भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 285, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 285
२४६कादम्बरी-[ कथामुखम्-

अन्ये च महात्मानो मुनिजनशाप-परिप्रीतप्रभावा नानाकारा भूत्वा बभ्रमुमिमं लोकम् । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मदन्तः-करणमस्य दिव्यताम् ।'

इति विचिन्तयन्नेवारुरुक्षुरासनादुदतिष्ठत् । मनसा च तं तुरङ्गममुपसृत्य॑ 'महात्मन् । अर्वन् ! योऽसि सोऽसि, नमोऽस्तु ते, सर्वथा मर्षणीयोऽयमारोहणातिक्रमोऽस्माकम् , अपरिगतानि दैवतान्यप्यनुचित-परिभवभाञ्जि भवन्ति' इत्यामन्त्रयाम्बभूव । विदिताभिप्राय इव स तमिन्द्रायुधश्चटुलशिरः-केसर-सटा-हति-कूर्णिताकेकर-तारकेण तिर्यक्चक्षुषा - विलोक्य

अतलस्पर्शगर्ते पतितुं प्रवृत्तान् पुरुषान् दृष्ट्वा 'के यूयम्' इत्यपृच्छत्, तं च स्थूलशिरसः पितरो वयम् त्वया च सन्तानोत्पत्तिर्न कृता, तद्वियोगात्तदुपरे पुंनाम्नि नरके पतिष्यामः इत्यवोचन् स्थूल-शिरास्तु तच्छ्रुत्वा सन्तानोत्पत्त्यर्थं रम्भाभिधानां योषितमभिहितवान्—'त्वां कामये' इति । तया चाभिहितम्—'यथाज्ञापयसि,' किन्तु देवकार्यं कृत्वागमिष्यामि इत्युक्त्वा गत्वा विलम्बितवतीति 'क्रुद्धो महर्षिः 'वडवा भव' इति तां शशाप, नरनायणविग्रहावधिश्च शापो भविष्यति' इति ॥

अन्य इति । अन्येऽपरे महात्मानो गरीयांसो जनाः मुनिजनानां तपस्विनां शापेन अभिसम्पातेन परिप्रीतो विलयं नीतः प्रभावो माहात्म्यं येषां ते तादृशाः । यथा अगस्त्यादीनामभिसम्पातेन नहुषप्रभृतयः अजगररूपादिभिः नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृह्य इमं लोकं संसारं बभ्रमुः अभ्रिमवन्तः । असंशयं निःसन्देहम् अनेनापि केनापि महात्मना महापुरुषेण शापभाजा अभिसम्पातिना भवितव्यम् । मदन्तःकरणं मच्चित्तम् अस्य तुरङ्गमस्य दिव्यतां स्वर्गीयत्वम् आवेदयतीव बोधयतीव ।

इतेति । इति एवम्प्रकारेण चिन्तयन्नेव ध्यायन्नेव आरुरुक्षुः आरोढुमिच्छुः आसनात् सिंहासनाद् उदतिष्ठद् उत्थितो बभूव । तं तुरङ्गमम् अश्वं मनसा चेतसा उपसृत्य समीपं गत्वा चन्द्रापीड इत्यामन्त्रयामास अभ्यर्थयामास । किन्तदामन्त्रणमित्यत आह—महात्मन्निति । हे अर्वन् हे अश्व ! 'वाजिवाहार्बगन्धर्वहयसैन्धवसप्तयः ।' इत्यमरः, योऽसि सोऽसि यत्तद्रूपोऽसि ते तुभ्यं नमो नमो नमस्कारोऽस्तु । सर्वथा सर्वप्रकारेण अस्माकम् आरोहणेन योऽतिक्रमः अवहेलनं स मर्षणीयः सोढव्यः । अपरिगतानि देवत्वेनाज्ञातानि, दैवतान्यपि देवा अपि अनुचितम् अयोग्यं परिभवम् अवमाननां भजन्ते लभन्त इति तानि तादृशानि भवन्ति । इत्यज्ञाञाततयैव भवानपि ममैतदारोहणावमाननमाग मवतीत्याशयः ।

विदितेति । स इन्द्रायुधोऽश्वः अतिमनोरमम् अतिरमणीयं हेषारवं हेषाशब्दम् अकरोत् कृतवान् इत्यन्वयः । विदितो ज्ञातः अभिप्रायः चन्द्रापीडस्य सविनय आशयो येन स तादृशः चदुलं चञ्चलं यच्छिरः उत्तमाङ्गं तस्य याः केसरा एव सटा जटाः तासाम् आहुतिः आघातः ताडनं तया कूर्णिता कुञ्चिता आकेकरा किञ्चित्कुटिला च तारका कनीनिका यस्य तेन् तयोक्ततेन चक्षुषा लोचनेन तं चन्द्रापोडं तिर्यक् निरक्षोनं

मर्त्यलोकमें रही थीं । अन्यान्य महात्मा भो, मुनियोंके शापसे अपने-अपने प्रभाव क्षीण हो जाने पर अनेक प्रकारकी आकृति धारण कर इस संसारमें भ्रमण कर गए हैं । इसलिए यह भी शापग्रस्त कोई महात्मा ही होगा, इसमें कोई सन्देह नहीं । मेरा अन्तःकरण भी इसको स्वर्गीय समझ कर मानो परिचय देता है ।'

इस प्रकार चिन्ता करते-करते ही चन्द्रापीड़ सवार होनेकी इच्छा से आसनसे उठ खड़ा हुआ । एवं अश्वके समीपमें जाकर मन ही मन उससे अभ्यर्थना करने लगा कि—'हे महात्मन् अश्व ! तुम चाहे जो हो सो हो, तुमको मैं नमस्कार करता हूँ । तुम मेरे सवार होनेकी अवज्ञा सर्वथा क्षमा करना, क्योंकि अपरिचित देवता भी असह्य अनेक अपमानके भागी हो जाते हैं ।' उसके बाद वह इन्द्रायुध चन्द्रापीडका अभिप्राय जानकर ही मानो, चञ्चल मस्तकस्थित केसररूप जटाके ताड़नसे जरा मिची और तिरछी कनीनिका युक्त आँखोंके द्वारा तिर्यक् (तिरछे) रूपसे (पुतलियोंको फेरकर) उसे (चन्द्रापीड़को) देख कर, दाहिने खुरसे बारम्बार भूतल-ताडन कर उत्थित धूलियोंसे अपने छातीके रुपैंको मटमैला कर, आह्वान करते-करते (दुलत्ते २) ही मानो फूले हुए नथनोंके छिद्रसे 'वर्चट्' शब्द युक्त और मधुर हुङ्कार-समन्वित सुश्राव्य और अत्यन्त मनोहर हिनहिनाहट करने लगा ।


१. अनुपसृत्य, समुपसृत्य । २. इह 'स्थितेन' इत्यधिकः पाठः कुत्रचिदुपलभ्यते ।