भारतकोश
संग्रह पर लौटें

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ
२४८कादम्बरी-[ कथायाम्-

गलितोत्तरीया विहस्यसे^१ जनेन। रागावृतनयने ! पश्यसि न सखीजनम्। अनेक-भङ्गिविकारपूर्णे ! दुःखमकारणायासितहृदया^३ जीवसि। मिथ्याविनीते ! किं व्यपदेशवीक्षितैः, विस्रब्धमालोकय^४। यौवनशालिनि ! किं पीडयसि पयोधरभारेण। अतिकोपने ! पुरतो भव। मत्सरिणि ! किमेकाकिनी रुणत्सि वातायनम्। अनङ्गपरवशे ! मदीयमुत्तरीयांशुकमुत्तरीयतां नयसि ? रागासवमत्ते^५ ! निवारयात्मानम्। उज्झितधैर्ये ! किं धावसि गुरुजनसमक्षम्।

रागावृतेति। रागेण चन्द्रापीडप्रीत्यतिशयेन आवृते आच्छादिते अन्यावलोकनावश्यकत्वे कृते इत्यर्थः। नयने लोचने यस्याः तत्सम्बुद्धौ रूपम्। अतएव सहचरीवर्गमपि नावलोकयसीति काकुः, सहसैवेदं तवानुचितमित्याशयः। एकाग्रलोचनां प्रति नर्मवचनमिदम्।

अनेकेति। अनेका बह्व्यो या भङ्गयः हस्तनेत्रादिसङ्केता एतद्विकाराः तैः पूर्णे भृते !, अकारणं चन्द्रापीडप्राप्यसम्भवान्निष्फलम् आयासितहृदया सोत्प्रासं खिन्नमानसा दुःखं क्लेशं यथा स्यात्तथा जीवसि प्राणान् धारयसे। एवञ्च प्रदर्श्य अनेकभङ्गीविकारान् तथापि चन्द्रापीडप्राप्तिस्ते कदापि न भवेत् तथा-सति सम्प्रति' हृदयस्यायासः दुःखमयं च जीवनं निष्प्रयोजनमेवेत्याशयः। इदमपि तथाविधां प्रति नर्मवचनम्।

मिथ्येति। हे मिथ्याविनीते असत्यविनयप्रकटिनि ! व्यपदेशवीक्षितैः व्याजनिरीक्षणैः किम्? अस्माभिस्तदवलोक्यमानत्वेन विपर्यासत्वनिश्चयान्न किञ्चिदपि प्रयोजनमित्याशयः, अत एव विस्रब्धं निःसन्देहम् आलोकय पश्य। एवं सति तवाप्यवलोकन सौविध्यं स्यात् अस्माकमपि व्याजनिश्चयेन त्वयि विरागो न भवेदित्याशयः। अन्यापदेशेनावलोकयन्तीं प्रति कस्याश्चिन्नर्मवचनमिदम्।

यौवनेति। हे यौवनशालिनि उत्कृष्टतारुण्यसंयुक्ते ! तदुक्तमभिधायककठिनपीनकुचवत्त्वादित्याशयः। पयोधरभारेण तथाविधकुचयोर्गुरुत्वेन भारवत्कुचद्वयेनेत्यर्थः, पीडयसि पृष्ठतः सङ्घर्षणेन पीडां जनयसि। अग्रगमनत्वरात् कठिनस्तनद्वयेन पृष्ठत आघातविधायिनीं प्रति कस्याश्चित् सोत्कण्ठनर्मवचनमिदम्। इह पीडनसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।

अतिकोपन इति। हे अतिकोपने अत्यन्तक्रुद्धप्रकृतिके! अपसर्तुं कथयत्येव भ्रुकुटीविधायित्वादित्याशयः। पुरतः अग्रगामिनी भव। यतो हि तवाघातवशादग्रे वर्तितुं न समर्थोऽस्मीति भावः। अत्यन्तावलोकेनोत्कण्ठया आघातेनाग्रे जिगमिषन्तीं प्रति कस्याश्चित्पुरःस्थायिन्या ईर्ष्यापूर्वककथनमिदम्।

मत्तेति। हे मत्सरिणि अन्यशुभद्वेषिणि ! 'मत्सरोऽन्यशुभद्वेष' इत्यमरः। अवलोकनविघ्नविधानादित्याशयः। एकाकिनी असहाया वातायनं गवाक्षं किं रुणत्सि रोधनं कुरुषे ? मह्यमपि स्थानं देहीत्यभिप्रायः। वातायनद्वारावरूद्धां प्रति साभिनिवेशं द्रष्टुमिच्छन्त्याः तत्स्थानमप्राप्तवत्याः कस्याश्चित् ईर्ष्यापूर्वकं वचनमिदम्।

अनङ्गेति। हे अनङ्गपरवशे मदनायत्ते ? कामाभिभूतेन लब्धमोहे इत्यर्थः, आत्मीयानात्मीयविचाराभावादित्याशयः। अत एवोक्तं मदीयमिति। उत्तरोयांशुकम् उत्तरीयवस्त्रम् उत्तरीयताम् उपनिवसतां नयसि प्रापयसि। आत्मीयभ्रान्त्यान्यदीयमुत्तरीयं गृहतीं प्रति कस्याश्चिन्नर्मवचनमिदम्।

रागेति। रागः चन्द्रापीडं प्रति स्नेह एव आसवो मद्यं तेन मत्ता उन्मादयुक्ता तत्सम्बुद्धौ हे रागासवमत्ते ! अनेकविधकरनयनादिसङ्केतविधानादित्याशयः। आत्मानं चन्द्रापीडं प्रति सस्नेहं चित्तं निवारय वारणं विधेहि, अन्यथा एतदाप्त्यभावेन बहुकालं पश्चात्तापमनुभविष्यसीत्यभिप्रायः। नानाविधभङ्गिविधायिनीं प्रति नर्मवचनमिदम्।

उज्झितेति। हे उज्झितधैर्ये चन्द्रापीडावलोकनोत्सुक्येन त्यक्तधैर्ये ! गुरुजनसमक्षं वेगेन गमनादि-


रागाच्छन्न नेत्रवाली, क्या तू अपनी सखियोंको भी नहीं देखती है। अरी नानाविधभङ्गीविकारपूर्णवाली, तू निष्प्रयोजन खिन्नचित्त होकर दुःखसे जीवन-धारण करती है। अरी झूठा विनय दिखानेवाली, छलपूर्वक देखनेसे क्या फल ? निःशङ्कभावसे (बेखटके) देख न। अरी उत्कृष्ट-यौवनवाली, तू अपने विशाल स्तनोंके आघातसे मुझे क्यों पीड़ा देती है। अरी अत्यन्तक्रुद्धस्वभाववाली (गुस्सैल), तू ही आगे हो जा। अरी अन्य-शुभद्वेषवाले, तू अकेली सब खिड़कीके द्वारको क्यों घेर लेती है। अरी कामके पराधीन होने वाली, तू मेरे दुपट्टेको अपना दुपट्टा


१. वल्गित । २. इष्यते । ३. दुःखकारणायासितहृदया । ४. विलोकय, ५. रागमत्ते ।

चन्द्रापीडावलोकने भावालाप०-२८ ] चन्द्रकला-विद्योतिनीसहिता। २५६

उल्लसत्स्वभावे ! किमेवमाकुलीभवसि ? मुग्धे ! निगूहस्व मदनज्वर-जनित-पुलकजालकम् । असाध्वाचरणे !^१ किमेवमुत्ताम्यसि ? बहुविकारे ! विविधाञ्चलनायासित-मध्यभागा वृथा खिद्यसे । शून्यहृदये ! स्वभवनान्निर्गतमपि नात्मानमवगच्छसि । कौतुकाविष्टे ! विस्मृतासि निश्वसितुम्^३ । अन्तःसङ्कल्प-रचित-सुरत-समागम-सुख-रस-निमीलित-लोचने ! समुन्मीलय लोचनयुगलम्, अतिक्रामत्ययम् । अनङ्ग-शर-प्रहार-मूर्च्छिते ! रविकरनिवारणाय

व्यामयः। गुरुजनानां श्वशुरादिपूज्यलोकानां समक्षं प्रत्यक्षं किं धावसि अतिवेगाच्चलसि । तयाविधां प्रति ईर्ष्यापूर्वकवचनमिदम् ।

उल्लसदिति । उल्लसन् आविर्भवन् स्वभावो मनोविकारो यस्याः तत्सम्बुद्धौ हे उल्लसत्स्वभावे ! व्यग्रत्वादित्याशयः । एवम् अमुना प्रकारेण किं किमर्थम् आकुलीभवसि व्याकुलतां भजसे । चन्द्रापीडसं-योगस्तेनैव स्यादतोऽयमाकुलीभावो निरर्थक एवेत्याशयः । तयाविधां प्रति कस्याश्चित् सोत्कण्ठपरिहास-वचनमिदम् ।

मुग्ध इति । हे मुग्धे मृदुले ! प्रकटीभवतोऽपि रोमाञ्चसमूहस्यानवबोधादित्याशयः । मदनज्वरेण कामसन्तापेन जनितम् उत्पन्नं पुलकजालकं रोमाञ्चसमूहं निगूहस्व वस्त्राच्छादनेन संवृतं कुरु । अन्यथा जनोपहासिष्यस इत्यभिप्रायः । पूर्ववदेव तयाविधां प्रति वचनमिदम् ।

असाध्विति । हे असाध्वाचरणे असच्चरिते परपुरुषार्थं व्याकुलत्वादित्याशयः । एवम् अनेन प्रकारेण सातिशयमित्यर्थः । किं किमर्थम् उत्ताम्यसि व्यग्रा भवसि । पातिव्रत्यविरुद्धमेतदिति भावः । करनयनादि-सङ्केतविशेषावलोकनेनानुमितव्यग्रभावां प्रति ईर्ष्यापूर्वकवचनमिदम् ।

बह्विति । बहवोऽनेके विकाराः शृङ्गारभावा यस्याः सा तत्सम्बोधने हे बहुविकारे ! गात्रविक्षेपादि-मत्त्वादित्याशयः । विविधेन अनेकेन अञ्चलनेन मध्यभागसञ्चालनकटाक्षपातादिना आयासितः खेदितः मध्यभागः कटिदेशो यया सा तथोक्ता सती वृथा व्यर्थं खिद्यसे परितप्यसि, चन्द्रापीडाप्राप्त्यसम्भवा-दित्याशयः कटीदेशस्यैवात्यन्ततनुत्वात्केवलं तद्दुःखिः सङ्गच्छते । तयाविधां प्रति नर्मवचनमिदम् ।

शून्येति । शून्यं विषयान्तरज्ञानरहितं हृदयं चित्तं यस्याः तत्सम्बुद्धौ हे शून्यहृदये ! चन्द्रापीडं प्रत्येव दत्तचित्तत्वादित्याशयः । स्वभवनात् निजगृहात् निर्गतं बहिर्निःसृतमपि आत्मानं स्वशरीरं नावगच्छसि न जानासि स्वभवनाद्वहिर्भवन्तीं प्रति सोत्कण्ठनर्मवचनमिदम् ।

कौतुकेति । कौतुकेन चन्द्रापीडरूपावलोकनकुतूहलेन आविष्टम् आकृष्टं चित्तं यस्याः तत्सम्बुद्धौ हे कौतुकाविष्टे ! विषयान्तरानवगमादित्याशयः । अत एवोक्तम् निःश्वसितुमपि निःश्वासं ग्रहीतुमपि विस्मृतासि इति । निर्निमेषत्वेन तर्कितैकाग्रतां प्रति सोत्कण्ठनर्मवचनमिदम् ।

