भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 286, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 286

इन्द्रायुधव०-२४ ] चन्द्रकला-विद्योतिनीसहिता । २४७

मुहुर्मुहुस्ताडयता क्षितितलम् उत्खात-धूलि-धूसरित-क्रोड-रोम-राजिना दक्षिणखुरेणारोहणाया- ह्वयन्निव स्फुरित-घ्राण-विवर-घर्घरध्वनिमिश्रं मधुरमपरुषं²-हुङ्कारपरम्परानुबद्धमतिमनोहरं हेपारवम्³ अकरोत् ।

अथानैन मधुर-हेपितेनँ⁴ दत्तारोहणाभ्यनुज्ञ इव इन्द्रायुधमारुरोह चन्द्रापीडः । समा- रुह्य तं प्रादेशमात्रमिव त्रैलोक्यमखिलं⁵ मन्यमानो निर्गत्य, जलधर-⁶ विमुक्तोपलासार- परुषेण जर्जरयतेव रलातलमतिनिष्ठुरेण खुरपुटानां रवेण, खुररजोनिरुद्ध-घ्राण-घोर-घोषेण च हेपितेनँ⁷ वधिरीकृत-सकलभुवनं-विवरम्⁸, अशिशिरकिरण-दीधिति-परामर्शं१० स्फुरित-विमल-

विलोक्य निरीक्ष्य मुहुर्मुहुः वारंवारं क्षितितलं पृथ्वीतलं ताडयता आस्फालयता, उत्खाताभिः आघाते- नोत्थापिताभिः धूलिभिः भूरजोभिः धूसरिता धूम्रवर्णीकृता क्रोडरोमराजिः भुजान्तरालकपङ्क्तिर्येन तथोक्तेन दक्षिणखुरेण अपसव्यशफेन आरोहणाय अधिरोहणाय तं चन्द्रापीडम् आह्वयन्निव आह्वानं विदधदिव सन्। स्फुरितः स्यन्दितो यो घ्राणविवरः नासिकारन्ध्रं तस्य यो घर्घरध्वनिः अव्यक्तः शब्दः तेन मिश्रं संयुक्तम्, मधुरं सुश्राव्यं कर्णसुखदमित्यर्थः । अपरुषया अकठोरया हुङ्कारपरम्परया हुमित्येवं शब्दपङ्क्त्या अनुबद्धं सम्मिलितम् अतिमनोहरं हेपारवम् अकरोत् ।

इह ‘विदिताभिप्राय इव’ इति ‘आह्वयन्निव’ इति क्रियोत्प्रेक्षायुगलेन सङ्कीर्णा स्वभावोक्तिः ।

अथेति । अथेत्यानन्तर्ये । अनेन इन्द्रायुधेन कर्त्रा, मधुरहेपितेन सुश्राव्यहेपाशब्देन करणेन, दत्ता आरोहणाय अभ्यनुज्ञास्वीकृतिर्यस्य स इव चन्द्रापीडः इन्द्रायुधम् आरुरोह अधिरूढः ।

‘दत्तारोहणाभ्यनुज्ञ इव’ इति क्रियोत्प्रेक्षा ।

समारुह्येति । तम् इन्द्रायुधं समारुह्य आरोहणं कृत्वा चन्द्रापीडः अखिलं समस्तं त्रैलोक्यं त्रिभुव- नम्, तर्जन्यङ्गुष्ठे प्रसारिते सति यन्मानं तद्व्रादेश इत्यभिधीयते । तदुक्तमभिधानचिन्तामणौ—

‘प्रदेशिन्यादिभिः सार्द्धमङ्गुष्ठे वितते सति । प्रादेशताल गोकर्णवितस्तयोर्यथाक्रमम् ॥’ इति ।

तन्मात्रमिव मन्यमानो जानन् अयमिन्द्रायुधः स्वकीयनिरतिशयवेगवशेनार्तित्वरितमेव लङ्घयि- ष्यति मार्गमित्यस्य सम्भाव्यमानत्वादित्याशयः । निर्गत्य ततो बहिरागत्य ‘अश्वसैन्यम् अपश्यत्’ इत्युत्त- रेण सम्बन्धः । इह द्वितीयान्तानि पदानि अश्वसैन्यमित्यस्य विशेषणानि । जलधरैः मेघैः विमुक्तो वर्षणं कृतो य उपलासारः निरन्तरा पाषाणवृष्टिः तेनेव तस्य शब्दवदित्यर्थः, परुषेण दुःश्रवेण, रसायाः पृथिव्याः तलम् ऊर्ध्वभागं जर्जरयतेव प्रशिथिलावयवं विदधतेव । तथा अतिनिष्ठुरेण अतिकठिनेन, खुरपुटानां तुरङ्गखुराग्राणां रवेण ध्वनिना, तथा खुररजोभिः निजनिजखुरपुटोद्भूतपांसुभिः निरुद्धानां परिपूरितप्रायाणां घ्राणानां नासिकानां घोरघोषो भीषणशब्दो यत्र तथोक्तेन हेपितेन हेपारवेण च वधिरीकृतानि अकर्णतां प्रापितानि सकलानि समस्तानि भुवनविवराणि संसारनिवासिनां जन्तूनां कर्णरन्ध्राणि येन तत्तादृशम् । इह ‘प्रादेशमात्रमिव’ इत्यत्र गुणोत्प्रेक्षालङ्कारः । ‘जर्जरयतेव’ इति क्रियोत्प्रेक्षालङ्कारः । ‘वधिरीकृतसकल- भुवनम्’ इत्यत्र वधिरीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिरलङ्कारः ।

अशिशिरेति । अशिशिरकिरणस्य उष्णमयूखस्य सूर्यस्य दीधितिपरामर्शेन किरणसंश्लेषेण स्फुरि-


उसके बाद चन्द्रापीड, इन्द्रायुधके मधुर हिनहिनाहटसे सवार होनेकी अनुमति पाकर ही मानो उसके पीठ पर सवार हो गया । सवार होकर समस्त त्रिभुवनको मानो प्रादेशप्रमाण, समझकर, विद्यालयते बाहर निकल कर उसने अश्वारोही सैन्यको ( घुड़सवारों की एक फौज को ) देखा, जिसको अन्त तो देख भी नहीं पड़ता था । मेघमुक्त शिलावृष्टि ( बरसते ओले ) के शब्दके समान श्रुतिकठोर, भूतलको मानो विदारणकारी और अत्यन्त निष्ठुर खुरोंके शब्दसे एवं खुराघातसे उड़ती धूलियोंसे परिपूर्ण प्रायः नासिका-विवरके भयङ्कर शब्दते मिश्रित हिनहिनाहटसे वह अश्वारोही सैन्य ( घुड़सवारों का एक फौज ) समस्त प्राणियोंके कर्णविवरको बहरा कर दिया था । सूर्य किरणोंके स्पर्शते उज्ज्वल और निर्मल फलकवाला, ऊँचे किए हुए और


१. रोहणाय । २. अपरुषं । ३. अतिमनोहरहेपारवम् । ४. ॰॰॰हेपितेन । ५. कुत्रचित् ‘अखिलम्’ इति पदन्नास्ति । ६. प्रलयजलधर॰॰॰ । ७. हेषितेन । ८. ॰॰॰त्रिभुवनम् । ९. क्वचित् ‘विवरम्’ इति पदं नास्ति । १०. अशिशिरदीधितिसंस्पर्शं॰॰॰ ।