भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 247, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 247
२०८कादम्बरी-[ कथायाम्-

अत्यन्तमुत्फुल्लोचना^१ हि कुलवर्द्धना दृश्यते, देवस्यापीदं प्रियवचनश्रवणकुतूहलादिव श्रवणमूलमुपसर्पदुपरचयदिव नीलकुवलय-कर्णपूर-शोभाम्, आनन्दजल-परिप्लुतं तरलतारकं विकसदावेदयति महत् प्रहर्ष^३-कारणमीक्षणयुगलम्, उपारूढमहोत्सव-श्रवण-कुतूहलमुत्सुकोत्सुकं^४ क्लाम्यति मे मनः। तदावेदयतु देवः किमिदम् ?।'

इत्युक्तवति तस्मिन् राजा विहस्याब्रवीत्-'यदि सत्यमनया यथा कथितम्, तदो^५ सर्वमवितथं स्वप्नदर्शनम्। अहन्तु न श्रद्दधे, कुतोऽस्माकमियती भाग्यसम्पत्, अभाजनं हि वयमीदृशानां प्रियवचनश्रवणानाम्। अवितथवादिनीमप्यहं कुलवर्द्धनामेवंविधानां कल्याणानामसम्भावितमात्मानं मन्यमानो विपरीतामिवाद्य पश्यामि। तदुत्तिष्ठ, स्वयमेव गत्वा किमत्र सत्यमिति देवीं पृष्ट्वा ज्ञास्यामि।'

हि यतः इयं कुलवर्द्धना अत्यन्तम् उत्फुल्लोचना हर्षेण विकसितनयना -दृश्यतेऽवलोक्यते, अत एव विषयान्तरं परित्यज्य स्वमविषय एव जिज्ञास्यत इत्याशयः। तत्रैव कारणान्तरमाह-देवस्यापीति। देवस्यापि स्वामिनोऽपि प्रियम् इष्टं यद्वचनं वचः तस्य श्रवणम् आकर्णनं तस्य कुतूहलात् कौतुकादिव श्रवणयोः कर्णयोः मूलं निकटम् उपसर्पत् गच्छत् नीलं यत् कुवलयम् उत्पलं तद्रूपस्य कर्णपूरस्य शोभां कान्तिम् उपरचयदिव निष्पादयदिव। आनन्दजलेन प्रमोदाश्रुणा परिप्लुतं क्लिन्नम्, तरले चपले तारके कनीनिकायुगलं यस्य तत्तादृशम्, विकसत् विकासं प्राप्नुवत् इदं देवस्य भवतः स्वामिनोऽपि ईक्षणयुगलं लोचनद्वयं कर्तृ, महत् विपुलं प्रहर्षस्य विशेषप्रमोदस्य कारणं हेतुम् आवेदयति ज्ञापयति। सर्वैवं सत्यपि किन्ते? इत्यत आह-उपारूढेति। उपारूढम् उत्पन्नं महोत्सवश्रवणाय विपुलप्रमोदवार्त्ताकर्णनाय कुतूहलं कौतुकं यत्र तत्तादृशम्, उत्सुकोत्सुकम् अत्यन्तोत्कण्ठितं मे मम मनश्चित्तं क्लाम्यति खेदं प्राप्नोति। तत् देवो भवान् आवेदयतु ज्ञापयतु इदं प्रमोदनियामकं किमिति।

इतीति। इति पूर्वोक्तविधिना तस्मिन् शुकनासे उक्तवति कथितवति सति राजा भूपतिः विहस्य किञ्चित् स्मितं विधाय अब्रवीत् अवोचत्-अनया कुलवर्द्धनया यथा कथितं तद् यदि चेत् सत्यम्? तदा सर्वं स्वप्नदर्शनम् स्वप्नावलोकनम् अवितथम् अमिथ्याभूतं सत्यम् 'वितथं त्वनृतं वचः' इत्यमरः। तु किन्तु अहमिति धीरोदात्तत्वेन निर्देशो ज्ञेयः। न श्रद्दधे न विश्वसिमि, अस्माकम् इयती एतावती भाग्यसम्पत् भागधेयसम्पत्तिः कुतो भवेत्। हि यस्मात्, ईदृशानां पूर्वोक्तानां प्रियवचनश्रवणानां प्रियवाक्याकर्णनानाम् अभाजनम् अपात्रम् अनधिकारिणो वयमित्यर्थः। अवितथवादिनीमपि पूर्वस्मादेव अवितथभाषिणीमपि कुलवर्द्धनाम् अहम् एवंविधानां पूर्वप्रदर्शितस्वरूपाणां कल्याणानां निःश्रेयसानाम् असम्भावितम् आस्पदत्वेन अनिश्चितम् आत्मानं स्वं मन्यमानः विपरीतामिव असत्यभाषिणीमिवेत्यर्थः, अद्य अस्मिन् दिने पश्यामि अवलोकयामि। तत्तस्माद्धेतोः (शुकनास!) उत्तिष्ठ


क्योंकि—कुलवर्धनाके नेत्र अत्यन्त प्रफुल्लित दीखते हैं। आपका भी यह नयनयुगल प्रियवाक्य सुननेके लिए कुतूहलवशते ही मानो कानोंके पास पहुँच गये हैं, उससे मानो नीलकमलके कर्णपूरकी शोभा उत्पन्न कर रहे हैं। आपके भी आनन्दाश्रुसे सिक्त चञ्चल पुतलोवाले प्रफुल्ल नेत्र किसी बड़े आनन्दके कारणको सूचित करते हैं। इस गुरुतर महोत्सवके सुननेके लिए मुझे भी कुतूहल उत्पन्न हुआ है, एवं मन अत्यन्त उत्कण्ठित होकर क्लेश भोग रहा है; इसलिए आप कहिए—यह क्या बात है?' शुकनाससे इस प्रकार पूछनेपर राजाने हँसकर उत्तर दिया—'कुलवर्धना जो कही है वह यदि सत्य हुआ', तो वह स्वप्न वृत्तान्त सब ही सत्य, पर मुझे विश्वास नहीं होता है। क्योंकि...मेरा भाग्य ऐसा कैसे हो सकता है? जिस कारण—हम लोग ऐसे प्रिय वचन सुननेके पात्र नहीं हैं। कुलवर्धनाको पहिलेसे ही सत्यवादिनी जानता हूँ, किन्तु—मैं जो इस प्रकारके मङ्गलोंका पात्र होऊँगा—यह असम्भव मनमें कर आज इसको पहिलेते विपरीत (मिथ्यावादिनी) समझता हूँ, अतएव उठो, अपनेते ही जाकर 'इस विषयमें यथार्थ घटना क्या है?' यह महारानीसे पूछकर निश्चय कर लें।'


१. अत्यन्तोत्फुल्लोचना, उत्फुल्लोचना।
२. ॰॰॰प्लुवतस्लतारकन्।
३. प्रकर्ष॰॰॰।
४. रक्तुकं।
५. तथा।