कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 261, कुल 709 में से
संदर्भ में पढ़ें| २२२ | कादम्बरी- | [ कथायाम्- |
|---|
राशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसलयदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव विरचितावयवम्, अनभिव्यक्तमुखपञ्चकमिव महासेनम्, सुरवनिताकरतल-परिभ्रष्टमिवामरपतिकुमारम्, उत्तप्त-कल्याणकार्त्तस्वरभास्वरया स्वदेहप्रभया पूरयन्तमिव वासभवनम्, उद्भासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्, आगामि-कालपालन-प्रहृष्टयेव श्रिया समालिङ्गितम्, आह्लादहेतुमात्मजं ददर्श। विगत-निमेष-निश्चल-पक्ष्मणा च मुहुर्मुहुः प्रमृष्ट-सङ्घटितानन्द-बाष्प-पटलं-प्लुततारकेण दूरं-विस्फारितेन स्निग्धेन चक्षुषा पिच-
विद्रुमेति। विद्रुमाणां हेमकन्दलानां प्रवालानां वा यानि किसलयदलानि विसारिकिरणाः तैः विरचितावयवमिव सृष्टिकर्त्रा निर्मिताङ्गमिव, बालातपस्य नूतनातपस्य छेदैः खण्डैः विरचितावयवमिव पद्मरागरश्मिभिः लोहितमणिकिरणैः विरचितावयवमिव।
इह त्रिष्वपि क्रियोत्प्रेक्षा, तासाञ्च परस्परनैरपेक्ष्येण संसृष्टिः।
अनभीति। अनभिव्यक्तम् अप्रकटितं मुखपञ्चकं यस्य तं तादृशं षण्णां मुखानां मध्ये प्रकटितकेवलैकमुखमित्यर्थः। महासेनं कार्त्तिकेयमिव विद्यमानम् अत्यन्तरमणीयत्वादित्याशयः।
सुरेति। सुरवनिताया रम्भाख्याया देवाङ्गनायाः करतलाद् हस्ततलाद् परिभ्रष्टम् अनवधानतया प्रच्युतम् अमरपतिकुमारं देवाधिपतिवालात्मजं जयन्तमिव तथाविधद्युतिशालित्वादित्याशयः। इह 'जयन्तमिव' इत्यत्र द्रव्योत्प्रेक्षा।
उत्तप्तेति। उत्तप्तम् अग्निना सन्तप्तं यत् कल्याणकार्त्तस्वरम् अत्युत्तमजातीयं स्वर्णं तद्वत् भास्वरया देदीप्यमानया स्वदेहप्रभया स्वशरीरकान्त्या वासभवनं निवासनिकेतनं पूरयन्तमिव परिपूर्णीकुर्वन्तमिव।
इह 'उत्तप्ते'त्यादौ लुप्तोपमा, 'पूरयन्तमिव' इत्यत्र च क्रियोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।
उद्भासेति। सहजभूषणैरिव प्राकृतालङ्कारैरिव, उद्भासमानैः स्फुटं प्रकाशमानैः महापुरुषाणां चक्रवर्त्यादीनां लक्षणैः शङ्खध्वजादिचिह्नः उपेतं सहितम्। 'सहजभूषणैरिव' इत्यत्र जात्युत्प्रेक्षा।
आगामीति। आगामिनि काले भविष्यत्समये तारुण्यादौ यत् पालनं स्वस्य रक्षणं तेन प्रहृष्टया सन्तुष्टया श्रिया लक्ष्म्या समालिङ्गितमिव उपगूहितमिव अत्यन्तरमणीयत्वादित्याशयः। आह्लादहेतुं प्रमोदकारण्म् आत्मजं पुत्रं ददर्श अवलोकयामास।
इह 'समालिङ्गितमिव' इत्यत्र क्रियोत्प्रेक्षा।
विगतेति। विगतेन निमेषेण लवद्वयेन हेतुना 'निमेषस्तु लवद्वयम्' इति शास्त्ररीतिः। निश्चलानि स्थिराणि निष्क्रियाणीत्यर्थः पक्ष्माणि लोमानि यस्य तेन तादृशेन, मुहुर्मुहुः वारम्वारं प्रमृष्टकरणेन प्रोञ्छितमपि पुनः सङ्घटितं प्रादुर्भूतं यत् आनन्दवाष्पपटलं प्रमोदाश्रुसमूहः तेन प्लुता क्लिन्ना तारका कनीनिका यस्य तेन तादृशेन, दूरविस्फारितेन अत्यन्तविस्तारितेन, स्निग्धेन प्रेमप्रकाशकेन चक्षुषा नयनेन, पिबन्निव चुम्बन्निव, इह पानं चुम्बनमेव; आलपन्निव मनोभावं प्रकाशयन्निव, स्पृशन्निव संसज्जनमिव
मालूम होता था। प्रवालमणि (मूँगा) के विस्तृत किरणोंसे किंवा नवीन सूर्यालोकसे अथवा पद्मरागमणिकी किरणोंसे, विधाताने मानो उसके सभी अवयवोंका निर्माण किया था। पाँच मुख प्रकाश होनेके पहले एकमुख कार्त्तिकेयके समान एवं देवस्त्रीके हाथमेंसे गिरे हुए देवराजके शिशुपुत्र (जयन्त) के समान प्रतीत होता था। तपाए हुए स्वच्छ सुवर्णके समान देदीप्यमान स्वकीय शरीर-कान्तिसे वह उस सूतिका-गृहको मानों परिपूर्ण करता था। चमकते हुए स्वाभाविक आभूषणके समान महापुरुषके सभी लक्षण उसमें दिखाई पड़ते थे। 'भविष्यमें यह मेरा प्रतिपालन करेगा' यह मनमें जानकर सन्तुष्ट होकर ही मानो लक्ष्मीने उसका आलिङ्गन किया था। उस समय राजाके नेत्रोंमें निमेष नहीं थे, पलक निश्चल हो गए थे और बार-बार पोछनेपर भी, आनन्दाश्रु, फिर उत्पन्न होकर पुतलियोंको डुवा रहे थे—ऐसे अत्यन्त उत्फुल्ल और स्नेहव्यञ्जक नेत्रोंसे राजा मानो बालकको
१. रचितावयवन्। २. कर...। ३. भ्रष्ट। ४. कुमारकम्। ५. भास्वरतया। ६. आगामि। ७. प्रहृष्टया श्रिया। ८. क्वचित् 'च' इति पदं नास्ति। ९. ...सङ्घट्टितानन्द...। १०. बाष्पबिन्दु...। ११. दूरं।