अन्तरिति । अन्तः सङ्कल्पेन मनोव्यिसायेन रचितं कल्पितं यद्-सुरतसमागमसुखं चन्द्रापीडेन सह सम्भोगप्राप्त्यानन्दः तस्य रसेन आस्वादानुभवेन निमीलिते सङ्कुचिते लोचने नयने यया तत्सम्बुद्धौ रूपम् । तयाविधरसानुभवं विना सम्प्रति लोचनमुद्रणमसङ्गत्वादित्याशयः । लोचनयुगलं नेत्रद्वयं समुन्मीलय विकासय, अन्यथाऽयं चन्द्रापीडो लोचनपयगोचरो न भवेत् तदन्तैय गमनात् तथा सति विलक्षणावलोकनजन्यानन्दो न स्यादित्याशयः । निमीलितलोचनां प्रति कस्याश्चिन्नर्मवचनमिदम् ।

अनङ्गेति । अनङ्गस्य कामदेवस्य यः शरप्रहारो बाणाघातस्तेन मूर्च्छिता मूर्च्छापन्ना निश्चेतनेत्यर्थः ।


क्यों बना लेती है। अरी प्रेमके मत्तवाली, जरा तो अपने मनको रोक। अरी अधीर स्वभाववाली, गुरुजनों (बड़े बूढ़ों) के सामने क्यों दौड़ी जाती है। अरी आविर्भूतमनोविकारवाली, इतना व्याकुल क्यों होती है ? अरी सरल स्वभाववाली, कामज्वरसे उत्पन्न हुए रोमाञ्चसमूहको वस्त्रसे ढक तो ले। अरी, दुराचारिणी इतनी उतावली क्यों होती है ? अरी, बहुत विकारवाली, तू अनेक प्रकारसे अङ्गसञ्चालन द्वारा मध्यभागको (अपनी कमरको) कष्ट उत्पन्न कर व्यर्थ परिश्रम करती है। अरी शून्यहृदयवाली तू अपने घरसे बाहर होकर आ गई है, इसे भी नहीं समझती है। अरी, चन्द्रापीडरूपदर्शनकौतूहलचित्तवाली तू सांस लेना भी भूल गई है। अरी, अन्तःसङ्कल्परचित सुरतसमागमके सुखसे आँखें मीचनेवाली तू आँखें खोल, देख, ये जो दृष्टिभय अतिक्रमण कर जा रहे हैं। अरी कामवाणके प्रहारसे मूर्च्छावाली, धूप रोकनेके लिए मस्तकके ऊपर उत्तरीयकञ्चुक (दुपट्टा) का पल्ला डाल। अरी


१. संह्लादरणे ! २. विविधाङ्गमञ्चलन० विविधाङ्गमङ्गलचलन । ३. निःश्वसितुम् । ४. ०रत०रति ।

२६०कादम्बरी-[कथायाम्-

कुरु शिरस्युत्तरीयांशुकपल्लवम्। अयि सतीव्रत-ग्रहगृहीते ! द्रष्टव्यमपश्यन्ती वञ्चयसि लोचनयुगलम्। अघन्ये !¹ हतासि परपुरुष-दर्शन-परिहार-व्रतेन²। प्रसीद, उत्तिष्ठ सखि ! पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीत-मकरध्वजं मकरध्वजम्। अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कानिपतित इव शशिकरकलापो मालतीकुसुमशेखरोऽभिलक्ष्यते। एतदस्य कर्णाभरण-मरकत-प्रभा-श्यामायितम् उपचित-विकच-शिरीष-कुसुम-कर्ण-पूर-

या सा तत्सम्बोधने हे अनङ्गशरप्रहारमूर्च्छिते ! विद्यमानक्लेशानवगमादित्याशयः । रविकिरणनिवारणाय सूर्यतापानोदनाय उत्तरीयांशुकपल्लवम् उत्तरीयवसनविस्तारम् शिरसि मस्तके कुरु विधेहि । घर्मक्लिष्टां प्रति नर्मवचनमिदम् ।

अयीति । अयीति कोमलामन्त्रणे । सत्याः पतिव्रतायाः यद्व्रतं स्वान्यतिरिक्तस्यानवलोकनरूपो नियमः स ग्रहो भूतविशेषः तेन गृहीता अभिभूता या तत्सम्बुद्धौ हे सतीव्रतगृहीते ! भूतावेशमन्तरा एवंविधरूपावलोकनवैमुख्यं न भवेदित्याशयः । अतएव द्रष्टव्यम् अवलोकनीयमद्भुतरूपिणं चन्द्रापीडमित्यर्थः, अपश्यन्ती अनवलोकयन्ती लोचनयुगलं नेत्रद्वयं वञ्चयसि प्रतारयसि अन्यथैतादृशावलोकनासम्भवादित्याशयः । कस्याश्चिन्नायिकाभिः सह समेत्य परपुरुषावलोकनात्, सतीत्वव्यपगमभयेनानवलोकयन्तीं प्रति विश्वासपूर्वकं वचनमिदम् ।

अधन्य इति । हे अघन्ये अभाग्ये ! सति भाग्येऽवलोकनावश्यंभावादित्याशयः । परपुरुषदर्शनस्य स्वपतिभिन्नपुरुषावलोकनस्य परिहारः परित्यागः व्रतं नियमः तेन तादृशेन हता बहुकालं प्रतारितेति अवलोकनीयानवलोकनादित्याशयः । पूर्ववदेव कथनमिदम् ।

प्रसीदेति । प्रसीद प्रसन्ना भव, हे सखि ! उत्तिष्ठ उत्थिता भव, रत्या स्वस्त्रिया विरहितं वियुक्तम् चन्द्रापीडस्यापि स्वपत्नीरहितत्वाद्विशेषणमिदम् । न गृहीतो नात्तः मकरध्वजो मकरसंज्ञकजलजीवाङ्कितो ध्वजो येन तं तादृशम् । चन्द्रापीडस्यापि तथाविधध्वजाभावाद्विशेषणमिदम् । साक्षात् मकरध्वजं कामदेवमिव चन्द्रापीडं पश्य अवलोकय । सौन्दर्यमोहेनोपविशन्तीं प्रति कस्याश्चित् सख्या वचनमिदम् ।

अयमिति । अलयो भ्रमराः तेषां कुलं समूहः तद्वत् नीले तथाविधकचाच्छादितत्वादत्यन्तश्यामलवर्ण्णे अस्य चन्द्रापीडस्य शिरसि मस्तके, तिमिरमन्धकारः तच्छङ्कया तद्भ्रमेण तिमिरभ्रमजनितत्वन्निराकरणार्थवेत्यर्थः । निपतितः शशिकरकलाप इव चन्द्ररश्मिनिकर इव अयं पुरो दृश्यमानो मालतीकुसुमान् मालतीपुष्पाणां शेखरः लग्नशिरोऽलङ्कारः सितातपत्रान्तरेण शुभ्रच्छत्राभ्यन्तरेण अभिलक्ष्यते समवलोक्यते । अभिलाषपूर्वकवचनमिदम् ।

'अलिकुलनील' इत्यत्र लुप्तोपमा, तिमिरशङ्केत्यादौ भ्रान्तिमान्, जात्युत्प्रेक्षा चेति परस्परमेतेषां अङ्गाङ्गिभावेन सङ्करः ।

एतदिति । कर्णाभरणं कर्णभूषणं तन्मरकतं हरितमणिः तस्य या प्रभा कान्तिः तया श्यामायितं श्यामवदाचरितम् एतत् पुरोऽवलोक्यमानम् अस्य चन्द्रापीडस्य कपोलतलं गण्डयुगलोर्ध्वदेशः, उपचितो निर्मितः विकचस्य विकसितस्य शिरीषकुसुमस्य कर्णपूरः कर्णभूषणं यत्र तत्तथोक्तमिव आभाति शोभते । शिरीषपुष्पस्य श्यामत्वात् कपोलतलप्रभापतनसम्भवाच्चेत्याशयः । साभिलाषेयमुक्तिः ।

'श्यामायितम्' इत्यत्र क्यङ्ङ्गतोपमालङ्कारः, उपचितेत्यादौ क्रियोत्प्रेक्षा चेति द्वयोः परस्परमङ्गाङ्गिभावः सङ्करः ।


सतीव्रतरूपी ग्रहसे पीडावाली, देखने योग्य वस्तु न देखकर तू अपने नेत्रोंको वञ्चित करती (ठगती) है । अरी अभागिनी, परपुरुषका मुँह न देखनेकी प्रतिज्ञा करके तू ठगी गई है । सखि ! प्रसन्न हो, उठ और इस रतिविहीन मकरध्वज-रहित साक्षात् कामदेवके समान कुमारको देख । भ्रमरसमूहके समान अत्यन्त कृष्णवर्ण मस्तकके ऊपर अन्धकार-भ्रमसे झुके हुए चन्द्रमाकी किरणोंके कलापके समान इनके यह चमेलीके फूलोंका मौर, श्वेतवर्ण छत्रके भीतर देखनेमें आ रहा है । इनके ये गण्डयुगल, कर्णभूषणके मरकतमणिकी प्रभासे श्यामवर्ण होकर दीप्ति पा रहे हैं, अत एव प्रतीत हो रहा है, मानो खिले हुए शिरीषके फूलका कर्णाभरण (कनफूल) बनाकर कानपर दिया हुआ है।


१. नयने । २. ...'दर्शनव्रतेन, परिहारव्रतेन ।

चन्द्रापीडावलोकने भावालाप०-२८ ] चन्द्रकला-विद्योतिनीसहिता । २६१

मिव कपोलतलमाभाति। अयमस्य हारान्तर्निविष्टारुण-मणि-किरण-कलापच्छलेन हृदयं विवि- क्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतदनेन चामरकलापान्तरैरित इव वीक्षितम्¹ एतत् किमपि वैशम्पायनेन सह समामन्त्र्य² दशन-मयूख-लेखा-धवलीकृते³-दिक्‌चक्रवालं हसितम् । एषोऽस्य शुक-पक्षति-हरित-रागेणोत्तरीयांशुकप्रान्तेन वलाहकस्तुरग-खुर-चलन- जन्मानं लग्नम्⁴ अग्रेकेशेषु रेणुमपहरति । अयमनेन लक्ष्मीकर-कमल-कोमल-तलः समु- त्क्षिप्य तिर्य्यक् तुरङ्गमस्कन्धे निक्षिप्तश्चरणपल्लवः । सलीलमयमेन च ताम्बूल-याचनार्थ- मुत्तानिततलैः कोमलैर्दीर्घाङ्गुलिः आताम्र-पुष्कर-शोभी गजेनेव शैवाल-कवल-लालसः⁷

अयमस्येति । अयं पुरोऽवलोक्यमानः, अभिनवयौवनस्य नूतनतारुण्यस्य रागः तत्समयसम्भवोऽनु-राग एव रागो रक्तिमा, हारस्य मुक्ताकलापस्य अन्तर्निविष्टाः मध्यप्रविष्टा ये अरुणमणयः पद्मरागाः तेषां किरणकलापच्छलेन रश्मिसमूहव्याजेन विद्यमान इत्यर्थः, हृदयं चित्तं विवक्षुः प्रवेष्टुमिच्छुरिव सन् बहिः परिस्फुरति सम्प्रत्यपि अन्तर्गमनाभावाद् हृदयोपरि प्रसर्पति । वक्षःस्थले रक्तकान्तिः समीक्ष्यते, नासाय-रुगमणिकान्तिः, किन्तु तारुण्यसम्भवानुरागो हृदयं प्रवेष्टुमिच्छुः सम्प्रत्यपि वहिस्तिष्ठतीति स्पष्टार्थः । इदमप्यभिलाषापूर्वकं वचनम् । इह सापह्नवोन्मेक्षा, अभेदाध्यवसायादतिशयोक्तिश्च, अनयोर्मिथोऽङ्गाङ्गि-भावेन सङ्करः।

