भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 245, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 245
२०६कादम्बरी-[ कथायाम्-

अथ तस्याः सर्वपरिजन-प्रधानभूता सदा राजकुल-संवासचतुरा सर्वदाराजसन्नि-कर्ष-प्रगल्भा सर्वमङ्गलकुशला कुलवर्द्धना नाम महत्तरीका प्रशस्ते दिवसे प्रदोषवेलायामभ्यन्तरास्थान-मण्डपगतं गन्धतैलावसेकज्वलितदीपिकासहस्रपरिवृतम् उडुनिकर-मध्यवर्त्तिन-मिव पौर्णमासीशशिनम् , उरगराज-फर्णा-मणि-सहस्रान्तरालस्थितमिव नारायणम् , मूर्द्धावसिक्तैः प्रधाननरेन्द्रैः परिमितैः परिवृतम् , अनतिदूरावस्थितपरिजनम् , अनन्तरमुत्तुङ्गवेत्रासनोपविष्टेन धौतधवलाम्बरपरिधानेन नात्युल्वणवेषेण जलनिधिनेवागाधगाम्भीर्येण समुपारूढ-विश्रम्भनिर्भरैरास्तास्ताः कथाः शुकनासेन सह कुर्वाणम् , भूमिपालमुपसृत्य रहः कर्णमूले विदितं विलासवतीगर्भवृत्तान्तमकार्षीत् ।

अथेति । अथ कुलवर्द्धना रहो भूमिपालमुपसृत्य विलासवतीगर्भवृत्तान्तं विदितमकार्षीदिति सम्बन्धः। सदा सर्वदा राजकुले राजभवने संवासेन अवस्थानेन चतुरा समस्तविधेयानामवसराभिज्ञा, राज्ञो नृपतेः सन्निकर्षेऽपि निकटेऽपि प्रगल्भा धृष्टा, तथा सर्वमङ्गलेषु सर्वप्रकारशुभकृत्येषु कुशला दक्षा, सर्वपरिजनेषु निखिलसेवकेषु प्रधानभूता श्रेष्ठा, महत्तरीका शूद्रजातीया दासी 'शूद्रा स्यात् पादजो दासो ग्रामकूटो महत्तरः' इति त्रिकाण्डशेषः । कुशलास्तु 'कुलवर्द्धना नाम महत्तरिका' इत्येवं दर्शनेनेह महत्तरिकापदेन राजान्तःपुरप्रधानप्रबन्धकर्त्री इति विवृण्वते । अभ्यन्तरे मध्ये य आस्थानमण्डपः उपवेशनस्थलं तत्र गतं स्थितम् , गन्धतैलानां सुगन्धितैलानाम् अवसेकेन प्रक्षेपॆण ज्वलितानां दीपिकानां प्रदीपानां सहस्रेण निकरेण परिवृतं परिवेष्टितम् , अत एव उडुनिकरस्य तारकासमूहस्य मध्यवर्त्तिनं तदन्तःस्थायिनं पौर्णमासीशशिनमिव राकाचन्द्रमिव स्थितम् , उरगराजस्य दशशतशिरसः शेषनागस्य यत् फणामणीनां सहस्रं दशशतं तस्य अन्तराले मध्यप्रदेशे स्थितं विद्यमानं नारायणं विष्णुमिव । परिमितैः अल्पसंख्यकैः, मूर्द्धावसिक्तैः कृताभिषेकैः, प्रधाननरेन्द्रैः मुख्यैः नृपतिभिः परिवृतं परिवेष्टितम् । अनतिदूरे अवस्थिता नातिदविष्ठप्रदेशे विद्यमानाः परिजनाः सेवका यस्य तं तादृशम् । अनन्तरं भूपतेः सिंहासनाद्दूरं स्थानं लब्ध्वा उत्तुङ्गे अत्युच्चे वेत्रासने वेतसविष्टरे उपविष्टेन आसीनेन, धौतं प्रक्षालितं धवलं शुभ्रम् अम्बरं वसनं परिधानम् अधोंऽशुकं यस्य तेन तादृशेन, नात्युल्वणो नात्युज्ज्वलो वेषो नेपथ्यं यस्य तेन तादृशेन जलनिधिना समुद्रेणेव अगाधम् अन्यैरज्ञेयम् अतळस्पर्शञ्च गाम्भीर्यं धैर्यं गम्भीरता च यस्य तेन तादृशेन शुकनासेन मन्त्रिणा सह समुपारूढः समुत्पन्नः विश्रम्भनिर्भरॊ विश्वासातिशयो यासु ताः तादृश्यः ता अनिर्वचनीयाः कथाः किंवदन्तीः कुर्वाणम् , भूमिपालं राजानम् उपसृत्य समीपे गत्वा प्रशस्ते शोभने दिवसे वासरे रहो गुह्यं कर्णमूले विदितं ज्ञातं विलासवतीगर्भवृत्तान्तं देव्या गर्भोदन्तम् अकार्षीत् अकरोत् ।

इह 'पौर्णमासी शशिनमिव', 'नारायणमिव', इत्यनयोरुपमयोः मिथो नैरपेक्ष्येण संसृष्टिरलङ्कारः । 'जलनिधिनेव' इत्यत्र पूर्णोपमा ।

तदनन्तर विलासवतीके परिजनोंके बीचमें प्रधान सर्वदा राजकुलमें रहनेसे चतुर एवं राजाके समीपमें भी प्रगल्भ स्वभाववाली, और सभी मङ्गलकार्योंमें निपुण अत्यन्त बूढ़ी कुलवर्द्धना नामकी शूद्रजातीया एक रनिवासकी दासी, किसी प्रशस्त दिन प्रदोष-कालमें मध्यवर्त्ती सभामण्डपमें बैठे हुए राजाके पास उपस्थित होकर उसने उनके कानमें धीरे-धीरे रानी विलासवतीका गर्भवृत्तान्त निवेदन किया। उस समय राजाके आसपास सुगन्धित तेलसे भरे हजारों प्रदीप जल रहे थे, जिनसे वह ताराओंके मध्यमें विराजमान पूर्ण चन्द्रमाके समान; तथा सहस्रमस्तकवाले शेषनागके सहस्रसंख्यक फणामणियोंके मध्यमें बैठे नारायणके समान देखनेमें प्रतीत होता था। क्षत्रियकुलके कितने ही प्रधान-प्रधान नरपति उसके चारों ओर बैठे थे, और परिजनवर्ग कुछ दूर पर खड़े थे। समीपमें ही बेंतकी कुर्सीपर, धुले हुए श्वेतवस्त्र पहने, सादे वेशते, समुद्रके समान अगाधगाम्भीर्यशाली मन्त्रिप्रवर शुकनासके साथ राजा पूर्ण विश्वाससे नाना प्रकारकी बातचीत कर रहा था।


१. सर्वसेवकवर्ग०...। २. सदा। ३. महान्तःपुरिका सा। ४. अभिषेक०...। ५. परिवारम्। ६. ०...फणं। ७. नरेन्द्रैः परिवृतम्। ८. अनुल्वणवेषेण। ९. शुकनातेन कुर्वाणम्। १०. विदित-विलासवती ०...।