भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 248, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 248

गर्भवतीविलासवतीवर्ण०-१५ ] चन्द्रकला-विद्योतिनीसहिता । २०६

इत्यभिधाय विसृज्य सकलनरेन्द्रलोकम्, उन्मुच्य स्वाङ्गेभ्यो भूषणानि कुलवर्धनायै दत्त्वा, तया च दत्तप्रसादानन्तरमवनितलाश्रिष्टललाटरेखया शिरःप्रणामेनाभ्यर्चितः, सह शुकनासेनोत्थाय हर्षविशेषनिर्भरेण त्वर्यमाणः मनसा, पवन-चलित-नील-कुवलय-दल-लीला-विडम्बकेन दक्षिणेनाक्ष्णा परिस्फुरताऽभिनन्द्यमानः तत्काल-सेवा-समुचितेन विरल-विरलेन परिजनेनानुगम्यमानः पुरः संसर्पिणीनामनिललोलशिखानां प्रदीपिकानामालोकेन समुत्सार्यमाणकक्षान्तरतिमिरम् अन्तःपुरमगासीत् ।

तत्र च सुकृत-रक्षासंविधाने, नवसुधानुलेपन-धवलिते, प्रज्वलितमङ्गलप्रदीपे,^८ पूर्ण-

दयितो भव, स्वयमेव साम्प्रतं गत्वा अन्तःपुरमिवि शेषः। अत्र अस्या उक्तिविषये किं सत्यं तथ्यम् इति देवीं विलासवतीं पृष्ट्वा आपृच्छय ज्ञास्यामि निर्णेष्यामि ।

इतीति । इति एवम् अभिधाय उक्त्वा, सकलनरेन्द्रलोकं समस्तराजसमूहं विसृज्य 'गृहाय गम्यताम्' इत्यादिश्य, स्वाङ्गेभ्यः स्वकीयहस्तपादादिभ्यो भूषणानि अलङ्कारान् उन्मुच्य अवतार्य कुलवर्धनायै महत्तरिकायै दत्त्वा विनीयै, दत्ते सति प्रसीदति अनेनेति प्रसादोऽनुग्रहदानं तस्मादनन्तरं पश्चात्, अवनि-तलेन वसुधातलेन आलिष्टा प्रणामसमये स्पृष्टा ललाटरेखा भालदेशो यस्याः तया तादृश्या, तया कुलव-र्धनया शिरःप्रणामेन उत्तमाङ्गावनमनेन अभ्यर्चितो वन्दितः, शुकनासेन सह समकालम् उत्थाय उत्थानं विधाय हर्षविशेषेण प्रमोदाधिक्येन निर्भरं परिपूर्णं तेन तादृशेन, मनसा त्वर्यमाणः अन्तःपुरप्राप-णाय शीघ्रीक्रियमाणः । पवनेन वायुना चलितम् आन्दोलितं यत् नीलकुवलयं नीलकमलं यस्य लीलां शोभां विडम्बयति अनुकरोतीति तत्तादृशं तेन तादृशेन, परिस्फुरता नितरां स्पन्दता, दक्षिणेन अपस-व्येन अक्ष्णा नयनेन अभिनन्द्यमानः अभिलषितप्राप्तिद्योतनेन सन्तोष्यमाणः । तथा चाहुः—

'दक्षिणाङ्गस्य स्फुरणं नराणां सर्वसौख्यदम् । तदेव कथ्यते सद्भिर्नारीणामप्रदक्षिणम् ॥' इत्यादि ।

तत्कालसेवायोग्य अन्तःपुरजनसामर्थ्यीक्यनुपायां समुचितेन योग्येन, विरलविरलेन अल्पाल्पेन वीप्सायां द्विवचनम्, यथा यथान्तःपुरगमनं भूपतेस्तथा तथा विरलविरलमित्यवधेयम् । पुरः संसर्पि-णीनाम्, अग्रे व्रजन्तीनाम्, अनिलेन पवनेन लोलाः चपलाः शिखा यासां तासां प्रदीपिकानां दीपानाम् आलोकेन कान्त्या समुत्सार्यमाणानि दूरीक्रियमाणानि कक्षान्तराणां पुरः पुरः स्थायिनाम् अन्येषां प्रको-ष्ठानां तिमिराणि तमांसि यत्र तत्तादृशम् अन्तःपुरम् अगासीत् अगमत् ।

तत्रेति । तत्र तस्मिन् अन्तःपुरे वासभवने शयनतलमधिशयानां विलासवतीं राजा ददर्श इत्य-न्वयः । इह यानि सप्तम्यन्तपदानि तानि 'वासभवने' इत्यस्य विशेषणानि बोध्यानि । सुष्ठु समीचीनं कृतं मणिमन्त्रौषधादिना सम्पादितं रक्षासंविधानं पाखण्डशाकिनीडाकिन्यादिभ्यो गर्भरक्षणविधिर्यत्र तत्र तथोक्ते । नवं प्रत्यग्रं यत् सुधानुलेपनं चूर्णादिद्रव्यलेपनं तेन धवलिते श्वेतीकृते 'सुधालेपोऽमृतं न्युही' इत्यमरः । प्रज्वलितः प्रदीप्तो मङ्गलप्रदीपो यत्र तत्र तादृशे । इह च मध्यमपदलोपी समासो ज्ञेयः,

यों कहकर उसने उपस्थित राजालोगोंको विदा कर दिया और अपने शरीरके सब आभूषण उतारकर कुलवर्धना को दे दिये । उनका लाभ होते ही तुरन्त उसने मस्तक अवनमनपूर्वक ललाटद्वारा भूतलका स्पर्शकर राजाको नमस्कार किया । राजा शुकनासके साथ पुनः उठा । अत्यन्त आनन्दसे उसका मन परिपूर्ण हो, उसको अन्तःपुरमें जाने के लिए शीघ्र परिचालित करने लगा । वायुसे कम्पित नीले, कमलके पत्तेकी लीलाका अनुकरण करता दक्षिण नेत्र फड़क-फड़ककर उसका अभिनन्दन करने लगा। उस समयकी सेवाके योग्य पीछे-पीछे चलते कुछ परिजनोंके साथ जाने लगा । हवासे लहराती हुई स्थूल ज्योतिवाली लाटेंदेने आगे जाती थीं उनके प्रकाशसे अन्यान्य प्रकोष्ठके अन्धकार दूर हो जाते थे, इस रूपसे राजा अन्तःपुरमें जा पहुँचा।

वहाँ जाकर देखा—रानी विलासवती वालगृहमें शय्याके ऊपर शयन कर रही है । मणि, मन्त्र और औप-धादि द्वारा उस वासगृहका सम्पूर्ण रक्षाविधान किया हुआ था, एवं नये चूनेसे लेपकर वह वासगृह शुभ्रवर्ण भो किया हुआ था, उसके बीचमें मङ्गलप्रदीप जलाए गये थे, पार्श्वद्वारके समीपमें पूर्ण कलश रक्खे गए थे, उसकी दीवारें


१. विसृज्यं । २. पूर्यमानः । ३. अभिनन्द्यमानः । ४. अनिटलोलोच्छलच्छिखानां । ५. प्रदीप-कानाम्, ... कक्षान्तरतिमिरसंहातिः । ६. तत्र बहुहत..., तत्र बहुतुन्त । ७. नवसुधालेप... । ८. ...दीपे ।