एतदिति । अनेन चन्द्रापीडेन चामरकलापस्य सञ्चाल्यमानचामरसमूहस्य अन्तरैः मध्यप्रदेशैः इत एव मां प्रत्येव एतद् वीक्षितम् एतदिति दर्शनक्रियायाः परामर्शः । इदं च सविलासमन्मथं कस्याश्चिद्वचनम् ।

एतदिति । वैशम्पायनेन सह किमपि समामन्त्र्य सम्भाषणं विधाय, दशनानां दन्तानां या मयूखलेखा रश्मिपङ्क्तिः तया धवलीकृतं शुभ्रीकृतं दिक्कचक्रवालं दिङ्मण्डलं यत्र क्रियायां तद्यथा स्यात्तथा एतद् हसितम् अयमनेन हासः कृतः समन्मयेयमुक्तिः । इह दिक्कचक्रवालस्य धवलीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।

एष इति । एष बलाहकः तत्संज्ञकः सेनानायकः, शुकपक्षतेः कीरपतत्रिपक्षमूलस्येव हरितो नीलो रागो वर्णो यस्य तेन तादृशेन उत्तरीयांशुकप्रान्तेन, संव्यानवस्त्रप्रान्तेन तुरगाणाम् अश्वानां ये खुराः शफाः तेषां चलनाद् गमनाद् जन्म उत्पत्तिर्यस्य तं तादृशम्, अस्य राजकुमारस्य चन्द्रापीडस्य अग्रेकेशेषु कचाग्रेषु लग्नं संसक्तं रेणुं धूलिम् अपहरति दूरीकरोति । साभिलापमिदं वचनम् । इह 'शुकपक्षतिहरितरागेण' इत्यत्र लुप्तोपमालङ्कारः ।

अयमिरिति । अनेन चन्द्रापीडेन, लक्ष्म्याः पद्मा या यत् करकमलं पाणिसरोरुहं तद्वत् कोमलं मृदुतलं यस्य स तादृशः अयं चरणपल्लवः पादकिसलयः, तिर्यक् समुत्क्षिप्य तिर्यग्भावेनोत्थाप्य तुरङ्गमस्कन्धे सलीलं यथा स्यात्तथा निक्षिप्तः स्थापितः । प्राग्वदेव कथनमिदम् । इहापि 'लक्ष्मीकरकमलकोमलतल' इत्यत्र लुप्तोपमालङ्कारः ।

सलीलमिति । गजेन हस्तिना आताम्रेण ईषद्रक्तवर्णेन पुष्करेण शुण्डाग्रेण शोभते इति स तादृशः तथा शैवालकवले शैवालग्रासोपादने लालसो लोलुभः गजस्य लोलुभत्वात् तच्छुण्डाया अपि लोलुभत्वं गौणम्


इसकी नई जवानी का अनुराग (रंग) मानो हृदयमें प्रवेश करनेकी इच्छा कर, मुक्तामाला (हार) के अन्तर्गत पद्मरागमणियोंकी किरणोंके बहाने अब भी बाहर ही प्रकाश पा रहा है। यह उसने इन चामरोंके भीतर देकर इस तरफ ही मानो दृष्टिपात क्या : वैशम्पायनके साथ किसी विषयकी बातचीत कर दन्त-किरणोंसे दिशाओंको सफेद कर यह हँसा । यह बलाहक (सेनापति), शुक (तोते) के पंखके समान हरे अपने उत्तरीयवस्त्र (दुपट्टा) के प्रान्त-द्वारा (कोरसे) घोड़ेके खुरोंमेंसे उड़-उड़ कर इसके आगेके बालोंपर पड़ी हुई धूलको पोंछता है। यह उसने, लक्ष्मीदेवीके करकमलके समान कोमल-तल-सम्पन्न अपने चरण-पल्लवको तिर्यग्भावसे (तिरछा कर) ऊँचा उठाकर घोड़ेके कन्धे पर आड़ा डाला। हाथी जिस प्रकार शैवालका ग्रास ग्रहण करने के समय इच्छासे अपना मूँड फैलाता है, उसी प्रकार इसने ताम्बूल लेनेके लिए अपने कोमल और लम्बी उँगलीवाले, एवं कुछ-कुछ लाल कमल-कोशके


१. एतदलकचामरकलापान्तरेरितविरलवीक्षितम्, अनेकचामरकलापान्तरितमस्य वीक्षितम् । २. समा-मन्त्रयतः । ३. ॰॰॰धवलित॰॰॰ । ४. आलमन्, आलम्बकेशेषु । ५. ॰॰॰तल, करतल । ६. क्वचिद् 'कोमल' इति पदं नास्ति । ७. ॰॰॰कमलग्रासलालसः, कमलग्रासवाञ्छया ।

२६२कादम्बरी-[ कथायाम्-

प्रसारितः करः। धन्या सा, या लक्ष्मीरिव निर्जितकमलं करतलमस्य वसुन्धरा-सपत्नी ग्रहीष्यति। धन्या च देवी विलासवती, सकलमहीमण्डल-भार^१-धारणक्षमः ककुभा दिग्गज इव गर्भेण ययाऽयव्यूढः।^२

इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचनपुटैः, आहूयमान इव भूषणरवैः, अनुगम्यमान इव हृदयैः, निवध्यमान इव^३ आभरण-रत्न-रश्मिरज्जुभिः, उपह्रियमाण इव नवयौवनवलिभिः, शिथिल^४-भुजलता-विगलित-धवल-वलय-

वृत्त्याऽवगन्तव्यम् । लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि सः' इति रभसः। करः शुण्डादण्ड इव, अनेन चन्द्रापीडेन, उत्तानितम् ऊर्ध्वीकृतं तलं यस्य स तादृशः, कोमला मृदुला दीर्घाश्च अङ्गुलयो हस्तावयवा यस्य स तादृशः, तथा आताम्रम् ईषद्रक्तवर्णं यत् पुष्करं तद्वत् शोभत इति सः तादृशः, करो हस्तः, ताम्बूलयाचनार्थं नागवल्लीदलयाचनार्थं सलीलं सविलासं यथा स्यात्तथा प्रसारितो विस्तारितः। इदमपि पूर्ववदेव कथनम् । इह पूर्णोपमा, यद्वा श्लेषसङ्कीर्णोपमा ।

धन्येति । या ललना वसुन्धराया मेदिन्याः सपत्नी सती, अस्याश्चिरसम्पत्स्यमानवसुन्धराधिपतित्वादित्याशयः । लक्ष्मीरिव राज्यश्रीरिव निर्जितकमलं पद्मादपि अतिरमणीयमित्यर्थः । अस्य चन्द्रापीडस्य करतलं पाणिं ग्रहीष्यति विवाहसमय इति शेषः, सा धन्या सैव पुण्यशीला परम सौभाग्यशालिनीत्याशयः । सकाममिदं वचनम् । इहोपमा ।

ननु तच्छब्दानिर्दिष्टवाक्यस्य विधेयत्वेन पूर्वं निर्देशो नोचितः तथा सति 'न्यक्कारो ह्ययमेव ने यदरयः' इतिवत् वाक्यगतविधेयाविमर्शदोषप्रसक्तिरिति चेन्मैवम्, 'धन्या सा' इत्यस्य 'ग्रहीष्यति' इत्यस्याग्रे पाठविधानेन हतिविरहात् ।

धन्येति । यथा विलासवत्या, ककुभा लाशया दिग्गजः दिद्दन्ती इव, सकलमहीमण्डलस्य समस्तभूमण्डलस्य यद्धारधारणं शासनव्यापारसञ्चालनं गुरुत्वधारणञ्च, तत्र क्षमः समर्थः, अयं चन्द्रापीडः गर्भेण उदरेण अन्तर्गतैन च ऊढः धारितः । अभिलाषपूर्वकं कथनमिदम् । पूर्णोपमा । इह हि पूर्ववन्न विधेयाविमर्शदोषः उत्तरवाक्यगतयच्छब्दस्य तच्छब्दापेक्षाभावात् ।

इत्येवमिति । इति समाप्तौ 'इति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः । एवंविधानि पूर्वोक्तस्वरूपाणि एभ्यो भिन्नान्यनुक्तानि च वचनानि च वदन्तीनाम् अभिदधतीनां तासां पौराङ्गनानां लोचनपुटैः नेत्रयुगलैः आपीयमान इव इत्येवं सर्वत्रान्वयः । अपि च आभरणरत्नानां भूषणमणीनां रश्मयः किरणा एव रज्जवः ताभिः निबध्यमान इव । तथा नवयौवनान्येव नूतनतारुण्यान्येव वलय उपादानद्रव्याणि तैः उपह्रियमाण इव उपहारपात्रीक्रियमाण इव आदरेण दानस्पृहत्वादित्याशयः । तथा शिथिलाभ्यः मदनाविर्भावात् त्रस्ताभ्यः भुजलताभ्यः बाहुवल्लीभ्यः विगलितः च्युतः, धवलानां रजतभयत्वान्मणिमयत्वाद्वा श्वेतानां वलयानां कटकानां निकरः तद्रश्मिजालमित्यर्थः, येषु तैः तादृशैः कुसुममिश्रैः


समान शोभित करकमल को उत्तानित (चित्त) कर लीला के साथ फैलाया। वह रमणी ही धन्य है, जो कि- पृथिवी की सपत्नी होकर राजलक्ष्मी के समान इसका पद्मजयी (कमल से भी अधिक कोमल) हाथ का ग्रहण करेगी। दिशा जिस प्रकार दिग्गज को गर्भ में धारण करती है, उसी प्रकार जिसने, समस्त पृथिवी-मण्डल का भार वहन करने योग्य इस चन्द्रापीड को अपने गर्भ में रक्खा था, वह देवी विलासवती भी धन्य है।'

पुरवासिनी युवतियां इस प्रकार तथा इसी तरह के अन्यान्य वचन बोलने लगीं, उस समय उनकी आंखें मानों, चन्द्रापीड का पान करती थीं; नूपुरों के शब्द मानो उसे बुलाने लगे, मन मानो उसके पीछे-पीछे जाने लगा, अलङ्कार-स्थित-रत्नों की किरण-रूपी रस्सियों मानो उसे बाँध रही थीं, और वे नवयौवनरूप बलिदान द्वारा चन्द्रापीड को मानो पूजने लगीं। एवं विवाह की अग्नि में जिस प्रकार लाजा (धान की लावा) का निक्षेप होता है, उसी प्रकार लज्जातिपूर्ण


१. क्वचित् 'भार' इति पाठो नोपलभ्यते ।
२. ...दिग्गज इव यया च व्यूढः, गर्भेण दया व्यूढः, गर्भेण दयाऽयं व्यूढः ।
३. अनुबध्यमान इव ।
४. शिथिलित....।

राजवाटीवर्णन-२९ ] चन्द्रकला-विद्योतिनीसहिता । २६३

निकरैः¹ पदे² पदे इव विवाहानल इव कुसुममिश्रै³र्लाजाञ्जलिभिरवकीर्यमाणश्चन्द्रापीडो राजकुलसमीपमाससाद ।

क्रमेण च यामावस्थिताभिः अनवरत-करटस्थल-विगलित-मद-मसीपङ्क-करीभिः⁴ अञ्जनगिरिमालामिलिनाभिः कुञ्जर-घटाभिरन्धकारितदिङ्मुखतया जलधरदिवसायमानम्, उद्दण्ड-धवलानपत्रसहस्रसङ्कटम्, अनेकद्वीपान्तरागतदूतशत-समाकुलं⁵ राजद्वारमासाद्य-तुरङ्गमादवततार ।

अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य पुरः सविनयं प्रस्थितेन वलाहकेनो-


