कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 297, कुल 709 में से
संदर्भ में पढ़ें| २४८ | कादम्बरी- | [ कथायाम्- |
|---|
गलितोत्तरीया विहस्यसे^१ जनेन। रागावृतनयने ! पश्यसि न सखीजनम्। अनेक-भङ्गिविकारपूर्णे ! दुःखमकारणायासितहृदया^३ जीवसि। मिथ्याविनीते ! किं व्यपदेशवीक्षितैः, विस्रब्धमालोकय^४। यौवनशालिनि ! किं पीडयसि पयोधरभारेण। अतिकोपने ! पुरतो भव। मत्सरिणि ! किमेकाकिनी रुणत्सि वातायनम्। अनङ्गपरवशे ! मदीयमुत्तरीयांशुकमुत्तरीयतां नयसि ? रागासवमत्ते^५ ! निवारयात्मानम्। उज्झितधैर्ये ! किं धावसि गुरुजनसमक्षम्।
रागावृतेति। रागेण चन्द्रापीडप्रीत्यतिशयेन आवृते आच्छादिते अन्यावलोकनावश्यकत्वे कृते इत्यर्थः। नयने लोचने यस्याः तत्सम्बुद्धौ रूपम्। अतएव सहचरीवर्गमपि नावलोकयसीति काकुः, सहसैवेदं तवानुचितमित्याशयः। एकाग्रलोचनां प्रति नर्मवचनमिदम्।
अनेकेति। अनेका बह्व्यो या भङ्गयः हस्तनेत्रादिसङ्केता एतद्विकाराः तैः पूर्णे भृते !, अकारणं चन्द्रापीडप्राप्यसम्भवान्निष्फलम् आयासितहृदया सोत्प्रासं खिन्नमानसा दुःखं क्लेशं यथा स्यात्तथा जीवसि प्राणान् धारयसे। एवञ्च प्रदर्श्य अनेकभङ्गीविकारान् तथापि चन्द्रापीडप्राप्तिस्ते कदापि न भवेत् तथा-सति सम्प्रति' हृदयस्यायासः दुःखमयं च जीवनं निष्प्रयोजनमेवेत्याशयः। इदमपि तथाविधां प्रति नर्मवचनम्।
मिथ्येति। हे मिथ्याविनीते असत्यविनयप्रकटिनि ! व्यपदेशवीक्षितैः व्याजनिरीक्षणैः किम्? अस्माभिस्तदवलोक्यमानत्वेन विपर्यासत्वनिश्चयान्न किञ्चिदपि प्रयोजनमित्याशयः, अत एव विस्रब्धं निःसन्देहम् आलोकय पश्य। एवं सति तवाप्यवलोकन सौविध्यं स्यात् अस्माकमपि व्याजनिश्चयेन त्वयि विरागो न भवेदित्याशयः। अन्यापदेशेनावलोकयन्तीं प्रति कस्याश्चिन्नर्मवचनमिदम्।
यौवनेति। हे यौवनशालिनि उत्कृष्टतारुण्यसंयुक्ते ! तदुक्तमभिधायककठिनपीनकुचवत्त्वादित्याशयः। पयोधरभारेण तथाविधकुचयोर्गुरुत्वेन भारवत्कुचद्वयेनेत्यर्थः, पीडयसि पृष्ठतः सङ्घर्षणेन पीडां जनयसि। अग्रगमनत्वरात् कठिनस्तनद्वयेन पृष्ठत आघातविधायिनीं प्रति कस्याश्चित् सोत्कण्ठनर्मवचनमिदम्। इह पीडनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।
अतिकोपन इति। हे अतिकोपने अत्यन्तक्रुद्धप्रकृतिके! अपसर्तुं कथयत्येव भ्रुकुटीविधायित्वादित्याशयः। पुरतः अग्रगामिनी भव। यतो हि तवाघातवशादग्रे वर्तितुं न समर्थोऽस्मीति भावः। अत्यन्तावलोकेनोत्कण्ठया आघातेनाग्रे जिगमिषन्तीं प्रति कस्याश्चित्पुरःस्थायिन्या ईर्ष्यापूर्वककथनमिदम्।
मत्तेति। हे मत्सरिणि अन्यशुभद्वेषिणि ! 'मत्सरोऽन्यशुभद्वेष' इत्यमरः। अवलोकनविघ्नविधानादित्याशयः। एकाकिनी असहाया वातायनं गवाक्षं किं रुणत्सि रोधनं कुरुषे ? मह्यमपि स्थानं देहीत्यभिप्रायः। वातायनद्वारावरूद्धां प्रति साभिनिवेशं द्रष्टुमिच्छन्त्याः तत्स्थानमप्राप्तवत्याः कस्याश्चित् ईर्ष्यापूर्वकं वचनमिदम्।
अनङ्गेति। हे अनङ्गपरवशे मदनायत्ते ? कामाभिभूतेन लब्धमोहे इत्यर्थः, आत्मीयानात्मीयविचाराभावादित्याशयः। अत एवोक्तं मदीयमिति। उत्तरोयांशुकम् उत्तरीयवस्त्रम् उत्तरीयताम् उपनिवसतां नयसि प्रापयसि। आत्मीयभ्रान्त्यान्यदीयमुत्तरीयं गृहतीं प्रति कस्याश्चिन्नर्मवचनमिदम्।
रागेति। रागः चन्द्रापीडं प्रति स्नेह एव आसवो मद्यं तेन मत्ता उन्मादयुक्ता तत्सम्बुद्धौ हे रागासवमत्ते ! अनेकविधकरनयनादिसङ्केतविधानादित्याशयः। आत्मानं चन्द्रापीडं प्रति सस्नेहं चित्तं निवारय वारणं विधेहि, अन्यथा एतदाप्त्यभावेन बहुकालं पश्चात्तापमनुभविष्यसीत्यभिप्रायः। नानाविधभङ्गिविधायिनीं प्रति नर्मवचनमिदम्।
उज्झितेति। हे उज्झितधैर्ये चन्द्रापीडावलोकनोत्सुक्येन त्यक्तधैर्ये ! गुरुजनसमक्षं वेगेन गमनादि-
रागाच्छन्न नेत्रवाली, क्या तू अपनी सखियोंको भी नहीं देखती है। अरी नानाविधभङ्गीविकारपूर्णवाली, तू निष्प्रयोजन खिन्नचित्त होकर दुःखसे जीवन-धारण करती है। अरी झूठा विनय दिखानेवाली, छलपूर्वक देखनेसे क्या फल ? निःशङ्कभावसे (बेखटके) देख न। अरी उत्कृष्ट-यौवनवाली, तू अपने विशाल स्तनोंके आघातसे मुझे क्यों पीड़ा देती है। अरी अत्यन्तक्रुद्धस्वभाववाली (गुस्सैल), तू ही आगे हो जा। अरी अन्य-शुभद्वेषवाले, तू अकेली सब खिड़कीके द्वारको क्यों घेर लेती है। अरी कामके पराधीन होने वाली, तू मेरे दुपट्टेको अपना दुपट्टा
१. वल्गित । २. इष्यते । ३. दुःखकारणायासितहृदया । ४. विलोकय, ५. रागमत्ते ।