्यतीत करता था। अधिक समय तक उस सुखका अनुभव करता हुआ वह अन्य सब सांसारिक सुखोंके अन्ततक पहुँच गया, किन्तु एक मात्र पुत्रमुख देखनेका सुख उसको प्राप्त नहीं हुआ। ऐसे ऐसे भोगोंके होने पर भी अन्तःपुर (रनिवास) उसे निष्फल पुष्प-दर्शन युक्त बाण घासके समान लगने लगा (बाण नामक घासमें, पुष्प तो बहुत निकलते हैं, किन्तु फल नहीं लगते; स्त्रियोंको रजोदर्शन तो होता था, किन्तु सन्तान नहीं होती थी) । जैसे जैसे यौवन व्यतीत होने लगा, वैसे-वैसे उसकी पुत्रकी आशा भी विफल होने लगी, सन्तान नहीं होनेसे मनमें सन्ताप भी खूब बढ़ता गया, क्रमशः विषय-सम्भोग-सुखकी इच्छा उसके मनसे हटने लगी उस समय वह, अगणित राजाओंसे परिवृत होने पर भी मानो असहायके समान, चक्षुष्मान् होने पर भी अन्धके समान एवं समस्त भुवनोंका आधार होने पर भी निराधारके समान अपनेको मानने लगा।


१. मन्त्रिनिवेशित । २. कश्चित्कालः । ३. तनयमुख..., तोकमुख... । ४. उपभुज्यमानमपि । ५. अभूत् । ६. कचित् 'च' इति पदं नास्ति । ७. निष्फल... । ८. नराजन्मवाऽवर्द्धताऽस्य । ९. विजने, विजगाहे । १०. भुवनडन्बनम्, भुवनावलम्बनम् । ११. निरालम्बमिव । १२. आत्मानमनयतन् ।