पुष्पसंयुक्तैः लाजाञ्जलिभिः अञ्जलिपूर्णधानाभिः विवाहानल इव उपयमनसामयिकवह्रिरिव, पदे पदे प्रतिपदक्षेपम् अवकीर्यमाणः ताभिः पौराङ्गनाभिरभिवृष्यमाणः, चन्द्रापीडः राजकुलसमीपं राजवाव्यान्तिकम् आससाद प्राप। शास्त्रोद्देशानुसारेण विवाहकाले तदग्नेरुपरि लाजाक्षेपः, देशाचारानुसारेण राजागमनेऽपि लाजाक्षेपः इति द्वयोः सादृश्यम् । तथा च कालिदासोऽपि—

'अवाकिरन् बाललताप्रसूनैराचारलाजैरिव पौरकन्याः।' इहोपमालङ्कारः ।

क्रमेणेति । क्रिश्चेति चार्थः। यामेषु अवस्थिताभिः प्रतिप्रहरं भिन्नभिन्नरूपेण वर्तमानाभिः । अनवरतं निरन्तरं करटस्थलेभ्यः कपोलभागेभ्यः विगलिताः च्युताः मदा दानवारीण्येव मसीपङ्काः गाढमस्यः श्यामतासादृश्यात्, अथवा तथाविधमदाः मसीपङ्का इव तान् कुर्वन्ति विदधत इति ताभिः तादृशीभिः, अञ्जनस्य कज्जलस्य गिरिः पर्वतः तस्य माला पङ्किः तद्वत् मलिनाभिः कृष्णवर्णाभिः कुञ्जरघटाभिः राजनिकरैः करणेः, अन्धकारितानि समुत्पन्नान्धकाराणि दिङ्मुखानि दिग्वदनानि यस्य तस्य भावः तया कारणेन, जलधरदिवसायमानं दुर्द्दिनवदाचरत् । उद्दण्डानाम् उत्थापितदण्डानां धवलातपत्राणां श्वेतच्छत्राणां सहस्रेण निकरेण सङ्कटं व्याप्तम्, तथा अनेके विविधा ये द्वीपान्तरा देशान्तराः तेभ्य आगतानां निजनिजाधिपत्यफलोपपत्तये उपस्थितानां दूतानां सन्देशहारकाणां शतेन वृन्देन, समाकुलं व्याप्तं प्रवेशादेशापेक्षया तेषां तत्र वर्तमानत्वादित्याशयः । राजद्वारम् आसाद्य प्राप्य तुरङ्गमात् अश्वात् अवततार अवतीर्णः ।

इह 'अनवरते' त्यादौ ज्ञापकनिवारकयुक्त्यनुपलम्भात् उपमारूपकयोः, सन्देहसङ्करः । 'अञ्जनगिरिमाले' त्यादौ व्यङ्गतोपमालङ्कारः ।

अवतीर्येति । अपि चेति चार्थः । चन्द्रापीडः अवतीर्य तुरङ्गमादुत्तीर्य, करतलेन हस्ततलेन करे वैशम्पायनम अवलम्ब्य मन्त्रिसुतस्य करं धृत्वेत्यर्थः, सविनयं विनयसहितं यथा स्यात्तथा पुरः प्रस्थितेन अग्रे गन्तुं प्रवृत्तेन बलाहकेन तत्संज्ञकेन सेनानायकेन उपदिश्यमानमार्गः प्रदर्श्यमानप्रवेशपथः सन्, पुञ्जीभूतम् अत्यन्तविस्तृतत्वात् सर्वविश्ववस्त्वारायत्वान्न एकत्र समवेतं त्रिभुवनमिव त्रिजगदिव विद्यमानं राजकुलं विवेशेति सुदूरस्थाचिन्त्या क्रियया सम्बन्धः । इह 'त्रिजगदिव' इति जात्युत्प्रेक्षालङ्कारः ।


कर फूलोंसे मिली हुई लाजाओंको पद-पद पर चन्द्रापीडके शरीरके ऊपर निक्षेप करती (बिखेरती) थीं, उस समय उनके शिथिल भुजलताओँसे गिरे सफेद कङ्कणकी किरणें उस लाजाके साथ मिलनी थीं; इस रूपसे .चन्द्रापीड राजभवनके पास आ पहुँचा ।

चन्द्रापीड क्रमसे राजद्वार पर पहुँच कर घोड़े परसे उतरा । वहाँ प्रत्येक प्रहरमें परिवर्तित होकर (बदल कर ) बहुत हाथी रहते थे; उनके गण्डस्थलमैँसे बराबर गाढ़ मसीपङ्कके समान मदजल विगलित होते थे, एवं वे कज्जलमय पर्वतके समान काले (मलिन ) थे, जिसके द्वारा समीपवर्ती दिशाओंके मुख पर अँधेरा हो जानेसे वह राजद्वार मेघाच्छन्न दिनके समान दिखाई देता था, एवं ऊँचे उठे दण्डवाले बहुतस्र श्वेत छत्रोंसे परिपूर्ण था और अन्यान्य अनेक द्वीपोंसे आए सैकड़ों खड़े राजदूतोंसे व्याप्त था ।

चन्द्रापीड, घोड़े परसे उतर कर अपने हाथसे वैशम्पायनका हाथ पकड़कर राजभवनमें प्रवेश किया, उस समय बलाहक (सेनापति), विनयके साथ आगे-आगे जाकर मार्ग बतलाना जाता था । वह राज-भवन एकत्रित


१. ॰निकरैः । २. मिश्र । ३. क्वचित् 'वि' इत्यधिकः पाठो न विद्यते । ४. नभीरुचिभिः, नसीमट्ट-धारिभिः । ५. क्वचित् 'समाकुलम्' इत्यस्य स्थाने 'सङ्कुलम्' इति पाठो दृश्यते ।

२६४ | कादम्बरी- | [ कथायाम्-

पदिश्यमान-मार्गः त्रिभुवनमिव पुञ्जीभूतम् , आगृहीत-कनक-वेत्रलतैः सित-वारबाणैः^१ सिता- ङ्गरागैः^२ सितकुसुमशेखरैः सितोष्णीषैः सितवेषपरिग्रहतया श्वेतद्वीपसम्भवैरिव कृतयुगपुरु- षैरिव महाप्रमाणैर्दिवानिशमालिखितैरिव उत्कीर्णैरिव तोरणस्तम्भनिषण्णैर्द्वारपालैरनुज्झितद्वा- रदेशम्, अनेक-सञ्जवन^३-चन्द्रशाला^४-विटङ्क-वेदिका-सङ्कट-शिखरैरभ्रङ्कषैरुपहसित-कैलास- शैल-शोभैः^५ अमलसुधावदातैः सप्रालेयशलैरिमिव^६ महाप्रासादैः, अनेक-वातायन-विवर-विनि- र्गत-युवति-भूषण-किरण^७-सहस्रतया कनकश्शृङ्खलाजालकेनेवोपरिविस्तीर्णेन^८ विराजमानम् ,

आगृहीतेति । इत आरभ्य यानि तृतीयान्तानि पदानि तानि अग्रेतनस्य 'द्वारपालैः' इत्यस्य विशे- षणानि बोध्यानि । आगृहीता आत्ताः कनकवेत्रलताः सुवर्णवेष्टितवेतसयष्टयो यैस्तैस्तादृशैः । सिताः श्वेताः वारबाणाः कञ्चुका येषां तैस्तादृशैः । सिताङ्गरागैः शुभ्रानुलेपनैः सितकुसुमशेखरैः शुभ्रपुष्पमुकुटैः सितोष्णीषैः श्वेतमूर्धवेष्टनैः । सितवेषपरिग्रहतया श्वेतनेपथ्याङ्गीकारतया श्वेतद्वीपसम्भवैरिव श्वेतद्वीपो- त्पन्नैरिव तेषां सर्वशुक्लत्वादित्याशयः । कृतयुगपुरुषैः सत्ययुगीयलोकैरिव महाप्रमाणैः अत्युच्चस्वरूपिभिः, आलिखितैरिव चित्रितैरिव निरन्तरसावधानतया निष्क्रियत्वादित्याशयः । उत्कीर्णैरिव बहिरुद्वारस्तम्भेषु क्षोदितैरिव गाढसंलग्नत्वादित्याशयः । तोरणस्य बहिर्द्वारस्य स्तम्भेषु निषण्णैः तदाधारत्वेनावस्थितैः द्वार- पालैः दौवारिकैः दिवानिशं रात्रिन्दिवम् अनुज्झितः अपरित्युक्तः द्वारदेशो यस्य तत्तादृशम् ।

अनेकेति । अनेका अधिकतराः, संजवनानि चतुःशालानि, चन्द्रशाला ऊर्ध्ववर्त्तिभवनानि, विटङ्कानि कपोतपालिकाः, वेदिका उपवेशनाद्यर्थं बद्धभूमयश्च ताभिः सङ्कटानि व्याप्तानि शिखराणि ऊर्ध्वप्रदेशा येषां तैस्तादृशैः । 'सञ्जवनन्द्विदम् । चतुःशालम् ।' इति, 'कपोतपालिकायां तु विटङ्कं पुंस्रपुंसकम्' इति चामरः । 'शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि' इति रभसः । अभ्रं गगनं कषतीति तैः व्योम- व्यापिभिः, उपहसिता आपेक्षिकाधिकधवलत्वान्न्युब्जताम्पादादृता कैलासशैलस्य हिमालयपर्वतस्य शोभा- यैस्तैः तादृशैः । अमलाभिः निर्मलाभिः सुधानिः चूर्णलेपैः अवदाताः शुभ्राः तैस्तादृशैः । महाप्रासादैः विशा- लाट्टालिकाभिः करणैः प्रालेयशैलैर्हिमालयपर्वतैः सहेति सप्रालेयशैलं तद्विव विद्यमानम् इति राजकुलस्य विशेषणम् । तथा विधाट्टालिकानां कैलासाचलसदृशत्वादित्याशयः । इह **'सप्रालेयशैलमिवे'**त्युत्प्रेक्षा ।

अनेकेति । अनेकेभ्यो बहुतेरेभ्यः वातायनविवरेभ्यः गवाक्षच्छिद्रेभ्यो विनिर्गतं विनिःसृतं युव- तिभूषणकिरणानां तरुण्यलङ्काररश्मीनां सहस्रं समूहो यत्र तस्य भावस्तया कारणेन, उपरिविस्तीर्णेन प्रसारितेन कनकानां सुवर्णानां याः शृङ्खला निगडाः तासां जालकेन समूहेनेव विराजमानं शोभमानम्, तद्रश्मीनां कनकश्शृङ्खलावदवगम्यमानत्वादित्याशयः ।

त्रिभुवनके समान बहुत बड़ा देखनेमें आता था । उसके स्तम्भके पास द्वारपालगण सर्वदा रहते थे, उन लोगोंके हाथमें सुवर्णखचित वेत्रयष्टि ( बेंतकी छड़ी ), शरीरमें श्वेतवर्ण कवच, और श्वेतवर्ण अङ्गराग एवं मस्तक पर श्वेतवर्ण फूलोंकी माला और श्वेतवर्ण उष्णीष ( पगड़ी ) थे । अतएव श्वेतवर्ग सब परिच्छेदों ( पोशाकों ) को धारण करनेसे मानों श्वेतद्वीपमें उत्पन्न हुए हैं ऐसा प्रतीत होता था । सत्ययुगके मनुष्योंके समान उन लोंगोंकी अत्यन्त दीर्घ आकृति थी । निश्चलभावसे रहनेके कारण वे लोग चित्रितके समान एवं दिन-रात तोरणस्तम्भोंमें गाढ़ संलग्न होनेसे क्षोदितके समान प्रतीत होते थे । उस राजभवनमें कलासकी शोभाको भी तिरस्कार करनेवाला एवं ऊचाईमें आकाश तक पहुँचनेवालो तथा निर्मल चूनेसे सफेदी की हुई बड़ी-बड़ी अट्टालिकाएं (महलें) थीं । उसकी चोटियों पर अधिकतर चतुःशालार्ण (चौकोन कमरे), चन्द्रशालाएँ, कबूतरोंकी दड़वें बनी थी और बैठनेके लिए ऊँचे चबूतरे बने थे । अतएव प्रतीत होता था मानो वह राजभवन हिमालय से संयुक्त हो कर विद्यमान है । अधिकतर खिड़कियोंके छिद्रसे युवतियोंके आभूषणोंकी हजारों किरणोंके फैलनेसे ऐसा प्रतीत होता था मानो ऊपर के मार्गोंमें सोनेकी श्रृङ्खलाओंका जाल बिछा दिया गया है । उससे राजभवन शोभित हो रहा था । उसके


