भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 282, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 282

•इन्द्रायुधव० २४ ] चन्द्रकला-विद्योतिनीसहिता २४३

कमलवनमिव मधु-पङ्क-पिङ्गकेसरम् , ग्रीष्मदिवसमिव महायाममुग्रतेजसञ्च, भुजङ्गमिव^१ सदागत्यभिमुखम् , उदधिपुलिनमिव शङ्खमालिकाभरणम् , भीतमिव स्तब्धकर्णम् , विद्याधरराज्यमिव चक्रवत्तिनरवाहनोचितम् , सूर्योदयमिव सकलभुवनार्घार्हम् , अश्वातिश- ममिन्द्रायुधमद्राक्षीत् । दृष्ट्वा च तमदृष्टपूर्वममानुषलोकोचिताकारमखिल-त्रिभुवन-राज्योचितमशेषलक्षणोप-


कमलेति । कमलवनमिव पङ्कजविपिनमिव, मधुना प्रसूनरसेन युक्तः सहितो यः पङ्को वचादिचूर्ण- लेपः, पक्षे मधुपङ्को गाढपुष्परसः तेन पिङ्गा रक्तपीताः केसराः स्कन्धरोमाणि किञ्जल्काश्च यस्य तं तादृशम् । आह वायुर्वेदे—'अश्वस्य वातादिदोषशान्तये मधुयुक्तवचादिचूर्णस्य पङ्कस्तेन तनुलेपनम् ।'

ग्रीष्मेति । ग्रीष्मदिवसमिव निदाघंवासरमिव, महान् आयामो विस्तारः यस्य तं तादृशम् , तथा उग्रं भीषणं तेजः सामर्थ्यं यस्य तं तादृशम् , पक्षे तु महान्तः अन्यान्य-ऋत्वपेक्षयातिदीर्घतमाः यामाः प्रहरा यत्र तं तादृशम् , तथा उग्रम् असह्यं तेज आतपो यत्र तं तादृशम् ।

भुजङ्गमिति । भुजङ्गं सर्पमिव, सदा सर्वस्मिन् काले गतौ गमने अभिमुखम् उन्मुखम् , अन्यत्र तु सदागतेः मातरिश्वनः वायोरित्यर्थः । 'मातरिश्वा सदागतिः' इत्यमरः, अभिमुखम् अभिमुखावस्थितम् ।

उदधीति । उदधिः समुद्रः तस्य पुलिनं सैकतमिव, शङ्खमालिका कण्ठार्पिता सलिलात् स्वयमुद्गता च या कम्बुपङ्क्तिः सैव आभरणं भूषणं यस्य तं तादृशम् ।

भीतमिति । भीतम् अन्यप्रतिपाद्यमानस्वकार्याकर्णनादुद्विग्नं तस्करादिजनमिव, स्तब्धौ निश्चलौ कर्णौ श्रोत्रे यस्य तं तादृशम् ।

विधेति । विद्याधराणां व्योमचारिणां गन्धर्वाणां राज्यम् आधिपत्यमिव, चक्रवर्त्तिनः सार्वभौमस्य नरस्य पुरुषस्य वाहने उद्वहने उचितं योग्यम् , स्वस्यापि सर्वथैवात्युत्तमत्वादित्याशयः । अन्यत्र तु—चक्र- वर्त्तिनः समस्तपृथिवीपतेः नरवाहनस्य नरवाहनदत्तसंज्ञकस्य वत्सराजसुतस्य उचितं योग्यम् ।

पुरा किलोदयनाभिधानाद्वत्सराजात् वासवदत्तानाम्न्यां महिष्यां नरवाहनदत्तसंज्ञकः सुतः समु- त्पन्नः; यो हि विद्याधरराज्यस्याधिपतिर्बभूवेति कथासरित्सागरीया कथा ।

सूर्योदयमिति ! सकलभुवनं समस्तजगदेव अर्घो मूल्यं तस्य अर्हो योग्यः तं तादृशम् , समस्तज- गद्रूपमूल्येन क्रेयमित्यर्थः, अत्यन्तोत्तमत्वादित्याशयः । अन्यत्र तु—सकलभुवनस्य समग्रजगद्वासिनो लोकस्य अर्घे अर्धदाने अर्हं योग्यम् ।

इह 'हरिचरणमिव' इत्यारभ्य 'सूर्योदयमिव' इत्यन्तं सर्वत्र पूर्णोपमालङ्कारः ।

अश्वेति । अश्वेषु तुरङ्गमेषु अतिशय उत्कर्षो यस्य तं तादृशम् अश्वकुलेष्वत्युत्तममित्यर्थः । अद्रा- क्षीत् अपश्यत् चन्द्रापीड इति शेषः ।

दृष्ट्वेति । अमानुषलोको देवलोकः तस्य उचितो योग्य आकार आकृतिर्यस्य तं तादृशम् । अखिलं समग्रं त्रिभुवनं लोकत्रयं राज्यम् आधिपत्यं यस्य तस्य देवाधिपत्येत्यर्थः । उचितं योग्यम् । अशेपैः


उसी प्रकार मधुमिश्रित वैद्यक शास्त्र-प्रसिद्ध वचादि चूर्ण लेपने पिङ्गलवर्ण हो गए थे। ग्रीष्मकालके दिन जिस प्रकार अन्यान्य ऋतुकी अपेक्षा बड़े बड़े प्रहरवाले और रौद्र-समन्वित होते हैं, उस अश्वका शरीर भी उसी प्रकार बड़ा विस्तार वाला और भयङ्कर बल-समन्वित था। सर्प जिस प्रकार वायुके अभिमुखमें रहता है, इन्द्रायुध भी उसी प्रकार सर्वदा जानेके लिए ऊपर मुँह उठाये तैयार रहता था। और वह इन्द्रायुध, समुद्र-तटके समान शङ्खमालामय आभूषणसे भूषित था, एवं भयभीत व्यक्तिके समान स्तब्धकर्ण (कान सीधा खड़ा घाला ) था। विद्याधरका राज्य जिसप्रकार चक्रवर्त्ती (समस्त पृथिवीके अधिपति) नरवाहनदत्तके उपयुक्त था, इन्द्रायुध भी उसी प्रकार चक्रवर्त्ती पुरुषके वाहन (सवारी) के उपयुक्त था। सूर्योदय जिस प्रकार समस्त संसारके लोगोंके अर्घदान योग्य है, इन्द्रायुध भी उसी प्रकार समस्त संसार रूप मूल्यके योग्य था। चन्द्रापीडने अश्वजातिके मध्यमें उत्कृष्ट उस इन्द्रायुधको देखा।

चन्द्रापीड अत्यन्त धीर प्रकृति होने पर भी, उस अश्वरूपी अनिर्वचनीय पदार्थको देखकर, बहुत विस्मया- पन्न हो गया। क्योंकि—वह अश्व, देवलोकके उपयुक्त आकारवाला, समस्त त्रिभुवनाधिपतिके आरोहण (सवारी)


१. उग्रतेजसा भुजगम ।
२. सकलभुवनान्यर्हेन् ।