भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 287, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 287

२४८ कादम्बरी- [ कथायाम्-

फलकेन ऊर्ध्वीकृतेन॑ कुन्त-लता-वनेन उन्नाल-नीलोत्पल-कलिका-वन-गहनं सर इव गगनतल-मलङ्कुर्वाणम् , उद्दण्ड-मयूरातपत्र-सहस्रान्धकारिताष्टादिङ्मुखतया स्फुरित-शतमम्यु-चाप-कलाप-कल्माषमिव॑ जलधरवृन्दम् , उद्द्रमत्-फेनपुञ्ज-धवलित-मुखतया अनवरत-वल्गन-चटुलतया च प्रलय-सागर-जल-कल्लोलसङ्घातमिव समुद्गतम्। अदृष्ट-पर्य्यस्तमश्वसैन्यम्॑ अपश्यत्। तच्च सागरजलमिव चन्द्रोदयेन॑ चन्द्रापीडनिर्गमेन सकलमेव सञ्चचालाश्वीयम्। अह-

तानि देदीप्यमानानि विमलानि स्वच्छानि फलकानि अग्रभागा यस्य तेन तादृशेन, ऊर्ध्वीकृतेन ऊर्ध्वं स्थापितेन, कुन्ताः प्रासास्राख्यविशेषा एव लता वल्ल्यस्तद्वल्लभवन्मत्वादित्याशयः, तासां वनेन समूहेन करणेन, उद्गतानि उत्थितानि नालानि मृणालानि यासां तासां नीलोत्पलकलिकानां कुवलयकुड्‌मलानां वनेन विपिनेन गहनं नीरन्ध्रं सरः सरोवरमिव गगनतलम् आकाशतलम् अलङ्कुर्वाणं भूषयन्तम्। नीलोत्पलवनेन सरः यथाऽलङ्क्रियते तथा गगनं कुन्तसमूहेनालङ्कृतमित्यभिप्रायः।

इह 'कुन्तलते'त्यत्र निरङ्गकेवलरूपकम्, 'वनगहनम्' इत्यत्र 'गहनं काननं वनम्' इत्यमरकोशादुभयोः पर्यायतया आपाततः पौनरुक्त्यप्रतीतावपि अनन्तरं गहनपदस्य नीरन्ध्रार्थकत्तया पर्यवसानात् पुनरुक्तवदाभासोऽलङ्कारः। तदुक्तं साहित्यदर्पणे-

'आपाततो यदर्थस्य पौनरुक्त्यावभासनम्। पौनरुक्त्यवदाभास......इति। 'सर इव' इत्यत्र श्रौत्युपमालङ्कारस्तथा चैतेषां मिथोऽङ्गाङ्गिभावेन सङ्करः॥

उद्दण्डेति। ऊर्ध्वमुत्थापिता दण्डा येषां तानि उद्दण्डानि यानि मयूरातपत्राणि मयूरबर्हरचितच्छत्राणि तेषां सहस्रेण वृन्देन करणेन, अन्धकारितानि समुत्पन्नान्धकाराणि अष्टानां दिशां ककुभां मुखानि आद्यभागा येन तत्तादृशम्, तस्य भावस्तया तादृश्या कारणेन, स्फुरितेन, उड्डीसेन शतमम्योरिन्द्रस्य चापकलापेन धनुःसमूहेन कल्माषं चित्रितं नानावर्णमित्यर्थः, जलदवृन्दं मेघसमूहः तमिव विद्यमानम्। इह 'मेघवृन्दमिव' इत्यत्र श्रौत्युपमालङ्कारः।

उद्द्रमदिति। 'उद्द्रमद्भिः वहिर्निस्सरद्भिः फेनपुञ्जः अश्वमुखकफसमूहैः धवलितानि श्वेतीकृतानि मुखानि अश्वानामाननानि यत्र तस्य भावस्तया तादृश्या, अनवरतं निरन्तरं यद्वल्गनम् अङ्गसञ्चालनं तेन चटुलतया चञ्चलतया च कारणेन, समुद्गतं तटे समुत्थितम्, प्रलये प्रलयसमये सागरजलस्य कल्लोलसङ्घातं महातरङ्गवृन्दमिव विद्यमानम्, तस्याप्यश्वमुखकफपुञ्जधवलत्वात् अनवरतचटुलत्वाच्चेत्याशयः। अदृष्ट। अत्यधिकतया लोचनागोचरत्पादनवलोकिताः पर्यन्ताः प्रान्तदेशा यस्य तत्तादृशम्। अश्वसैन्यमपश्यत्। प्रलयसागरेत्यादावुपमालङ्कारः।

तच्चेति। अपि चेति चार्थः चन्द्रोदयेन सागरजलमिव समुद्रसलिलमिव, चन्द्रापीडनिर्गमेन कारणेन तत् सकलं समस्तमेव अश्चीयम् अश्वसैन्यवृन्दं सञ्चचाल तस्य परिवेष्टनाय यानोद्योगादित्याशयः। 'वृन्देत्वश्वीयमाश्ववत्' इत्यमरः। इह 'सागरजलमिव' इति श्रौत्युपमा।

लतास्वरूप ऊँचे कुन्तसमूह (भालों) से वह सैन्यगग, जलके ऊपर उठे हुए नाल-समन्वित नीलकमलकी कलियोंके समूहसे भरे सरोवरके समान आकाशको शोभायमान करता था। सैनिकोंके ऊँची डंडीवाले मोर पंखोंके बने हजारों छत्रोंके कारण आठों दिशाओंके मुख अन्धकारसे व्याप्त हो गए थे जिससे वह अश्वारोही सैन्य, चमकते इन्द्रधनुषके समूहसे विचित्रीकृत मेघ-समूहके समान विद्यमान था। फेनका ढेर निकलनेसे श्वेत मुखवाले और अनवरत अङ्गसञ्चालनसे संपूर्ण अस्थिर हुए घोड़ोंसे वह सैन्य, प्रलयकालमें तटमें उठे समुद्रजलके महातरङ्ग-समूहके समान दृष्टिगोचर होता था। चन्द्रोदयसे समुद्रजलके समान, सब अश्वारोही सैन्य चन्द्रापीडके बाहर निकलने से चञ्चल हो उठे (अर्थात् चन्द्रापोडको निकलते देख सेनाओंमें खलबली मच गई)। एवं 'मैं पहले मैं पहले' इस प्रकार इच्छा प्रणोदित होकर, चन्द्रापीडको नमस्कार करनेके लिए इच्छुक, शीघ्रतामें छत्रोंके एकदम खिसक जानेसे खुले मस्तकवाले, एवं परस्पर सङ्घर्षश क्रुद्ध घोड़ोंको रोक देनेसे परिश्रान्त राजपुत्रगण ठहर कर चन्द्रापीडके आस-पास (चारों ओर) इकट्ठे हो गए। उस समय बलाक (सेनापति) से प्रत्येक का नामोच्चारण कर एक-एक का परिचय करा देने पर राजपुत्रगण अपने-अपने मस्तकको अवनत कर चन्द्रापीडको नमस्कार


१. ऊर्ध्वीकृत। २. कल्माषितम्। ३. पूर्वं तम्। ४. अप्रमेयमश्वसैन्यम्, अश्वीयं सैन्यम्। ५. चन्द्रोदयेनेव।