१. सितवारवाणधारिभिः । २. 'सिताङ्गराग' इति पाठ एव क्वचिन्नोपलभ्यते । ३. '...संयमन, सयवन...' । ४. शालिका । ५. अपहसितकैलासशोभैः, अत्रैव क्वचित् 'शैल' इति पदं नोपलभ्यते । ६. शैलेयमिव । ७. क्वचित् 'भूषण' इति पदं नास्ति । ८. वितानेन, विततेन ।

राजकु०वर्णना०-२९ ] चन्द्रकला-विद्योतिनीसहिता । २६५ -

अन्तर्गतायुधनिवाहाभिराशीविष-कुल-सङ्कुलाभिः पातालगुहाभिरिवातिगम्भीराभिरायुधशाला- भिरुपेतम्, अबलाचरणालक्तक-रस-रक्तै मणि-शकलैः शिखर-निलीनशिखि-कुलकृतकेकारव- कलकलैः क्रीडापर्वतकैरुपशोभितम्, उज्ज्वलवर्णकम्बलावगुण्ठितकनकपर्याणाभिः प्रलम्ब- चामर-कलाप चुम्बित चलकर्णपल्लवाभिःकुलयुवतिभिरिवोपारूढ-शिक्षाविनय-निभृताभिः याम्यँ- करेणुकाभिरशून्यकक्षान्तरम्, आलान-स्तम्भनिषण्णेन च नवजलधरघोष-गम्भीरम्, अनुगतँ- वीणा-वेणु-रव-रम्यम्, आस्फालित-घर्घरिका-घर्घरम्, अनवरत-मृदुमृदङ्गध्वनिम्, आमीलित-

अन्तरिति । अन्तर्गता मध्यगता आयुधनिवाहाः शस्त्रसमूहा यासां ताभिः तादृशीभिः, अत एव आशीविषकुलेन सर्पनिवहेन सङ्कुलाभिः व्याप्ताभिः, पातालगुहाभिः बलिवेश्मकन्दराभिरिव विद्यमानाभिः, अतिगम्भीराभिः अलभ्यमध्याभिः आयुधशालाभिः शस्त्रभवनैः उपेतं महितम् । इह 'पातालगुहाभिरिवे'त्युपमा ।

अवलोति । अबलानाम् उपरिभ्रमणविधायिनीनां सुन्दरीणां ये चरणालक्तकरसाः पाद्यालक्तकद्रवाः तैः रक्तानि रक्तवर्णानि मणिशकलानि रत्नखण्डानि येषां तैः तादृशैः, तथा शिखरेषु तेषामेव सानुषु निलीनानां शिखिनां मयूराणां कुलेन वृन्देन कृता विहिता केकारवा निजवाण्य एव कलकलाः कोलाहला येषु तैः तादृशैः, क्रीडापर्वतकैः विहारार्थरचितक्षुद्राचलैः उपशोभितं विराजमानम्, राजकुलम् ।

उज्ज्वेलेति । उज्ज्वलवर्णैः कम्बलैः अवगुण्ठितानि आवृतानि कनकपर्याणानि सुवर्णरचितपल्ययनानि यासां ताभिः तादृशीभिः, प्रलम्बैः आयतैः चामरकलापैः बालव्यजनसमूहैः चुम्बितौ स्पृष्टौ चलौ चञ्चलौ कर्णपल्लवौ यासां ताभिः, तादृशीभिः, शिक्षासङ्केतवोधः गार्हस्थ्यपरिचालनचातुर्यलाभश्च, विनय औद्धत्यराहित्यं नम्रता च, एवञ्च उपारूढाभ्यां सञ्जाताभ्यां शिक्षाविनयाभ्यां निभृता अनुग्राः अदृष्टाश्च ताभिः कुलयुवतिभिरिव विद्यमानाभिः यामकरेणुकाभिः प्रतिप्रहरं भिन्नभिन्नत्वेन वन्धनीयाभिः गजस्त्रीभिः अशून्यानि पूर्णानीत्यर्थः, कक्षान्तराणि प्रकोष्ठमध्यप्रदेशा यस्य तत्तादृशं राजकुलम् । उपमा ।

आलानेति । किञ्चेति चार्थः । इत आरभ्य तृतीयान्तानि यानि पदानि तानि अग्रेतनस्य गन्धहस्तिनेत्यस्य विशेषणानि । आलानस्तम्भे गजवन्धनस्तम्भे निषण्णो विद्यमानः तदवलम्बनेन विद्यमान इत्यर्थः, तेन तादृशेन, नवो नूतनो यो जलधरो मेघस्तस्य घोषवत् गर्जनवत् गम्भीरं मन्दध्वनिम्, अनुगतैः अनुसृतैः वीणायास्तन्त्र्या वेणोर्वंशैः वेणुशब्दैः रम्यं सुन्दरम्, आस्फालिताः वादिता या घर्घरिकाः क्षुद्रघण्टिकाः तासां घर्घरो ध्वनिनादो यत्र तं तादृशं तन्निनादसम्मिलितमित्यर्थः, अनवरतो निरन्तरं मृदुः मसृणो यो मृदङ्गस्य मुरजस्य ध्वनिः शब्दः तं तादृशम् 'आकर्णयता' इत्येतस्यैतत्कर्मपदम् । आकर्णनविधिं दर्शयति-आमीलितेत्यादिना । आमीलितः किञ्चिन्मुद्रितो लोचनयोर्नेत्रयोः त्रिभागस्तृतीयोंऽशः येन तेन तादृशेन, वामस्य सव्येतरस्य दशनस्य दन्तस्य कोटौ अग्रे निषण्णो विद्यमानो हस्तः शुण्डा यस्य तेन तादृशेन, तथा कर्णौ श्रोत्रे ताले तालदले इव इति कर्णताले तथा च निश्चले स्थिरे कर्णताले तालदलवद्विस्तृतकणौ यस्य तेन तयोक्तेन च विद्यमानेन आकर्णयता तादृशमुरजध्वनिं शृण्वता । एवंविधा एव गजानां गीतादिश्रवणप्रकृतयः । 'नवजलधरगम्भीरम्' इत्यत्र लुप्तोपमा, अन्ते च स्वभावोक्तिरलङ्कारः ।


अन्दर, सर्पकुलसे भरी हुई पातालकी गुफाके समान अत्यन्त भयङ्कर, एवं विविध अस्त्रों से परिपूर्ण अधिकतर आयुधशालाएं बनी हुई थीं। वहाँ बहुत से कृत्रिम क्रीडापर्वत शोभायमान थे, उनमें अबलाओंके चरणों पर लगी हुई महावरके समान रक्तवर्ण पद्मराग-मणिके टुकड़े चमकते थे, और शिखरों पर भरे हुए मयूरगण केकारवसे कलकल किया करते थे। शिक्षा और विनयसे युक्त कुलीन स्त्रियोंके समान शान्त-स्वभाववाले एवं प्रतिप्रहर में परिवर्तन होनेवाली कितनी ही हथिनियाँ दरवाजे के पास सज्जत हो खड़ी थीं, उज्ज्वलवर्णके कम्बल द्वारा जिनके सोनेके जीन आच्छादित थे, एवं लटकते हुए चामरसमूह जिनके चञ्चल एवं विस्तृत कर्ण-पल्लवको चूमते थे। एक भागमें गन्धमादन नामका एक गन्धगज बन्धनस्तम्भ (खूँटे) में बँधा था; उस समय नवीन बादल की गर्जनाके समान गम्भीर, साथ-साथ वीणा और वेणुके स्वरसे रमणीय एवं घूँघुरियोंके शब्दसे घर्घर करती, महीन और मृदङ्गकी कोमल ध्वनि बराबर होनी थी। गन्धमादन आँखोंके तीसरे हिस्सेको छोटा-नीच कर और


१. प्रचल, लम्ब । २. कलापचल । ३. उपारूढ, उपगूढ । ४. विनयेन निभृताभिः । ५. यामक । ६. कलध्वनिगजितदोष । ७. सतनु । ८. अनवरतसङ्गीतमृदङ्गध्वनिम् । अनवरत•••आमीलित, अनवरतमन्दोन्नमृदुमृदङ्गध्वनिमतिमनोहरं किञ्चिदामीलित ।
१७ का०

२६६ कादम्बरी- [ कथायाम्-

लोचन-त्रिभागेन वाम-दशन-कोटि-निषण्ण-हस्तेन निश्चलकर्णतालेनाकर्णयता, सलीलमुभय-पार्श्वावलम्बि-वर्णकम्बलतया विन्ध्यगिरिणेवाविष्कृतधातु-विचित्र-पक्षसम्पुटेन, आधोरण-गीतान्द-कृत-मन्द्र-कण्ठ-गर्जितेन, मदजल-शवल-शङ्ख-शोभित-श्रवणपुटेन, रजनिकर-बिम्ब-चुम्बि-संवर्त्तकाम्बुद-वृन्द-विडम्बकेन, कर्णान्तलम्बिना काञ्चनमयेन कृतकर्णपूरमिवाङ्कुशेन मुखमुद्वहता, मदजलमलिनेन द्वितीयेनेव कर्णचामरेण कपोलतलदोलायमानेन मधुकरकुले-नालङ्क्रियमाणेन, अत्युद्ग्रतया पूर्वकायस्य अतिवामनतया च जघनभागस्य पातालादिव

सलोलमिति । सलीलं सखेलं यथा स्यात्तथा उभयपार्श्वं अवलम्बते पततीति तत्तथोक्तं वर्णकम्बुलं विचित्रपृष्ठास्तरणं यस्य तस्य भावस्तया कारणेन, 'प्रवेण्यास्तरणं वर्णः' इत्यमरः । आविष्कृतं प्रकाशितं धातुभिः 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला । गैरिकाञ्जनकासीस-सीसलोहाः सहिङ्गुलाः ॥ गन्धकोऽभ्रकमित्याद्या धातवो गिरिसम्भवाः ।

इति रामाश्रमीघृतसुवर्णादिभिः । विचित्रं नानाविधं पक्षयोः सम्पुटं द्वयं येन तेन तयोक्तेन विन्ध्य-गिरिणेव जलवालकेनेव विद्यमानेन । इह द्रव्योत्प्रेक्षा ।

आधोरणेति । आधोरणस्य हस्तिपकस्य गीतेन गानाकर्णनेन य आनन्दस्तेन कृतं मन्द्रं गम्भीरं कंठ-गर्जितं येन तेन तादृशेन । 'आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।' इत्यमरः ।

मदेति । मदजलेन दानवारिणा विचित्रो नानाविधो यः शङ्खः ललाटास्थि तेन शोभितं राजितं श्रवणपुटं श्रोत्रद्वयं यस्य तेन तादृशेन, 'शङ्खः कम्बौ न योषिन्ना भालास्थिन निधिभिद्नखे ।' इति मेदिनी ।

