कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 252, कुल 709 में से
संदर्भ में पढ़ेंराज्ञो गर्भवाचावगम०-१६ ] चन्द्रकला-विद्योतिनीसहिता । २१३
तव्यम्' इत्यभिधाय सह तया तस्मिन्नेव शयनीये पार्थिवः समुपाविशत् । प्रमृष्ट-चामीकर-चारुपादे धवलोपच्छदे चासन्ने शयनान्तरे शुकनासोऽपि न्यषीदत् । अथ तामुपारूढगर्भामालोक्य हर्षभरमन्थरेण मनसा प्रस्तुतपरिहासो राजा-'देवि ! . शुकनासः पृच्छति-'यदाह कुलवर्द्धना किमपि, तत् किं तथैव' ?' इत्युवाच । अथाव्यक्त-स्मितच्छुरित-कपोलाधरालोचना लज्जया दशनांशुजालक-व्याजेनांशुकेनेव मुखमाच्छादयन्ती विलासवती तत्क्षणमवोमुखी तस्थौ । पुनः पुनश्चानुबध्यमाना 'किं मामतिमात्रं त्रपा-परवशां करोषि नाहं किञ्चिदपि वेद्मि' इत्यभिदधाना तिर्यग्वलित-तारकेण चक्षुषा अवनतमुखी राजानं साभ्यसूयमिवापश्यत् । अपरिस्फुट-हासज्योत्स्ना-विशदेन मुखशशिना
सुदूरं सशब्दं यथा स्यात्तथेति क्रियाविशेषणमिदम् । उत्तिष्ठन्तीम् उत्थानं विदधतीं विलासवतीं पार्थिवः राजा-देवि ! अत्यादरेण अतिप्रयत्नेन अलमलं कृतं कृतम्, अनेनादरातिशयो व्यञ्जितः । नांत्यात्थ्यं नांत्यानं विधेयम् इत्यभिधाय इत्युक्त्वा तस्मिन्नेव शयनीये पर्यङ्के तया विलासवत्या सह समुपाविशत् उपविष्टवान् ।
प्रमृष्टेति । प्रमृष्टाः उज्ज्वलीकृताः परिष्कृता इत्यर्थः, चामीकरस्य सुवर्णस्य चारुपादा मनोहरपादा यस्य तस्मिन् तादृशे, धवलः शुभ्रः उपच्छदः उत्तरपटः (आस्तरणवसनं) यत्र तथोक्ते आसन्ने समीपवर्त्तिनि, शयनान्तरे अन्यस्यां शय्यायां शुकनासोऽपि न्यषीदत् उपविष्टवान् ।
अथेति । उपारूढगर्भा म् उत्पन्नगर्भां तां विलासवतीम् अवलोक्य निरीक्ष्य हर्षभरेण प्रमोदातिशयेन मन्थरं जडं तेन तादृशेन, मनसा चित्तेन, प्रस्तुत: प्रारब्धः परिहा सो नर्मवचनविन्यासो येन सः तादृशः, राजा-देवि ! शुकनासः पृच्छति प्रश्नं करोति, कुलवर्धना किमपि यदाह कथितवती तत्कि तथैव इत्युवाच इत्युक्तवान् । इह प्रश्ने परिहासावगमस्तु शुकनास इत्यन्यकर्तृनिर्देशादिति बोध्यम् ।
अथेति । अथ प्रश्नानन्तरम् अव्यक्तम् अस्पष्टं यत् स्मितं मन्दहास्यं तेन छुरितं रञ्जितं कपोलाधरलोचनं गण्डोष्ठचक्षुर्यस्याः तादृशी, इह वहुवचनविग्रहो न न्याय्यः प्राण्यङ्गत्वादिति सुधीभिराकलनीयम् । लज्जया त्रपया दशनांशुजालकस्य दन्तकिरणसमूहस्य व्याजेन छुलेन अंशुकेनेव शुभ्रवस्त्रेणेव मुखं वदनम् आच्छादयन्ती आवरणं विदधती विलासवती तत्क्षणं तस्मिन् काले अधोमुखी अवाङ्मुखी तस्थौ स्थिता । इह सापह्नुवोत्प्रेक्षा ।
पुनरिति । पुनः पुनः मुहुर्मुहुः अनुबध्यमाना संनिर्वन्धं पृच्छ्यमाना । अतिमात्रम् अतिसङ्कटं त्रपापरवशां लज्जाधीनां करोषि विदधासि । किञ्चिदपि स्वल्पमात्रमपि अहं न वेद्मि न जानामि' इत्यभिदधाना इति ब्रुवाणा तिर्यग् वलिता वक्रभावेन चलिता तारका कनीनिका यस्य तेन तथोक्तेन । चक्षुषा नयनेन अवनतमुखी लानन्न्राना राजानं भूपति साभ्यसूयमिव ईर्ष्याया सह विद्यमानमिव अपश्यत् अवलोकितवती । पतिव्रताया धीरानायिकाया तथाविधप्रश्नानुचितत्वात्साभ्यसूयमित्याशयः ।
अपरिस्फुट इति । अपरिस्फुटः अस्पष्टः यो हासः स ज्योत्स्ना चन्द्रिका इव तया विशदेन निर्मलेन, मुखं वदनं शशीव चन्द्र इव तेन तादृशेन, उपलक्षितो मुमुजा 'राज्ञां पतीरीश्वरः तारापीडः एनां विलास-वतीं भूयः पुनरपि यमाषे उवाच-
अत्यन्त गौरव दिखानेका प्रयोजन नहीं है) बस, देवि ! तुम मत उठो' यों कहकर राजा उसके साथ उसी पलङ्ग पर बैठ गया । शुकनास भी समीपवर्ती एक दूसरे पलङ्ग पर बैठ गया । उस शय्याके ऊपरमें भी शुभ्रवर्ण आस्तरणवस्त्र (चादर) था एवं उस पलङ्गके सुन्दर पाये स्वच्छ सुवर्णके बने थे ।
तदनन्तर रानी विलासवतीको उत्पन्न गर्भसहित देखकर अत्यन्त आनन्दसे विह्वल चित्त होकर परिहास करते-करते राजा बोला- 'देवि ! शुकनास पूछते हैं कि-'कुलवर्द्धनाने जो कुछ कहा है, वह उस रूपसे सत्य ही क्या ?'। उसके बाद मन्द-मन्द मुस्कुराद विलासवतीके कपोल, ओष्ठ और आँखों पर चमकी, उस समय उसने लज्जासे दन्तकिरणोंके बहाने मानो वस्त्रद्वारा ही मुखको आच्छादन कर अधोमुख कर लिया। किन्तु जब राजाने बार बार आग्रहसे पूछा; तब बोली कि-'मुझे अत्यन्त लज्जित क्यों करते हो ! मैं कुछ नहीं जानती'। इतना कहकर, अवनत मुख कर, आँखकी पुतलियोंको जरा तिरछी करके, उसने राजाको मानों अत्यन्त असूयाके साथ
१. चारुपदे ।
२. चासन्नशयनान्तरे ।
३. क्वचित् 'स्मित' पदं नास्ति ।
४. दशनांशुजाल... ।
५. अनुबध्यमाना ।
६. कि नाम नान् ।