कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 251, कुल 709 में से
संदर्भ में पढ़ें| २१२ | कादम्बरी- | [ कथायाम्- |
|---|
लेनान्तःपुर-जरतीजनेन क्रियमाणावतारणकर्मङ्गलाम्, धवलाम्बर-विविक्त-वेषेण प्रमुदितेन प्रस्तुतसङ्गल-प्रायालापेन पौरजनेनोपास्यमानाम्; उपारूढगर्भत्वादान्तर्गतकुलशैलामिव क्षितिम्; सलिल-निमग्नैरावतामिव मन्दाकिनीम्; गुहागतसिंहामिव गिरिराजमेखलाम्; जलधरपटलान्तरित-दिनकरामिव दिवसश्रियम्, उदयगिरि-तिरोहित-शशिमण्डलामिव विभावरीम्; अभ्यर्ण-ब्रह्म-कमल-विनिर्गमामिव नारायणनाभिम्; आसन्नागस्त्योदयामिव दक्षिणाशाम्; फेनावृतामृतकलसामिव क्षीरोदवेलाम्, गोरोचनाचित्रित-दशमनुपहतमतिधवलं दुकूलयुगलं वसानां विलासवतीं ददर्श। ससम्भ्रम-परिजन-प्रसारित-करतलावलम्बनावष्टम्भेन वामजानु-विन्यस्तहस्तपल्लवां प्रचलित-भूषणमणि-रव-मुखरमुत्तिष्ठन्तीं विलासवतीम् 'अलमलमत्य्यादरेण, देवि ! नोत्था-
धवलेति । धवलं श्वेतम् अम्बरं वस्त्रं तद्रूपो विविक्तः पूतो वेषो नेपथ्यं यस्य तेन तादृशेन, प्रमुदितेन हर्षितेन, प्रस्तुत उपक्रान्तो मङ्गलप्रायः अतिशयेन मङ्गलारूपः आलापः संलापो येन तयोक्तेन परिजनेन सेवकवर्गेण उपास्यमानां पादसंवाहनादिभिः सेव्यमानाम् ।
उपारूढेति । उपारूढ उत्पन्नो यो गर्भस्तस्य भावस्तया हेतुना । इतोऽग्रेऽयमर्थः सर्वत्र सम्बध्यते । अन्तर्गतः कुलशैलो यस्यास्तां क्षितिं वसुधामिव, सर्वपामाश्रयरूपत्वेन कुलशैलसुतयोः सादृश्यम् । सलिले जले निमग्नो मुडित ऐरावतः तन्नामा गजो यस्याः तां तादृशीम्, मन्दाकिनीम् आकाशगङ्गामिव, गुहायां कन्दरायां गतः प्राप्तः सिंहः पञ्चाननो यस्यास्तां गिरिराजस्य हिमालयस्य मेखलां मध्यभागमिव जलधरपटलेन अभ्रसमूहेन अन्तरितो व्यवहितो दिनकरः सूर्यो यस्यां तां तादृशीं दिवसश्रियभिव उदयगिरिणा उदयाचलेन तिरोहितम् आच्छादितं शशिमण्डलं यस्यां तां विभावरीं रात्रिभिव, लम्यर्णे निकटे ब्रह्मकमलस्य विरञ्चिजन्मस्थानीभूतपद्मस्य विनिर्गमो बहिर्भावो यस्याः तां तादृशीं नारायणस्य विष्णोः नाभिमिव कूपिकामिव, आसन्नो निकटवर्ती अगस्त्यस्य पीतजलधेः उदय उद्गमनं यस्यां तां तादृशीं दक्षिणाशां दक्षिणदिशमिव, तथा फेनैः डिण्डीरैः आवृत आच्छादितः अमृतकलसः पीयूषकुम्भो यस्यां तां तादृशीं क्षीरोदस्य समुद्रस्य वेलां जलवृद्धिमिव विद्यमानाम्, तथा गोरोचनया चित्रिताः पिङ्गलवर्णीकृता दशाः प्रान्तभागा यस्य तत्तादृशम्, अनुपहतं पूर्वं परिधानाभावेनापर्युषितम् अभिनवमित्यर्थः, अतिधवलम् अतिशुभ्रं दुकूलयुगलं सूक्ष्मवसनद्वयं वसानां परिदधानाम् । 'क्षौमपट्टे दुकलेऽस्त्री' इति मेदिनी । इह मालोपमालङ्कारः ।
ससम्भ्रमेति । ससम्भ्रमेण भूपतिं दृष्ट्वा ससत्वरेण परिजनेन सेवकेन कयाचित् परिचारिकया प्रसारितं विस्तारितं यत् करतलं हस्ततलं तदेव लालम्बनम् आधारः तस्य अवष्टम्भेन सहायेन, वामजानुनि अपसव्यनलकीले विन्यस्तः स्थापितो हस्तपल्लवो यया तां तादृशीम्, अन्यथा गर्भभारेणोत्थानासम्भवादित्युभयत्राप्याशयः। प्रचलितानि शरीरसञ्चालनेन चलितानि भूषणानि अलङ्काराः तेषां मणिरवेण रत्नध्वनिना
तनय भौतिक अनिष्टके निवारण करनेके लिए मङ्गलाचरण करती थीं। एवं श्वेतवस्त्रका स्वच्छ वेश धारणकर परस्पर मङ्गलमय आलाप करते-करते परिजनवर्ग आनन्दसे रानीकी सेवा करते थे। गर्भ उन्नत हो जानेसे अन्तर्गत कुल-पर्वतवाली पृथिवीके समान, ऐरावत हस्तीके जलमध्यमें निमग्न होने पर मन्दाकिनीके समान, कन्दरा (गुफा) में घुसे सिंहवाली हिमालयकी मेखला (मध्यदेश) के समान, मेघसमूहसे आवृत सूर्यवाली दिवस-श्रीके समान, उदयाचलसे ढके चन्द्रमण्डलवाली रात्रिके समान, आसन्न ब्रह्म-कमलके उत्पत्ति-समयकी विष्णुकी नाभिके समान, अगस्त्यका उदय समीपवर्ती होने पर दक्षिण दिशाके समान, एवं फेन द्वारा आवृत अभ्यन्तरमें अमृत कुंभ रहनेके समयमें क्षीरोद-सागरकी जलवृद्धिके समान विलासवतीको राजाने देखा, उस समय रानी अत्यन्त श्वेतवर्ण नये दो सूक्ष्मवस्त्र-खण्ड पहनी हुई थी, जिनके प्रान्तभाग गोरोचनसे चित्रित थे।
उस समय राजाको देखकर किसी परिचारिकाने अपना हाथ फैला दिया, रानी दाहिने हाथ द्वारा उसके हाथ को पकड़कर, बायें घुटने पर बायां हाथ रखकर उठने लगी, उस अङ्गसञ्चालनके समयमें हिलते हुए आभूषणोंके मणियोंकी झन-झनाहट होने लगी। यह देखकर विलासवतीसे—'ठहरो ठहरो, बहुत आदर हुआ, (इस अवस्थामें
१. ०००अवतरण०००। २. ०००मङ्गल्य०००। ३. मेखलामिव दिनश्रियम् । ४. ०००तिलकचित्रित ।
५. मणिधवलं । ६. नालम्बनावष्टम्भेन । ७. प्रचल ।