अत एव रजनिकरविम्बं चन्द्रमण्डलं चुम्बति स्पृशतीति तत्तथोक्तं यत् संवर्त्तकाम्बुदवृन्दं लोक-विनाशकालिकमेवसमूहः तद्विडम्बयति अनुकरोति यः स तादृशः तेन 'शेषाद्विभाषा' इति कन्प्रत्ययः । शृङ्गाङ्कितरजनिकरविम्बेन सह तथाविधशङ्कस्य तत्संवर्त्तकाम्बुदवृन्देन च सह हस्तिनः साम्यमवगन्तव्यम् । इह पदार्थहेतुककाव्यलिङ्गालङ्कारेण आर्थोपमायाः सङ्करः ।

कर्णेति । कर्णान्तलम्बिना श्रोत्रपर्यन्तलम्बिना काञ्चनमयेन सुवर्णनिष्पन्नेन अङ्कुशेन सृणिना कृतकर्ण-पूरमिव सम्पादितकर्णाभरणमिव मुखम् आननम् उद्वहता धारयता । 'कृतकर्णपूरमिव' इतिक्रियोत्प्रेक्षा ।

मदजलेति । मदजलेन दानवारिणा तत्संस्रुतयेत्यर्थः । मलिनं गाढश्यामं तेन तथोक्तेन, तथा द्विती-येन, अन्येन कर्णचामरेणेव विद्यमानेन, कपोलतले गण्डद्वयोपरि दोलायमानेन इतस्ततो भ्रमता मधु-करकुलेन भ्रमरवृन्देन, अलङ्क्रियमाणो मण्ड्यमानस्तेन तादृशेन । इह 'कर्णचामरेणेवे'ति द्रव्योत्प्रेक्षा ।

अत्युदग्रेति । पूर्वकायस्य देहपूर्वार्द्धस्य अत्युदग्रतया अत्यन्तोन्नतया, तथा जघनभागस्य देहपश्चा-

सूँडको बाँए दाँतकी नोक पर रखकर एवं विस्तृत कर्णयुगल को निश्चल रख, लीला-सहित उस सङ्गीत और मृदङ्गके शब्दको सुनता था। गन्धमादनके पृष्ठके ऊपर एक विचित्र (अनेक रंगोंका) कम्बल बिछा हुआ था, वह दोनों तरफ लटक कर झूल रहा था; अत एव धातुओंसे रँगे हुए पक्षों (पंखों) को फैलाकर रहनेवाले विन्ध्य पर्वतके समान वह देखनेमें आ रहा था । महावतके गीतसे आनन्दित होकर वह गम्भीर कण्ठसे गर्जन करता था । मदजलसे उसका ललाटास्थि रँगा हुआ था, उससे कर्णयुगल शोभित हो रहे थे, अत एव वह चन्द्रबिम्बसे चुम्बन किए गए प्रलय-कालीन मेघका अनुकरण करता था । सुवर्णमय एक अङ्कुश उसके कान पर लटक रहा था। उससे प्रतीत होता था मानो उसके कान पर आभूषण (कर्णफूल) पहनाया हुआ हो, इस प्रकारके मुखभागको वह धारण किया था । मदजलसे मलिन होकर गण्डस्थलके आस-पास घूमता हुआ भौरों का समूह द्वितीय कर्ण चामरके समान उसको शोभित कर रहा था । उसके शरीर का पहला-भाग बहुत ऊँचा था और जघन-भाग अत्यधिक छोटा था, जिससे मानो वह पातालमेंसे निकलता हो ऐसा प्रतीत होता था । रात्रिमें जिस प्रकार अर्धचन्द्र के


१. प्रलम्बित... । २. ...विचित्रित... । ३. चुम्बितावर्त्तक चुम्बिनावर्त्तक चुम्बितसंवर्त्तकं । ४. क्वचित् 'वृन्द' इति पदन्नास्ति । ५. कर्णावलम्बिना । ६. वानतया । ७. पातालतलादिव ।

राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । [ २६७

उत्तिष्ठता, निशासमयेनेव परिस्फुरत्सार्द्धचन्द्रनक्षत्रमालेन, शरदारम्भेणेव प्रकटितारुण-चारु-पुष्करेण, वामनरूपेणेव कृतत्रिपदीविलासेन, स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेन, प्रसाधितेनेव¹ आलोलं²-कर्णपल्लवाहृतमुखेन, गन्धमादननाम्ना गन्धहस्तिना सनाथीकृतैकदेशम् ;

दंशस्य च अतिवामनतया अतिह्रस्वतया कारणेन, 'खर्वो ह्रस्वश्च वामनः' इत्यमरः । पातालाद् रसातलाद् उत्तिष्ठतेव ऊर्ध्वं प्रादुर्भवतेव, अन्यस्यापि नीचादुन्नतप्रदेशोत्थानसमये एवंविधावस्थावलोकनादित्याशयः । इह **'उत्तिष्ठतेवे'**ति क्रियोत्प्रेक्षा ।

निशेति । निशासमयेन विभावरीकालेनेव, परिस्फुरन्ती समन्ताद्दीप्यमाना सार्द्धचन्द्रा अर्द्धचन्द्रसदृशभालभूषणसहिता नक्षत्रमाला सप्तविंशतिसंख्यकमुक्ताग्रथितदाम यस्य तेन तादृशेन । 'सैंव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः' इत्यमरः । अन्यत्र परिस्फुरन्ती सार्द्धचन्द्रा अष्टमीचन्द्रसहिता नक्षत्रमाला तारकापङ्क्तिर्यत्र तेन तादृशेन ।

शरदिति । शरदारम्भेणेव घनात्ययप्रारम्भेणेव, प्रकटितं प्रकाशितम् अरुणं लोहितवर्णं चारु मनोहरञ्च पुष्करं शुण्डाग्रं यस्य तेन, अन्यत्र प्रकटितानि विकसितानि अरुणानि चारूणि च पुष्कराणि कमलानि यत्र तेन तादृशेन ।

'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ।
व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः ॥ इत्यमरः ।'

वामनेति । वामनरूपेण विष्णोर्वामनावतारेणेव, कृतो विहितः त्रिपद्या पादबन्धनशृङ्खलया विलासः खेला येन तेन तादृशेन, 'त्रिपदी पादबन्धनम्' इति यादवः । अन्यत्र त्रयाणां पदानां समाहारः इति त्रिपदी 'तद्धितार्थोत्तरपदसमाहारे च' इति समासः । कृतो विहितः त्रिपद्या त्रिभुवनेषु पादत्रयस्थापनेन विलासो लीला येन तेन तादृशेन ।

स्फटिकेति । स्फटिकगिरिः स्फटिकमयपर्वतः तस्य तटेनेव भित्त्येव, लग्ना दशनोपरि संसक्ता सिंहमुखा सिंहाननसदृशाग्रभागा प्रतिमा दन्तबन्धनशृङ्खला यस्य तेन तादृशेन । 'प्रतिमा प्रतिरूपके । गजस्य दन्तबन्धे च' इत्यनेकार्थः । अन्यत्र लग्ना सांमुख्येन केशरिणः स्थितत्वात् पतिता सिंहमुखस्य प्रतिमा प्रतिविम्बं यत्र तेन तादृशेन ।

प्रसाधितेनेति । प्रसाधितेनेव अनेकविभूषणैर्भूषितेन लोकेनेव, आलोलाभ्यां नितान्तचपलाभ्यां कर्णपल्लवाभ्यां विस्तृतश्रोत्राभ्याम् आहृतं भ्रमरापनयनाय ताडितं मुखं वदनं येन तेन तादृशेन । अन्यत्र आलोलाभ्यां कर्णपल्लवाभ्यां श्रोत्रकिसलयाभ्याम् आहृतं मुखं यस्य तेन तादृशेन ।

'निशासमयेनेव' इत्यारभ्य 'प्रसाधितेनेव' इत्यन्तं पूर्णोपमालङ्कारः

गन्धमादनेति । गन्धमादननाम्ना गन्धमादनसंज्ञकेन गन्धहस्तिना प्राक्प्रदर्शितस्वरूपेण गन्धगजेन सनाथीकृतः स्वसंयुक्तिकृतः अवस्थित इत्यर्थः, एकदेश एकभागो यस्य तत्तादृशम् , 'राजकुलम्'-इत्यस्य विशेषणम् ।


साथ ताराओंकी पङ्क्ति दीप्ति पाती रहती है, उसकी भी उसी प्रकार अर्धचन्द्राकृति ललाटाभरणके साथ मोतियोंकी माला दीप्ति पा रही थी। शरत्कालके आरम्भमें जिस प्रकार लाल और सुन्दर कमल प्रकट होते हैं उसका भी उसी प्रकार सुन्दर और लाल शुण्डाग्र प्रकाश पा रहा था। वामनावतार नारायणने जिस प्रकार बलिके यज्ञमें तीनों भुवनों (स्वर्ग-मर्त्य-पाताल) को अपने तीन पदों से लीला खेल किया (नापा) था, वह भी उसी प्रकार पाँवोंमें बँधी हुई जञ्जीरोंसे क्रीड़ा करता था। स्फटिकमय पर्वतभित्तिमें जिस प्रकार सिंहका प्रतिबिम्ब उसके फिरते रहने से पड़ता है, उसका भी उसी प्रकार दन्तके ऊपरमें एक सिंहमुखके समान अग्रदेशयुक्त दन्तबन्धन शृङ्खला (जञ्जीर) लगी हुई थी। विविध आभूषणोंसे भूषित व्यक्तिका मुख जिस प्रकार चञ्चल कर्णपल्लव द्वारा आहत होता रहता है, उसका मुख भी उसी प्रकार विस्तृत कानोंसे आहत होता था। इस प्रकार गन्धमादन नामक गन्धगज द्वारा राजभवनका एक देश संयुक्त था। एव वह राजभवन अश्वशाला में रहनेवाले अधिकतर घोड़ोंसे


१. प्रसाधितेन ।
२. लोल... ।

२६८ - कादम्बरी- [ कथायाम्-

उज्ज्वल-पट्टकम्बल-पटु॑-प्रावारितै-पृष्ठैश्च रसित-मधुर-घण्टिका-रव-मुखर-कण्ठैः, मञ्जिष्ठालो- हित-स्कन्ध-केसर-बालैः, ^२निहत-वन॑-गज-रुधिर-पाटल-सटैरिव केसरिभिः, पुरो-निहित-यवस- राशि-शिखरोपविष्ट-मन्दुरापालैः, आसन्न-मङ्गल-गीत-ध्वनि-दत्तकर्णैः, अन्तःकपोल-धृत-मधुर- सरसै॑-लुलित-लाज॑-कवलैः, भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम् , अधिक-रण-मण्डपग- तैरार्य्यवेशैरत्युच्चवेत्रासनोपविष्टैर्द्धर्म्ममयैरिव धर्म्माधिकारिभिर्महापुरुषैरधिष्ठितम् , अधिगत- सकल-ग्राम-नगरै॑-नामभिरेकभवनमिव जगदखिलमालोकयद्भिरालिखित-सकल-भुवन-व्यापा-

