कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 262, कुल 709 में से
संदर्भ में पढ़ेंबालकवर्णना-१९ ] चन्द्रकला-विद्योतिनीसहिता । २२३
न्निव आलपन्निव स्पृशन्निव मनोरथसहस्र प्राप्त-दर्शनं सस्पृहमीक्षमाणः तनयाननं मुमुदे, कृतकृत्यञ्चात्मानं मेने ।
समृद्धमनोरथः शुकनासस्तु शनैः शनैरङ्गप्रत्यङ्गान्यस्य निरूपयन् प्रीतिविस्फारितलोचनः भूमिपालमवादीत्—देव ! पश्य पश्य, अस्य कुमारस्य गर्भसम्पीडनवशादपरस्फुटावयवशोभस्यापि माहात्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि । तथाहि, अस्य सन्ध्यांशु-रक्तबालशशिकलाकारे ललाटपट्टे नव-नलिन-नाल-भङ्ग-तन्तु-तन्वीयसूर्णा परिस्फुरति । एतद्विकच-पुण्डरीक-धवलं कर्णान्तायतं मुहुर्मुहुरुन्मिषितैर्धवलयतीव वासभवनमरालपक्ष्म लोचन-
सन्, मनोरथानां वाञ्छितानां सहस्रेण समूहेन प्राप्तं लब्धं दर्शनम् अवलोकनं यस्य तत्तादृशम्, तनयाननं आत्मजमुखं सस्पृहं स्पृहासाहितम् ईक्षमाणः अवलोकमानः मुमुदे सन्तोषमवाप, आत्मानं च कृतकृत्यं कृतार्थं मेने मनसि कृतवान्, बह्वोः कालान्मनोरथपूरणादित्याशयः ।
इह 'पिबन्निव' आलपन्निव, स्पृशन्निव, इति त्रयाणामपि क्रियोत्प्रेक्षालङ्काराणां परस्परं नैरपेक्ष्येण वर्तमानत्वात्संसृष्टिः ।
समृद्धेति । समृद्धः सम्पूर्णः मनोरथोऽभिलाषो यस्य स तादृशः, प्रीत्या स्नेहेन विस्फारिते विस्तारिते लोचने नयने यस्य स तादृशः । शुकनासः प्रधानामात्यस्तु शनैः शनैः मन्दं मन्दम् अस्य कुमारस्य अङ्गानि करचरणादीनि प्रत्यङ्गानि अङ्गुल्यादीनि च तानि तादृशानि, भूमिपालं नृपतिम् अवादीत् अवोचत्—'देव-स्वामिन् !, पश्य पश्य विलोकय विलोकय अस्य पुरोऽवलोकमानस्य कुमारस्य बालकस्य गर्भेण गर्भाशयेन सम्पीडनवशात् ईषदवकाशतया अत्यन्तयातनाविधानाद् अपरिस्फुटा समन्तादव्यक्ता अवयवानाम् अङ्गानां शोभा कान्तिर्यस्य तथोक्तस्यापि विद्यमानस्य, चक्रवर्त्तिचिह्नानि सामुद्रिकशास्त्रोक्तसार्वभौमलक्षणानि, माहात्म्यं भाविमहापुरुषत्वम् आविर्भावयन्ति प्रकटयन्ति व्यञ्जयन्ति ।
चक्रवर्त्तिचिह्नान्येव दर्शयति—तथाहीत्यादिना । अस्य कुमारस्य सन्ध्यांशुभिः सायङ्कालीनरागैः रक्ता लोहिता, बाला अरुणा अर्द्धमात्रा या शशिकला चन्द्रकला तद्वद् आकार आकृतिर्यस्य तादृशे, ललाटपट्टे भालफलके, नवोऽभिनवः लघुष्को यो नलिननालभङ्गः कमलनालखण्डः तस्य तन्तुः सूत्रं तद्वत् तन्वी सूक्ष्मा इयम् अवलोक्यमाना, ऊर्णा भ्रूद्वयान्तरालवर्त्ती लोमावर्त्तः परिस्फुरति परिशोभते । 'ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः' इत्यमरः । इह लुप्तोपमयोः मिथो नैरपेक्ष्येण वर्तमानत्वात्संसृष्टिः । चक्रवर्तिलक्षणम्—
बिसतन्तुवत्सूक्ष्मरूप आवर्त्तश्च शुभायतः ।
यदि भ्रूद्वयमध्ये स्याच्चक्रवर्ती तदोच्यते ॥
एतदिति । विकचं प्रस्फुटितं यत् पुण्डरीकं सिताम्भोजं तद्वत् धवलं शुभ्रं कर्णान्तायतं श्रोत्रनिकटपर्यन्तप्रसारितम् अरालपक्ष्म कुटिलनेत्ररोमकम्, लोचनयुगलं नेत्रद्वन्द्वं कर्तृ, मुहुर्मुहुः वारम्वारम् उन्मिषितैः उन्मीलनैः वासभवनं निवासगृहं धवलयतीव श्वेतीकरोतीव ।
इह 'विकचपुण्डरीकधवलम्' इत्यत्र लुप्तोपमा, 'धवलयतीव' इत्यत्र च क्रियोत्प्रेक्षेत्यनयोः परस्परमहाङ्गिभावेन सङ्करः ।
चुम्बन करता हो, आलाप करता हो और आलिङ्गन करता हो इस प्रकार बहुतेरे मनोरथोंसे प्राप्त उसके मुखकमलको स्पृहासे देखकर बहुत आनन्दित हुआ, और वह अपनेको धन्य समझने लगा।
पूर्णफल हुए मनोरथवाले शुकनास भी प्रीतिके कारण फैले हुए नेत्रोंसे बालकके अङ्ग-प्रत्यङ्गको देखकर राजासे धीरे-धीरे कहने लगा—'देखिए, देखिए, महाराज ! गर्भमें सिकुड़ने के कारण इस कुमारके अवयवोंकी शोभा स्फुट तो नहीं हुई है तथापि चक्रवर्ती राजाके लक्षन, भावी महापुरुषत्वकी सूचना प्रकट करते हैं। देखिए, सन्ध्याकी किरणोंसे लाल हुए अर्धचन्द्रमाके समान ललाटदेशमें कमलमुणालके तत्काल तोड़े हुए तन्तुके समान सूक्ष्म ये रोम शोभायमान हैं। खिले हुए सफेद कमलके समान धवलवर्ण, कानोंके छोर तक फैले, जुड़े हुए
१. निरीक्षमाणः ।
२. दादस्य ।
३. प्रीतिविस्फारिताक्षः, प्रीतिविस्फारितलोचनं प्रीतिविस्फारितलोचनं ।
४. पश्यास्य ।
५. अस्फुटावयव... ।
६ आविर्भावयन्तीव ।
७. सन्ध्यांशुव... ।
८. क्वचित् 'नव' इत्यधिकः पाठो नास्ति ।