भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 244, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 244

विलासवतीगर्भधारणवर्ण०-१३ ] चन्द्रकला-विद्योतिनीसहिता । २०५

सुतरामराजत,¹ दर्पणश्रीरिव च² गर्भच्छलेन संक्रान्तमवनिपालप्रतिविम्बमुवाह, शनैः शनैश्च³ प्रतिदिनम्⁴ उपचीयमानगर्भा⁵ निर्भर-परिपोत-सागर-सलिल-भर-मन्थरेव मेघमाला मन्दं मन्दं सञ्चचार । मुहुर्मुहुरनुबद्धजृम्भिकम्⁶ आजिह्मितलोचनं⁷ सालसं निशश्वास⁸ । तथाव-स्थाञ्च तामनभिनन्दितपानभोजनां⁹ प्रावृषमिव श्यामायमान-पयोधरमुखीं केतकीमिव गर्भ-पाण्डुराम्¹⁰ आलोक्येङ्गित-कुशलः परिजनः¹¹ विज्ञातवान् ।

विलासवती सुतराम् अत्यन्तम् अराजत अशोभत । इहाप्युक्तभग्नप्रक्रमत्वदोषो दर्शितदिशैव निरसनीयः। एवञ्च यथा कल्पपादपेन नन्दनवनम्, कौस्तुभमणिना हरेर्वक्षःस्थलं शोभते तथैव गर्भेणेत्यमित्यर्थः । दर्पणश्रीः आदर्शालक्ष्मीरिव गर्भच्छलेन भ्रूणव्याजेन सङ्क्रान्तम् स्वस्मिन् पतितम् अवनिपालस्य भूपतेः तारापीडस्य प्रतिविम्बं प्रतिरूपम् उवाह दधार, स्त्रीयो नौ वीर्यरूपेणात्मन एव प्रदेशादित्याशयः । प्रति-दिनं प्रत्यहं शनैः शनैः कालक्रमेण उपचीयमानो वर्द्धमानो गर्भो यस्याः सा तादृशी, निर्भरम् अतिशयं परिपीतानाम् आस्वादितानाम् सागरसलिनानां समुद्रजलानां भारेण मन्थरा अलसा मेघमालेव कादम्बिनीव मन्दं मन्दं शनैः शनैः सञ्चचार समचलत् ।

इह 'नन्दनवनराजिरिव' 'मधुसूदनवक्षःस्थलीव' इत्यत्रोपमयोर्मिथो नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः, 'दर्पणश्रीरिव' इत्यत्रोपमा, 'गर्भच्छलेन' इत्यपह्नुतिः अनयोश्चाङ्गाङ्गिभावसङ्करः, मेघमा-लेव' इत्यत्र चोपमालङ्कारः ।

मुहुरिति । मुहुर्मुहुः वारंवारम् अनुबद्धा विहिता जृम्भिका जृम्भा यस्मिन् कर्मणि तद् यथा स्या-त्तथा, आजिह्मिते वक्रीकृते निद्रावेशात् मुकुलिते लोचने नेत्रे यस्मिन् कर्मणि तद् यथा स्यात्तथा, अल-सेन आलस्येन सहितमिति सालसं यथा स्यात्तथा निशश्वास निःश्वासं मुक्तवती । निपूर्वकाद् 'श्वस् प्राणेने' इत्यस्माद्धातोर्लिटि रूपम् ।

तथेति । तथा पूर्वप्रतिपादिता एव अवस्था दशा यस्याः तां तादृशीम्, इङ्गितेषु अन्तर्गताभिप्राय-बोधकव्यापारेषु कुशलो निपुणः परिजनः निकटस्त्रीसौविदल्लसेवकवर्गः, अनभिनन्दितम् अनादृतं पानं भोजनञ्च यया तां तादृशीम्, गर्भावस्थायां स्त्रीणामाहारेष्वरुचिसम्भवादित्याशयः । प्रावृषं वर्षासमय-मिव, श्यामायमाने कृष्णतां प्राप्ते पयोधरयोः कुचयोः मुखे उपरिभागद्वयं चुचुक इत्यर्थः यस्याः तां तादृशीम्, अन्यत्र तु श्यानायमानं कृष्णतां प्राप्नुवद् पयोधरमुखं मेघसहितः प्रथमभागो यस्याः तां तादृशीम् । केतकीं तत्संज्ञकं कुसुमं पुष्पमिव, गर्भेण गर्भधारणेन पाण्डुरा शुक्रावयवा तां तादृशीम् अन्यत्र तु गर्भे मध्यभागे पाण्डुरा प्रकृत्या शुभ्रा तां तादृशीम् , आलोक्य निरीक्ष्य विज्ञातवान् गर्भद-शया अवबुद्धवान्, तथाविधस्वरूपयुक्तत्वाच्चेष्टितनिपुणत्वाच्च स्वस्येत्यभिप्रायः । आयुर्वेदे गर्भस्वरूपं गवेषणीयम् ।

इह 'प्रावृषमिव, 'केतकीमिव' इति पूणोपमाद्वंद्वम् , पदार्थहेतुकं काव्यलिङ्गञ्चेति समेपामेषां पर-स्परं नैरपेक्ष्येण विद्यमानत्वात् संसृष्टिरलङ्कारः ।


नारायणके वक्षःस्थलके समान, जिस गर्भद्वारा विलासवती अत्यन्त शोभा पा रही थी । दर्पण जिस प्रकार प्रतिबिम्ब धारण करता है, उसी प्रकार विलासवती भी, गर्भके बहाने अन्दरमें प्रविष्ट राजाके प्रतिविम्बको धारण करने लगी, एवं प्रतिदिन उसका गर्भ धीरे-धीरे वृद्धि पाने लगा, उस समय समुद्रका बहुत-सा जल पान कर लेनेके भारसे मन्द हुई मेघमालाके समान विलासवती धीरे-धीरे चलने लगी और बार-बार जँभाइयोंके साथ आँखें जरा मीच-मीच कर मन्द-मन्द साँस लेने लगी । पान और भोजनमें उसकी अभिरुचि नहीं थी, स्तनोंका अग्रभाग वर्षा कालके मेघके समान श्यामवर्ण हो गया था, एवं गर्भधारण करनेसे केतकीकुसुमके समान शरीर श्वेतवर्ण हो गया था—ऐसे स्वरूपमें उसे देखकर यह गर्भवती हो गई है—इस प्रकार इंगित जाननेमें निपुण दासियाँ सब समझ गईं ।


१. सुतरामराजत सा, सुतरामराजत देवी । २. दर्पणश्रीरिव गर्भं । ३. सा शनैः शनैश्च । ४. प्रति-दिवसम् । ५. प्रतिदिनमुपचीयमानगर्भा । ६. मुहुर्मुहुरदभ्रजृम्भिकम् । ७. लोचना । ८. निःशश्वास । ९. अहरहः स्वयमनेकरसवाञ्छितपानभोजनां । १०. गर्भच्छविपाण्डुराम् । ११. अन्तःपुरिकाजनः ।