उज्ज्वलेति । इत आरभ्य तृतीयान्तानि यानि पदानि तानि 'तुरङ्गमैः' इत्यग्रेतनस्य विशेषणानि योध्यानि । उज्ज्वला दीप्तिमन्तो ये पट्टकम्बलाः कृमिकोशोद्भवसूत्ररचितकम्बलाः तैः पटु साधु प्रावारितानि आच्छादितानि पृष्ठानि येषां तैः तादृशैः । रसिताः गलसञ्चालनेन शब्दायमानाः मधुराः सुन्दरा या घण्टिकाः क्षुद्रघण्टाः तासां रवैः निनादैः मुखराः वाचालाः कण्ठा ग्रीवा येषां तैः तादृशैः । मञ्जिष्ठा रञ्जन- द्रव्यविशेषः तद्वद् लोहिताः रक्तवर्णाः स्कन्धेषु केसरसञ्ज्ञकरोमाणि येषां तैः तथोक्तैः, अत एव निहतानां मारितानां वनगजानाम् अरण्यहस्तिनां रुधिरैः शोणितैः पाटलाः श्वेतरक्ताः सटा जटा येषां तैस्तादृशैः केसरिभिः मृगेन्द्रैरिव विद्यमानैः, 'व्रतिनस्तु सटा जटा' इत्यमरः । पुरोऽग्रतो निहिताः स्थापिता ये यवसस्य शयः घासपुञ्जाः तेषां शिखरेषु ऊर्ध्वदेशेषु उपविष्टा मन्दुरापाला वाजिशालापालका येषां तैस्तादृशैः । 'वाजिशाला तु मन्दुरा' इत्यमरः । आसन्नां निकटवर्तिनो ये मङ्गलगीतध्वनयः माङ्गलिकगानशब्दाः तेषु दत्तौ न्यस्तौ कर्णौ श्रोत्रे यैस्तैस्तादृशैः, तेषामपि गीताकर्णनौत्कण्ठ्यस्य विद्यमानत्वादित्याशयः । अन्तः कपोलेषु कपोलाभ्यन्तरेषु धृताः स्थापिता मधुराः सुस्वादाः सरसा गुडेन आर्दीकृताः अत एव लुलिता उभयतो गलगुदुगाः लाजकवला धानाग्रासाः यैस्तैस्तादृशैः, गुडमिश्रिता लाजप्रासाः चापल्यवशान्मा निपातयन्विति मृत्यैर्मुखे ध्रियन्त इत्यन्नप्रकृतिः । भूपालवल्लभैः राजप्रियैः मन्दुरागतैः वाजिशालाप्राप्तैः तुरङ्गमैः अश्वैः उद्भासितं राजितम् अग्रेतनस्य राजकुलमित्यस्य विशेषणमेतत् ।

अधिकेति । अधिक्रियन्ते लोका अस्मिन्नित्यधिकरणं विचारालयः तन्मण्डपगतैः आर्य्यवेशैः शिष्टज- नयोग्यवेशैः सुपरिष्कृतवस्त्राच्छादनैरित्यर्थः, अत्युच्चानि अत्युन्नतानि यानि वेत्रासनानि वेतसविष्टराणि तेषु उपविष्टैः कृतोपवेशनैः धर्म्ममयैः धर्म्मानिष्पन्नैरिव, धर्म्माधिकारिभिः आचारदर्शिभिः प्राड्विवाकैः महापुरुषैः शिष्टान्याय तत्परतादिसद्गुणसहितेलोकैःअधिष्ठितम् आश्रितं राजकुलम् । इह 'धर्म्ममयैरिव' इति गुणोत्प्रेक्षा ।

अधिगतेति । अधिगतानि ज्ञातानि सकलप्रामनगराणां समस्तग्रामनगराणां नामानि अभिधेयानि यैस्तैस्तादृशैः । ग्रामलक्षणमुक्तं श्रीरघुनाथेन-

'तथा शूद्रजनप्राया सुसमृद्धकृषीवला । क्षेत्रोपयोगिभूमध्ये वसतिर्ग्रामसंज्ञिका ॥'

मार्कण्डेयपुराणे च नगरलक्षणञ्चोक्तम्-

'देवतायतनैश्चित्रैः प्रासादापणवेश्मभिः । नगरं दर्शयेद्विद्वान् राजमार्गेण शोभनैः ॥'

शोभा पा रहा था, उनका सम्पूर्ण पृष्ठ भाग उज्ज्वल रेशमी कम्बलोंसे ढँका हुआ था, मधुर घण्टियोंके बजनेसे उनके कण्ठदेश मुखर हो रहे थे, उनके कन्धोंके ऊपर मजीठ से रँगे हुए के समान लाल लाल सटाएँ थीं, अतएव निहत जंगली हाथीके रक्तसे रक्तवर्ण जटा-युक्त सिंहके समान वे घोड़े देखनेमें आ रहे थे । उनके आगे रखे हुए घासोंकी गठरियोंके ऊपर अश्वशालाके रक्षणगण (जमादार) बैठे थे । वे घोड़े समीपसे आती हुई मङ्गल गीतकी ध्वनिको कान लगाकर सुनते थे । गालके अन्दर गुड़ (मधुररस) में साने गये सुस्वाद दानेके ग्रास लिए हुए थे, अत एव गालके दोनों तरफसे उसका रस बाहर निकल रहा था, इस प्रकारके वे अश्व राजाके प्रिय थे । न्यायालय (कचहरी) में साक्षात् धर्मके ही समान बडे गुणवान् न्यायाधीशगण (जज आदि) सभ्यजनोचित वेशभूषाओंसे सुसज्जित होकर अत्यन्त ऊँची वेंतकी कुर्सियों पर बैठकर विद्यमान थे । न्यायालयके लेखकगण (पेशकार-नाजिर आदि) न्यायाधीशोंके आदेशों (परवाने) को लिखने थे, उससे समस्त ग्राम एवं नगरादिकोंका नाम जानते थे, एवं सर्वदा आलोचना करनेसे सब जगतको मानो एक ही घरके समान देखते थे और समस्त भुवनोंका व्यापार लिखनेसे


१. पटु... । २. प्रावृत, प्रावरित... । ३. वालपल्लवैः । ४. क्वचित् 'वन' इति पदं नास्ति । ५. मधु रसलव लुलित । ६. जन्बाल... । ७. ग्रामकण्टेन्गर, ग्रामह्वेंटनाम, सकलनगरह्वेटसर्वंट... ।

राजकुलवर्णना-२९] चन्द्रकला-विद्योतिनीसहिता । २६६

रतया धर्म्मराजनगर-व्यतिकरमिव दर्शयद्भिरधिकरणलेखकैरालिख्यमान-शासन-सहस्रम्, अभ्यन्तरावस्थित-नरपति-निर्गम-प्रतीक्षण-परेण च स्थान-स्थानेषु बद्धमण्डलेन, कनकमयार्द्ध-चन्द्र-तारागणशबलैः चर्मफलकैर्निशासमयमिव दर्शयता, स्फुरित-निशित-करवालकर-प्ररोह-करालितातपेन, एकश्रवणपुटघटित-धवलदन्तपत्रेण ऊर्ध्व-बद्ध-मौलि-कलापेन, धवल-चन्दन-स्थासक-खचित-भुजोरुदण्डेन, बद्धासिधेनुकेन, अन्ध्र-द्रविड-सिंहलप्रायेण सेवकजनेन, आस्थानमण्डपगतेन च यथोचितासनोपविष्टेन प्रसारयता दुरोदरक्रीडाम्, अभ्यस्यताऽष्टापद-

एकभवनमिव एकगृहमिव अखिलं समस्तं जगत् संसारम् आलोकयद्भिः बहुकालं समालोचनावशात् एकभवनस्येव समस्तसंसारस्य स्थानजनोदन्तं जानद्भिरित्यर्थः । आलिखिताः शासनसौविध्याय पत्रेषु अङ्किताः सकलभुवनस्य समस्तसंसारस्य व्यापाराः व्यवहारा राजकार्यप्रयोजनीयस्थानजन्मादिघटनावली इत्यर्थः । यैः तैस्तेषां भावस्तया कारणेन, धर्मराजनगरस्य यमस्य संयमिनीतिख्यातपुरस्य व्यतिकरं सम्बन्धं दर्शयद्भिः प्रकटयद्भिरिव विद्यमानैः, संयमिनीपुरेऽपि चित्रगुप्तादिभिः समस्तसंसारव्यवहारलिखनादित्याशयः । अधिकरणस्य व्यवहारदर्शनसभायाः लेखकैः पूरुषैः, आलिख्यमानं पत्रेषु लिपीक्रियमाणं शासनसहस्रं नृपतेः धर्माधिकारिणाञ्च आज्ञानिकरो यत्र तत् तादृशं राजकुलम् । इह 'एकभवनमिव' इत्युपमा, 'दर्शयद्भिरिवे'ति क्रियोत्प्रेक्षा ।

अभ्यन्तरेति । इत आरभ्य तृतीयान्तानि यानि पदानि तानि अग्रेतनस्य 'सेवकजनेन' इत्यस्य विशेषणानि । अभ्यन्तरे अवस्थिता महाराजतारापीडनिकटे निजनिजकार्यहेतवे विद्यमानाः ये नरपतयः निजा निजा राजानः तेषां निर्गमो बहिरागमनं तस्य प्रतीक्षणं प्रतीक्षा तत्परेण तत्परायणेन, आयातेषु तेषु तैः सह गमनाशयादित्याशयः । बद्धं विहितं मण्डलं वर्तुलाकारेणावस्थानं येन तेन तादृशेन । कनकमया काञ्चनरचिता ये अर्द्धचन्द्राः अर्धचन्द्रसदृशलक्षणानि तारागणा तारकागणसदृशलक्षणसमूहाश्च तैः शबलानि कर्बुराणि तैस्तादृशैः, चर्मफलकैः करणैः निशासमयं विभावरीसमयं दर्शयतेव प्रकटयतेव सता, निशीथेऽप्यर्द्धचन्द्रनक्षत्रगणोदयादित्याशयः । स्फुरिता देदीप्यमानाः निशिताः तीक्ष्णा ये करवालाः खड्गाः तेषां करप्ररोहैः किरणाङ्कुरैः करालितो भयङ्करीकृत आतपा दिनकरालोको येन तेन तादृशेन । एकश्रवणपुटे एककर्णपुटे घटितं योजितं दन्तपत्रं गजदशनरचितपत्रसदृशभूषणं येन तेन तादृशेन । देशव्यवहारात्तेषामेकश्रवणे दन्तपत्रधारणमित्यवधेयम् । ऊर्ध्वम् उपरि बद्धो नद्धः मौलिकलापः केशसमूहो येन तेन तादृशेन । धवलैः शुभ्रैः चन्दनस्थासकैः चन्दनलिप्तहस्तप्रतिच्छन्दैः खचितौ अङ्कितौ भुजौ बाहू ऊरुदण्डौ च यस्य तेन तादृशेन । ऊरौ चन्दनस्थासकैश्चापि देशव्यवहारात् । बद्धा कटीभागेषु संयताः असिधेनुका- क्षुरिकाः येन तेन तादृशेन । 'छुरिका चासिधेनुका' इत्यमरः । अन्ध्रश्चिल्लिङ्गः, द्रविडो द्राविडदेशः, सिंहलः सिंहलद्वीपम्, एतद्देशीयाः प्राया अधिका यत्र तेन तादृशेन । सेवकजनेन नानादेशीय नृपमण्डलशरीररक्षकजनेन अधिष्ठितम् आश्रितमिति अग्रेतनक्रियापदस्य कर्तृपदमेतत् । इह 'दर्शयतेव' इत्यत्र क्रियोत्प्रेक्षा ।

आस्थानेति । इत आरभ्य तृतीयान्तानि यानि पदानि तानि 'सामन्तलोकेन' इत्यग्रेतनस्य विशेषणानि । आस्थानमण्डपः सभागृहं तत्र गतेन स्थितेन यथोचितानि यथायोग्यानि यानि शासनानि विष्टराः तेषु उपविष्टेन आसीदुपा, दुरोदरं द्यूतं तस्य क्रीडां खेलाकोष्ठं प्रसारयता विस्तारयता । अष्टापदव्यापारं


