कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 275, कुल 709 में से
संदर्भ में पढ़ें| २३६ | कादम्बरी- | [ कथाभाग- |
|---|
प्राविशच्च^१ क्षितितल-विलम्बिते^२-चूडामणिना शिरसा प्रणम्य स्वभूमिसमुचिते राजसमीप इव सविनयमासने राजपुत्रानुमतो न्यषीदत् । स्थित्वा च मुहूर्त्तमात्रं बलाहकश्चन्द्रापीडमुपसृत्य व्यजिज्ञपत्^३-कुमार ! महाराजः समाज्ञापयति-पूर्णा नो मनोरथाः, अधीतानि शास्त्राणि, शिक्षिताः सकलाः कलाः, गतोऽसि^४ सर्वायुधविद्यासु^५ परां प्रतिष्ठाम्, अनुमतोऽसि निर्ग-माय^६ विद्यागृहात् सर्व्वाचार्यैः । उपगृहीतशिक्षं गन्धगजकुमारकमिव वारिविनिर्गतम्^७ अधि-गत^८-सकल-कला-कलापं^९ पौर्णमासीशशिनमिव नवोद्गतं^१० पश्यतु त्वां जनः । व्रजन्तु सफलताम-तिचिर-दर्शनोत्कण्ठितानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्व्वाभ्यन्तः-
न्वितः संयुक्तः चूडामणिः शिरोरत्नं यस्य तथोक्तेन शिरसा मूर्ध्ना प्रणम्य नमस्कृत्य, स्वभूमौ स्वोपयुक्त-स्थले राजपुत्रस्य वामभाग इत्यर्थः । समुचिते योग्ये राजपुत्रासनात् किञ्चिन्निम्न इत्याशयः । आसने विष्टरे राजपुत्रेण नृपात्मजेन अनुमतोऽनुज्ञातो राजसमीप इव नृपनिकट इव सविनयं यथा स्यात्तथा न्यषीदत् उपविष्टवान् । इह 'राजसमीप इव' इत्युपमा ।
स्थितेति । मुहूर्त्तमात्रं क्षणमात्रं स्थित्वा लब्धस्थानं विधाय बलाहकः चन्द्रापीडम् उपसृत्य निकटे प्राप्य दर्शितः प्रकटीकृतो विनयः सेवकार्थो येन स तादृशो व्यजिज्ञपत् विज्ञापनां कृतवान्— कुमार राजपुत्र ! महाराजः तारापीडः समाज्ञापयति सादेशं ददाति—नोऽस्माकं मनोरथा वाञ्छिताः पूर्णाः सम्पन्नाः । कथमिति जिज्ञासायामाह—अधीतानीत्यादि । अधीतानि शिक्षितानि शास्त्राणि वेदा-दीनि, सकलाः समस्ताः कला नृत्यगीतादयः शिक्षिताः पठिताः, सर्वासु निखिलासु आयुधविद्यासु शस्त्रविद्यासु पराम् उत्तमां प्रतिष्ठां शिक्षाजनितगौरवं गतः प्राप्तोऽसि । विद्यागृहात् विद्यामन्दिरात् सर्व्वाचार्यैः निखिलाध्यापकैः निर्गमाय निःसरणाय अनुमतोऽसि अनुज्ञातोऽसि ।
उपेति । उपगृहीताः आचार्यसकाशादात्ताः शिक्षाः शास्त्राभ्यासादिरूपा येन तादृशं त्वां वारेः गजबन्धनस्थानात् विनिर्गतं बहिरागतम् । 'वारिर्बन्ध्यां सरस्वत्यां गजबन्धनमुख्ययो' इति रामाश्रमी । गन्धगजकुमारकमिव गन्धहस्तिबालकमिव, अधिगतः प्राप्तः सकलानां समस्तानां कलाविद्यानां षोडशां-शानाञ्च कलापः समूहो येन तं तादृशम्, नवोद्गतं नूतनोदितं पौर्णमासीशशिनमिव राकांचन्द्रमिव जनो लोकः पश्यतु अवलोकयतु ।
इह 'गन्धगजकुमारकमिव' इत्युपमा, 'पौर्णमासीशशिनमिव' इति पूर्णोपमा चेत्यनयोः नियों नैर-पेक्ष्येण विद्यमानत्वासंसृष्टिरलङ्कारः ।
व्रजन्त्विति । अतिचिरेण सुबहुकालेन यद्दर्शनम् अवलोकनं तत्रोत्कण्ठितानि सोत्कलिकाानि 'उत्क-ण्ठोत्कलिके तस्मिन्' इति शब्दार्णवः । लोकलोचनानि जननयनानि सफलतां साफल्यं व्रजन्तु गच्छन्तु ।
दर्शनमिति । ते तव दर्शनम् अवलोकनं प्रति सर्वाणि निखिलाानि अन्तःपुराणि अन्तःपुरस्था नार्यः अतीव समुत्सुकानि अत्यन्तोत्कण्ठितानि सन्तीति शेषः ।
(झुका) कर राजपुत्रको प्रणाम किया। उस समय उसका चूडामणि भूतलमें सट गया था। इसके बाद वह महा-राज तारापीडके समीपमें जिस प्रकार बैठा करता था, उसी प्रकार राजपुत्रकी अनुमति के अनुसार अपने पदके योग्य आसन पर विनयपूर्वक बैठ गया। फिर थोड़ी देर ठहर कर वह चन्द्रापीडके समीपमें आकर विनयपूर्वक कहने लगा—'कुमार ! महाराज आदेश देते हैं कि—'हमारी सब अभिलाषाएँ पूर्ण हुई हैं, क्योंकि-तुम समस्त शास्त्रोंका अध्ययन कर चुके हो, समस्त शिल्प-कलाओंकी शिक्षा पा चुके हो, समस्त अस्त्रविद्याओंमें भी अत्यन्त प्रतिष्ठा प्राप्त कर चुके हो, और आचार्योंने भी विद्यालयसे जानेकी अनुमति दे दी है, अतः एव शिक्षा ग्रहण करके बन्धन स्थानमें से बाहर निकले गन्धगजकुमारके समान एवं सकल-कला-परिपूर्ण नवोदित चन्द्रमाके समान इस समय तुम्हें सब लोग देखें (इस समय वहाँ से तुम बाहर निकल कर आओ)। तुम्हारे दर्शनके लिए उत्कण्ठित साधारण मनुष्योंके नेत्र इस समय सफलता प्राप्त करें। तुम्हें देखनेके लिए अन्तःपुरस्थ समस्त सुन्दरीयाँ
१. प्रदेशितः।
२. ...लम्बन्दित, चुम्बित...।
३. व्यज्ञापयद् !
४. गतः।
५. सर्वाः।
६. विनिर्गमाय ।
७. वारिबन्धनाद्विनिर्गतम् ।
८. क्वचित् 'अधिगत' इति पदं नास्ति ।
९. ...कलापकम् ।
१०. उद्गतम् ।