कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 249, कुल 709 में से
संदर्भ में पढ़ें| २१० | कादम्बरी- | [ कथायाम् |
|---|
कलसाधिष्ठित^१पक्षके, प्रत्यग्र-लिखित-मङ्गल्य़ालेख्योज्ज्वलभित्ति-भागे^२ मनोहारिणि, समुपरचित-सित-वितान-पर्य्यन्तावबद्धमुक्तागुणे^३ मणिप्रदीप-प्रहर्त^४-तिमिरे वासभवने^५, भूमि^६-लिखित-पत्रलता-कृत-रक्षा-परिक्षेपम्, शयन-शिरोभाग-विन्यस्त-धवलै^७-निद्राकलसम्, आबद्ध-विवि-धौषधि-मूल-यन्त्र^८-पवित्रम्, अवस्थापित-रक्षा-शक्तिवलयन्, इतस्ततो विक्कीर्ण^९-गौरसर्षपम्, अवलम्बित^१०-वाल-योक्त्र-ग्रथितलौह-पिप्पलपत्रम्^११, आसक्त-हरितारिष्टपल्लवम्, उत्तुङ्ग-पाद-पीठ^१२-प्रतिष्ठितम्, इन्दु-दीधिति-धवल-प्रच्छद-पटम्, अचलराज-शिलातल-विशालम् गर्भो-
पूर्णकलसः सलिलपूर्णकुम्भः तेन अधिष्ठितं आश्रितः पक्षको द्वारपार्श्वो यस्य तत्र तादृशे । 'पक्षकस्तु पुमान् पार्श्वद्वारे च पार्श्वमात्रके' इति मेदिनी । प्रत्यग्रम् अभिनवं यथा स्यात्तथा लिखितानि लिपी-कृतानि चित्रितानीत्यर्थः, यानि मङ्गल्यानि देवतारूपत्वात्कल्याणोत्पादकानि आलेख्यानि चित्राणि तैरू-ज्ज्वलो दीप्तिमान् यो भित्तिभागः कुड्यप्रदेशः तेन मनोहारिणि अभिरामे समुपरचितस्य संयोजितस्य सितवितानस्य श्वेतोल्लोचस्य पर्यन्तेषु प्रान्तभागेषु अवबद्धो गुंफितो मुक्तागुणो मुक्तामाला यत्र तत्र तादृशे । तथा मनयो रत्नान्येव प्रदीपाः तैः प्रहतानि ध्वस्तानि तिमिराणि अन्धकारा यत्र तत्र तादृशे । वासभवने निवाससदने ।
भूमिति । इत आरम्यैकादश नपुंसकानि द्वितीयान्तपदानि 'शयनतलम्' इत्यस्य विशेषणानि बोध्यानि । भूमौ पृथिव्यां लिखिताया शयनतलस्यैव परितो लिपीकृत्या पत्रलतया पत्रयुक्तकल्पलतया कृतो विहितो रक्षापरिक्षेपो गर्भत्राणार्थपरिवेष्टनं यस्य तत्तादृशम् । शयने स्वापसमये यः शिरोभागो मस्तक-प्रदेशः तत्र विन्यस्तः स्थापितः धवलो रजतमयत्वात् शुभ्रो निद्राकलसो निद्राघटो यत्र तत्तादृशम् । आबद्धानि न्यस्तानि विविधानि अनेकप्रकाराणि ओषधयो लताविशेषाः मूलानि वृत्तवल्लीमूलानि यन्त्राणि चक्रव्यूहप्रभृतीनि पवित्राणि मन्त्रपूतगोरोचनादिद्रव्याणि यत्र तत्तादृशम् । अवस्थापितानि पार्श्वे रचितानि रक्षार्थं शक्तीनां ब्राह्मीवैष्णवीकात्यायन्यादीनां वलयानि मन्त्रपूतवर्हिर्निर्मितकटकानि यत्र तत्तादृशम् । इतस्ततः समन्तात् विक्कीर्णा विक्षिप्ता गौरसर्षपाः सितसर्षपा यत्र तत्तादृशम् । अवल-म्बितानि न्यस्तानि वालयोक्त्रेण लघुरज्जुविशेषेण केशमुखबन्धनेन वा ग्रथितानि गुम्फितानि लौहानि-लौहखण्डानि पिप्पलपत्राणि अश्वत्थपर्णानि च यत्र तत्तादृशम् । 'बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः । अश्वत्थे' इत्यमरः । आसक्ता मिथोलोन्मा हरिताः नवनीतत्वात् पालाशवर्णाः अरिष्टपल्लवा निम्बकिसल-यानि यत्र तत्तादृशम् । 'अरिष्टः फेनिले निम्बे लशुने काकवङ्कयोः' इति मेदिनी । तस्मिन् समये गर्भरक्षार्थं हि गर्भिणीशयनतले सर्वविधानां द्रव्यविशेषाणां संस्थापनं भवति स्म, तत्तद्दृश्यव्यवहासादित्यवधेयम् । उत्तुङ्गेषु अतीवोन्नतेषु पादपीठेषु पर्यङ्कपादाधारदारुविशेषेषु प्रतिष्ठितम् अवस्थितम् । नन्वत्र पर्यङ्कोपरि-पातितशनीयतलस्य पादपीठेषु कथं प्रतिष्ठितत्वमिति चेत् ? सत्यम्, पादपीठेषु पर्यङ्कस्य प्रतिष्ठितत्वेन तात्स्थ्यात्तदुपरि शयनीयतलस्यापि तथात्वमित्यदोषान् ।
इन्दुदीधितिश्चन्द्रकान्तिः तद्वत् धवलः शुभ्रः प्रच्छदपट आस्तरणवस्त्रं यत्र तत्तादृशम् । तथा अचल-
तत्काल काढ़े गये मङ्गलकर चित्रोंसे देखनेमें सुन्दर लगती थी। उसके ऊपर एक श्वेतवर्ण चँदोवा बाँधकर उसकी चारों ओर कोरों पर मोतीकी झालरें लटकाई गई थीं। और मणिमय-प्रदीपोंके आलोकसे उस घरका अन्धकार दूर हो गया था और रानी जिस शय्या पर शयन करती थी, उसके चारों ओर रक्षाके निमित्त राखकी आड बना दी गई थी, सिरहानेके तरफ आनन्द-पूर्वक निद्रा आनेके लिये श्वेतवर्ण मङ्गल-कलश रखे थे; नानाविध औषध, मूल (काँहरेकी लता और उसकी मूल आदि), लाङ्गलप्रभृति यन्त्र और गोरोचना प्रभृति पवित्र द्रव्य उस शय्याके संस्पर्शमें रक्खा हुआ था; गर्भरक्षाके लिए ब्राह्मी और वैष्णवीप्रभृति देवियोंके मन्त्रसे अभिमन्त्रित कर कितने वलय उस शय्याके ऊपर रखे हुए थे; इधर-उधर श्वेतवर्ण सरसों छींट (बखेर) दी गई थी; छोटे रज्जुविशेषमे गाँथकर कितने लोहेके खण्ड और पीपलके पत्ते एवं परस्पर संलग्न हरे कितने नीमके पत्ते उस शय्याके ऊपरमें लटका दिये गये थे; चरण रखनेके लिए एक ऊँची चौकी समीपमें रक्खी थी और चन्द्रकिरण के समान शुभ्रवर्ण एक आस्तरण-
१. '...अधिष्ठिते' 'द्वारपक्षके । २. 'मङ्गल्यलेख्य' 'उज्ज्वलित' 'भागे । ३. 'सितविताने वितान,' 'पर्यन्तस्थितमुक्तागुणे । ४. 'प्रतिहत' । ५. वासभुवने । ६ भूमि' । ७. 'रत्न-धवल' । ८. 'मन्त्र । ९. विप्रकीर्ण' । १०. अवलम्बि' । ११. वालयोद्ग्रथित', लोल, लोहित..., दलम् । १२. पादपीठो... ।