भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 250, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 250

गर्भवतीविलासपतीव०-१५ ] चन्द्रकला-विद्योतिनीसहिता । २११

चितं शयनतलमधिशयानाम् , कनकपात्र-परिगृहीतैः अविच्छिन्नं-विरलावस्थित-दधिलवैः- जलतरङ्ग-तरल-श्वेतै'-शालि-सिक्य-निकरैः अग्रथितकुसुम॑-सनाथैः पूर्णभाजनैः, अखण्डिता- नन-मत्स्य-पटलैश्च प्रत्यग्र-पिशितपिण्ड-मिश्रैः, अविच्छिन्न-सलिलधारानुगम्यमानै'-मार्गैः, पट- लक॑प्रज्वलितैश्च शीतलप्रदीपेः, गोरोचनामिश्रगौरसर्षपैश्च सलिलाञ्जलिभिश्च, आचारै'-कुश-

राजस्य शैलाधिपतेः (हिमालयस्य) शिलातलवत् विस्तृतपाषाणखण्डवद् विशालं विस्तीर्णम् । गर्भो-चितं गर्भवतीस्वापयोग्यं शयनतलम् आस्तरणोपरिभागम् अधिशयानाम् अवलम्ब्य सुप्ताम् । राज्ञ्या विशेषणमिदम् । इह 'इन्दुदाविति'भवने प्रच्छदपटम्' इत्यत्र 'अचलराजशिलातलविशालम्' इत्यत्र च लुप्तोपमालङ्कारः ।

कनकेति । इह तृतीयान्तानि 'पूर्णभाजनैः' इत्यन्तानि 'सिक्यनिकरैः' इत्यत्र विशेषणानि । आचारेषु तद्देशीयस्त्रीलोकाचारेषु कुशलेन अभिज्ञेन, अन्तःपुरजरतीजनेन अवरोधस्थवृद्धयोषिद्गणेन । प्रथमं तन्मध्यवर्तिना केनचित् वृद्धस्त्रीवर्गेण (कर्त्रा), कनकपात्रे सुवर्णभाजने परिगृहीतैः धृतैः । अविच्छिन्ना मिथः संलग्नाः, विरला अल्पाः अवस्थिता दधिलवा दधिखण्डा येषु तैः तादृशैः । जलतरङ्गवत् पानीयकल्लोलवद् तरलाः चपलाः, तद्वाय्वपागां चञ्चलत्वेन तेषामपि चञ्चलवदवलोक्यमानत्वादित्याशयः, श्वेताः धवलाः, शालिसिक्यनिकराः तत्कालपक्वौदनसमूहाः शालिजाजसमूहा वा तैः तादृशैः (करणैः) अग्रथितानि यानि कुसुमानि पुष्पाणि तैः सनाथाः सहिताः तैः तादृशैः । तथा पूर्णं व्याप्तं भाजनं पात्रं यैस्तैः तादृशैः ।

अखण्डेतेति । अन्येन केनचिद् वृद्धस्त्रीजनेनेति कर्तृपदमिहापि प्रथममध्याहार्यम् । प्रत्यग्राणि अभिनवानि यानि पिशितपिण्डानि मांसखण्डानि तन्मिश्रैः तत्सम्मिलितैः अखण्डितानि अच्छिद्रानि आननानि वदनानि येषां तथोक्तानां मत्स्यानां मीनानां पटलैः समूहैश्च । 'क्रियमाणावतरणकमङ्गलम्' इति वक्ष्यमाणेन सम्बन्धः ।

अविच्छिन्नेति । अविच्छिन्नया अखण्डितया सलिलधारया जलधारया अनुगम्यमानः अनुव्रज्यमानः मार्गः अध्वा येषां तैः तादृशैः, केनचिद् वृद्धस्त्रीजनेन पृष्ठतः पृष्ठतो विहिताविच्छिन्नसलिलधारैरित्यर्थः । पटलकेषु क्षुद्रपिटकेषु तदन्तर्गतेष्वित्यर्थः, प्रज्वलितैः प्रदीपितैः, 'अथ पटलं पिटके च परिच्छदे' इति मेदिनी । शीतलप्रदीपैः विविधजरतीजनैरा नीयमानैः कर्पूरदीपैः (करणैः) । इहापि पूर्ववदग्रेतनेन सम्बन्धः ।

गोरोचनेति । गोरोचनया मिश्रैः संयुक्तैः गौरसर्षपैः श्वेतसिद्धार्थैः, केनचिद् वृद्धस्त्रीजनेन पृष्ठतः पृष्ठतः तयाविधसर्षपविक्षेपैश्च (करणैः) । सलिलाञ्जलिभिश्च केनचिज्जरतीजनेनाञ्जलिपूर्णजलैश्च 'क्रियमाणावतारणकमङ्गलामिति' व्यन्त्रान्वयः ।

आचारेति । क्रियमाणं प्रदर्शितविधिना अनुष्ठीयमानम् अवतारणके नीराजनरूपेण पात्रपरिभ्रामणावतरणे भोजनीयानयनसमये भूतापसारणविषय इत्यर्थः, मङ्गलं यस्यास्तां तादृशीम् । तात्कालिकतद्देशव्यवहारादिदमाश्चर्यवर्णनम् । 'अवतारणं भूतादिनिग्रहे वस्त्राञ्जलेऽर्चने' इति मेदिनी ।


वस्त्र (चादर) उसके ऊपर बिछा था और वह शय्या (पलङ्ग) हिमालयके शिलातल के समान विशाल एवं गर्भवती स्त्रीके शयन योग्य थी । किसी वृद्ध स्त्रीने, रानीके लिए सोनेकी कटोरियोंको परिपूर्ण कर शुक्लवर्ण चावलोंके दाने रक्खी थी, उस अन्नके ऊपरने परस्पर संलग्न और थोड़े-थोड़े दधिविन्दु एवं असंलग्नभावसे (अलग २) कितने पुष्प बिखरे हुए थे, और उस अन्नसे जलतरङ्गके समान बाष्प उठते थे । कोई वृद्ध स्त्री, किनारे अखण्डित मुखवाली मछलियोंको ले आई थी, उसमें नूतन मांसखण्ड भी मिश्रित था । कितनी वृद्धस्त्रियों, लाल कपड़ोंके अन्दर जलाए गए कितने कर्पूरोंके प्रदीपोंको लेकर आई थी, कोई उसके पीछे-पीछे मार्गमें अविच्छिन्न जलधारा देती थी, कोई गोरोचनामें मिले हुए श्वेतसर्षपोंको मार्गमें विक्षेप करती थी, और दूसरी कोई अञ्जलियों जल लेकर आई थी । इस प्रकार उस देशके और उस कुलके आचारको जाननेवाली अन्तःपुरस्थ वृद्ध स्त्रियां रानीके निमित्त खाद्य द्रव्य लानेके

१. ऽविच्छिन्न०... । २. ०स्मित०... । ३. ०ऽकुसुमायति०... । ४. ०गम्यमान०... । ५. पटलप्र०... । ६. शीतलप्रदीपकैः । ७. ऽनिवार०... ।