भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 276, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 276

राज्ञाऽऽनिवेदनम् ०-२३ ] 'चन्द्रकला-विद्योतिनीसहिता । २३७

पुराणि । अयमत्रभवतो दशमो वत्सरः^२ विद्यागृहमधिवसतः, प्रविष्टोऽसि षष्ठमनुभवन् वर्षम् , एवं सम्पिण्डितेनाधुना^३ षोडशेन प्रवर्द्धसे, तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा दर्शनमखिलाभ्यो मातृभ्यः^४, अभिवाद्य च गुरून्^५, अपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च, सम्मानय राजलोकम्, पूजय द्विजातीन्, परिपालय प्रजाः, आनन्दय बन्धुवर्गम्' । अयञ्च ते^६ त्रिभुवनैकरत्नमनिलगरुड-सम-जव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति । एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमिति कृत्वा 'जलनिधि^७जलादुत्थितमयौनिजमिदमश्वरत्नमासादितं मया महाराजाधिरोहणयोग्यम्' इति सन्दिश्य प्रहितः^८। दृष्ट्वा^९ च निवेदितं लक्षणविद्भिः—'यान्युच्चैःश्रवसः श्रूयन्ते लक्षणानि

अयमेवेति । अत्रभवतः अत्यन्तशिक्षिततया सर्वपूज्यस्य 'त्रिषु तत्रभवान् पूज्यस्तत्रैवात्रभवानपि' इति हैमः । विद्यामन्दिरम् अधिवसतः अधितिष्ठतः अयं दशमः संवत्सरो दशमो वर्षः 'अस्ति' इति शेषः । अयं च षष्ठं वर्षं संवत्सरम् अनुभवन् प्रविष्टोऽन्तर्गतोऽसि । एवम् अनेन प्रकारेण सम्पिण्डितेन संयोजनेन षोडशेन षडधिकदशवर्षेण त्वं प्रवर्द्धसे वृद्धिं प्राप्तोऽसि, तत्तस्मात्कारणाद् कृतकृत्यत्वादित्याशयः । अद्य-प्रभृति अद्यारभ्य निर्गत्य निःसृत्य दर्शनोत्सुकाभ्यो विलोकनोत्कण्ठिताभ्योऽखिलमातृभ्यः समस्तजननीभ्यो दर्शनं स्वसाक्षात्कारं दत्त्वा, अभिवाद्य प्रणम्य च गुरून् शिक्षकान्, अपगतनियन्त्रणो दूरीभूतपूर्ववरोधो यस्य स तादृशः, यथासुखं सुखमनतिक्रम्य राज्यसुखानि नवयौवनस्य अभिनवतारुण्यस्य ललितानि विलासव्यापारांश्च अनुभव साक्षात्कुरु ।

सम्मानयेति । राजलोकं स्वायत्तभिन्नराजवर्गम्, सम्मानय सम्मानदानेन प्रसन्नीकुर्वित्यर्थः । द्विजातीन् विप्रान् 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । पूजय वस्त्रादिदानेन सत्कुरु । प्रजाः प्रकृतीः परिपालय सर्वतो रक्ष । बन्धुवर्गं स्वजनमण्डलम् आनन्दय प्रहर्षय ।

अयञ्चेति । अयं पुरो दृश्यमानः त्रिभुवने लोकत्रये एकम् अद्वितीयं रत्नम्, अश्वजातिषु सर्वोत्कृष्ट इत्यर्थः । 'वेदाः प्रमाणम्' इतिवन्नपुंसकत्वम् । अनिलगरुडयोः वायुतार्क्ष्ययोः समस्तुल्यो जवो वेगो यस्य स तादृशः । इन्द्रायुध इति नाम यस्य सः तादृशस्तुरङ्गमोऽश्वो महाराजेन भूपतिना ते तव निमित्तं प्रेषितः प्रहितः द्वारि विद्यामन्दिरप्रतोळ्यां तिष्ठति । खलु निश्चयेन, एष इन्द्रायुधः पारसीकाधिपतिना पारसीकदेशस्वामिना मया देवस्य महाराजस्य त्रिभुवनाश्चर्यं लोकत्रयविस्मयजनकम् इति कृत्वा जलनिधिजलात् समुद्रसलिलाद् उत्थितम् आविर्भूतम् अत एव अयोनिनं पुंस्त्रीसंयोगादनुत्पन्नन् अत एव च महाराजस्य तारापीडस्य अधिरोहणयोग्यम् आरोहणोचितम् इदम् अश्वरत्नं घोटकमणिः इति सन्दिश्य इति कथयित्वा प्रहितः प्रेषितः ।

ननु पारसीकाधिपतिना यत्प्रशंसितं तत्सत्यमेव न मन्ये विदेशीयत्वात् । यदि चास्मद्देशीयः कश्चित् तत्तत्त्वज्ञो वदेत् तदैव प्रशंसाया विशेषमहत्त्वमित्यत आह—दृष्ट्वा चेति । लक्षणविद्भिः इह विद्यमानैः अश्वलक्षणभिज्ञैः दृष्ट्वा निरीक्ष्य निवेदितं विज्ञापितम्—देव ! स्वामिन् ! उच्चैःश्रवसः उच्चैः उन्नतौ श्रवौ कर्णौ

अत्यन्त उत्कण्ठित हो रही है । और तुम्हें विद्यालय में वास करते हुए यह दशवाँ वर्ष है, तुमने छठे वर्ष की अवस्था में विद्यालय में प्रवेश किया था । इन दोनोंको जोड़नेसे तुम सोलहवें वर्षमें प्रविष्ट होकर बढ़ रहे हो, इस लिए आज यहां से बाहर निकल कर, देखनेके लिए उत्कण्ठित सभी माताओंको दर्शन देकर तथा गुरुजनों (बड़े-बूढ़ों) की वन्दना करके, स्वतन्त्रता-पूर्वक राज्य-सुख और नव-यौवनके भोग-विलासका यथारुचि अनुभव करो, राजाओंका सम्मान करो, ब्राह्मणोंका पूजन करो, प्रजाओंका पालन करो और आत्मीय-बन्धुओंको आनन्दित करो । त्रिभुवनके मध्यमें रत्न-स्वरूप एवं वायु और गरुड़के तुल्य वेगवान् इन्द्रायुधनामका एक अश्व आपके लिए महाराजने भेज दिया है, वह अश्व दरवाजे पर खड़ा है । 'समुद्र-जलमें से निकला हुआ अयोनिसम्मा यह अश्व-रत्न मुझे मिला है, यह महाराजके (तारापीडके) ही चढ़ने योग्य है' इस प्रकार सन्देशा देकर एवं यह अश्व तीनों भुवनोंके मध्यमें आश्चर्य्य रूप है ऐसा समझ कर पारसीकोंके राजाने महाराजके (तारापीडके) पास इसे भेज दिया था ।


१. क्वचित् , 'अयम्' इत्यधिकः पाठो नास्ति । २. संवत्सरः । ३. आपीढितेनाधुना । ४. अखिलमातृभ्यः । ५. गुरून् । ६. कुत्रचिद 'ते' इति पदं न विद्यते । ७. जलधि । ८. प्रहितम् । ९. इह क्वचित् 'च' इत्यादिकः पाठः समुल्लङ्घ्यते ।