उस राजभवनके साथ धर्मराज नगर (यमपुरी) का कोई सम्बन्ध है, इस प्रकार मानो दिखा रहे थे । भवन के अन्दर महाराज तारापीडके पासमें बैठे अपने-अपने राजाके बाहर आनेकी प्रतीक्षाके लिए भिन्न-भिन्न देशीय राजाओंके शरीररक्षक सैन्यगण वहाँ स्थान-स्थान पर झुण्ड बाँधे खड़े थे । वे सोनेके अर्धचन्द्राकार और नक्षत्राकार चिह्नसमूहसे विचित्र दीखती हुई चमड़ेकी ढालोंको धारणकर उस समय को मानो रात्रि कहकर दिखा रहे थे । चमकती हुई तीक्ष्ण तलवारोंमेंसे निकलती किरणोंको धूपमें मिलाकर उसे भयङ्कर करते थे । एक कानमें उन्होंने हाथीके दाँतसे बनाये हुए पत्राकार आभूषणोंको पहन लिया था । मस्तकके ऊपर चूल बाँध रखा था । भुजाओं एवं जङ्घोंको सफेद चन्दनके लेपसे चिह्नित कर दिया था, और कमरमें छुरेको बाँध रखा था, तथा उन लोगोंके बीचमें अधिक संख्यक ही आन्ध्र, द्रविड़ एवं सिंहलदेशीय व्यक्ति थे । सभामण्डपमें अनेकसङ्ख्य संत्यक्त राज्याभिषिक्त अधोनदेशस्यराजगण समुचित आसनों पर बैठे थे । उनलोगोंके बीचमें कोई कोई जुआ खेल रहे थे,


१. अधिकार ...। २. ...निर्गमन...। ३. स्थाने स्थाने। ४. ...'शवलवलैः । ५. घटितानेकदन्तपत्रेण ।

२७०कादम्बरी-[ कथायाम्-

व्यापारम्, आस्फालयता परिवादिनीम्, आलिखता चित्रफलके भूमिपालप्रतिबिम्बम्, आबध्नता काव्यगोष्ठीम्, आतन्वता परिहासकथाम्, विन्दता बिन्दुमतीम्, चिन्तयता प्रहेलिकाम्, भावयता नरपतिकृतकाव्यसुभाषितानि, पठता द्विपदीम्¹, गृह्णता कविगुणान्, उत्किरता² पत्रभङ्गान्, आलपता वारविलासिनीजनम्, आकर्णयता वैतालिकगीतम्³, अनेकसहस्रसंख्येन, धवलोष्णीषपट्टाश्लिष्टविकट-किरीट-सङ्कट-शिरसा, सनिर्झर-शिखर-लग्न-बालातपमण्डलेनेव कुलपर्वतचक्रवालेन, मूर्द्धाभिषिक्तेन, सामन्तलोकेनाधिष्ठितम्, आस्थानोत्थित-भूमिपाल-संवर्त्तितानाञ्च कुथानां रत्नासनानाञ्च राशिभिरनेकवर्णैरिन्द्रायुधपुञ्जैरिव विराजित-सभा-

शारिफलनिक्षेपकार्यम् अभ्यस्यता वारंवारमभ्यासं विदधता 'अष्टापदं शारिफलम्' इत्यमरः। परिवादिनीं सप्ततन्त्रीविशिष्टां वीणां वल्लकीम् आस्फालयता वादनेन स्पन्दनं विदधता।

...................वीणा तु वल्लकी।
विपञ्ची, सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ इत्यमरः।

भूमिपालस्य महाराजतारापीडस्य प्रतिबिम्बं प्रतिरूपं चित्रफलके आलेख्यपट्टके आलिखता भक्तिसूचनार्थं चित्रीकुर्वतां। काव्यगोष्ठीं काव्यालापम् आबध्नता विदधता। 'गोष्ठी सभासंलापयोः स्त्रियाम्' इति मेदिनी। परिहासकथाम् उपहासकारिवचनरचनाम् आतन्वता आधिक्येन विदधता। बिन्दुमतीं विन्दता प्राप्नुवता अन्येन पृच्छ्यमानामाकर्णयतेत्यर्थः। प्रहेलिकां चिन्तयता ध्यायता। नरपतिः महाराजतारापीडः तेन कृतानि रचितानि यानि काव्यरूपाणि सुभाषितानि मनोहरवचनानि तानि भावयंता भावनां विदधता। द्विपदीं पद्यद्यात्मिकां गाथां पठता पाठं कुर्वता। कवेः काव्यरचयितुः गुणान् तत्काव्यवृत्तिप्रसादमाधुर्यभावलङ्कारादिधर्मांन् गृह्णता आकर्णयतं जानता। पत्राणि केतकीसम्बन्धोनि तेषां भङ्गान् वेश्याजनानां कुचगण्डादौ तिलकविशेपान् उत्किरता ददता। वारविलासिनीजनं वाराङ्गनालोकम् आलपता सम्भाषयता। वैतालिका वन्दिनः तेषां गीतं स्तुतिपाठन् आकर्णयता श्रृण्वता। अनेकानि बहूनि सहस्राणि संख्या परिमाणं यस्य तेन तादृशेन। धवलैः श्वेतैः उष्णीषपट्टैः मूर्द्धवेष्टनवस्त्रैः आश्लिष्टानि संयुक्तानि विकटानि महान्ति यानि किरीटानि कोटीराणि तैः सङ्कटानि सङ्कलानि शिरांसि यस्य तेन तथोक्तेन। अत एव सनिर्झराणि सप्रस्रवणानि यानि शिखराणि श्रृङ्गानि तेषु लग्नं संसक्तं बालातपमण्डलं नूतनरविरश्मिजालं यस्य तेन तथोक्तेन, कुलपर्वताः महेन्द्रमलयादयः तेषां चक्रवालेने मण्डलेनेव विद्यमानेन। मूर्द्धाभिषिक्तेन राज्याभिषिक्तेन सामन्तलोकेन आयत्तदेशस्वराजमण्डलेन अधिष्ठितम् आश्रितं राजकुलम्। इह 'सनिर्झर-शिखर लग्ने'त्यादौ निर्झरैः सह धवलोष्णीषपटानां बालातपैः किरीटानां कुलपर्वतैश्च सामन्तानां साम्यमिति उपमालङ्कारः।

आस्थानेति। आष्ठानात् उपवेशनस्थलात् उत्थितेषु उत्थाय चलितेषु भूमिपालेषु सदस्यभूपतिषु संवर्त्तितानां सेवकैस्तोल्य एकत्रिन्नु स्थले सङ्कोचितानां कुथानां विचित्रकम्बलानां रत्नासनानाञ्च अनेकवर्णै राशिभिः समूहैः इन्द्रायुधपुञ्जैः इन्द्रधनुःसमूहैरिव विद्यमानैः, विराजितः अलङ्कृतः सभायाः परिषदः


कोई कोई बार-बार शतरञ्ज खेल रहे थे कोई वीणा बजाते थे कोई चित्रफलक पर महाराज तारापीडका चित्र खींचते थे कोई कोई काव्यालाप कर रहे थे कोई कोई परिहासको विस्तार कर रहे थे कोई विन्दुमती (काव्यविशेष) सुनते थे कोई प्रहेलिका (बुझौअल) की चिन्ता करते थे कोई महाराज तारापीडके बनाए हुए काव्यमय मनोहर वाक्योंकी भावना करते थे कोई द्विपदी नामक प्राकृत छन्दका पाठ करते थे कोई कवियोंके गुणोंका ग्रहण करते थे कोई वाराङ्गनाओंके कण्ठकपोलमें तिलक लगाते थे कोई वारवनिताओँके साथ बातचीत करते थे और वैतालिकों (स्तुतिपाठकों) के गीत सुनते थे उन लोगोंका शिर, सफेद पगड़ीकी तह से लपेटे हुए बड़े बड़े मणिमय मुकुटोंसे ढँका हुआ था. अत एव निर्झर जलसंयुक्त शिखर पर पड़े हुए बालतपवाले कुल-पर्वतोंके समान शोभायमान होता था। राजाओंके राजसभासे उठ जाने पर नौकरोंने सभाके विचित्र कम्बल एवं रत्नमय आसनों (अथवा बहुतसे गलीचे एवं जड़ाऊ कुर्सियों) को एक मागमें रख दिया, उससे एकत्रीभूत इन्द्रधनुः समूहके समान


१. दिपदीः।
२. उत्कीर्य्यता।
३. ॰॰ गीतिन् ।
४. ॰॰॰लाल्न॰॰॰ ।

राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । [ २७१

पर्य्यन्तम्, अमल-मणि^१-भूमि-संक्रान्त-मुख-निवह-प्रतिबिम्बतया विकच-कमलपुष्प-प्रकरमिव सम्पादयता, गतिवश-रणित-नूपुर-पारिहार्य्य^२-रशना-स्वनै^३-मुखरेण, स्कन्धावसक्त^४-कनकद्रण्ड-चामरेण, निर्गच्छता प्रविशता चानवरतं वारविलासिनीजनेनाकुलितम्^५, एकदेशनिषण्ण-चामीकर-शृङ्खला-संयत-श्वगणम्^६, इतस्ततः प्रचलित-परिचितामितकस्तूरिकाँकुरङ्ग-परिमल-वासित-दिङ्मुखम्, अनेक-कुब्जकिरात-वर्षवर^८-बधिर-वामन^९-मूक-सङ्कुलम्, उपाहृत-किन्नर-मिथुनम्, आनीतवनमानुषम्, आवद्ध-मेष-कुक्कुट-कुरर-कपिञ्जल-लावक-वर्त्तिका-युद्धम्,

पर्य्यन्तः प्रान्तदेशो यत्र तत्तादृशं राजकुलम्। इह इन्द्रायुधानामेकत्रीभूतत्वाभावाज्जात्युत्प्रेक्षा।

अमलेति। अमलाः स्वच्छा या मणिमय्यः खभूमयः तासु सङ्क्रान्तानि सञ्चारितानि मुखनिवहस्य वदनसमूहस्य प्रतिबिम्बानि यस्य तस्य भावस्तया कारणेन, विकचानि विकसितानि यानि कमलपुष्पाणि पङ्कजानि तेषां प्रकरं समूहं सम्पादयतेव प्रवर्त्तयतेव, तद्वदनानां कमलसदृशत्वादित्याशयः। गतिवशेन गमनवशेन कारणेन रणितानि शब्दितानि यानि नूपुराणि पादकटकानि पारिहार्याणि कङ्कणानि, रशना काञ्चीदामानश्च तेषां स्वनैः शब्दैः मुखरः शब्दायमानः तेन तादृशेन। स्कन्धेषु अवसक्तानि स्थापितानि कनकद्रण्डानि चामराणि यस्य तेन तादृशेन। तथा अनवरतं निरन्तरं निर्गच्छता निःसरता प्रविशता च वारविलासिनीजनेन गणिकामण्डलेन आकुलितं व्याप्तं राजकुलम्। इह 'सम्पादयन्नेव' इत्यत्र क्रियोत्प्रेक्षा।

एकदेशेति। एकदेशे एकभागे निषण्ण आसीनः चामीकरशृङ्खलाभिः सुवर्णशृङ्खलाभिः संयता बद्धा ये श्वानः कुक्कुराः तेषां गणः समूहो यत्र तत्तादृशन्।

इतस्तत इति। इतस्ततः समन्तात् प्रचलिताः, परिचिताः विश्वस्तहृदयाः, अमिताः असङ्ख्या ये कस्तूरिकाः कस्तूरीविशिष्टाः कुरङ्गा हरिणाः तेषां परिमलेन शरीरसुगन्धेन वासितानि आमोदितानि दिङ्मुखानि दिग्बदनानि यन्य तत्तादृशम्।

अनेकेति। अनेके ये कुब्जाः, किराताः कृशशरीराः 'किरातो म्लेच्छभेदे स्यात् भून्निम्बेडत्पत्तनावपि' इति मेदिनी। वर्षम् अवरोधपुरं विवृण्वन्तीति वर्षवरा नपुंसकाः बधिराः श्रोत्रेन्द्रियविकलाः, वामनाः ह्रस्वशरीराः, मूकाः वाक्सामर्थ्यरहिताश्च तैः सङ्कुलं व्याप्तं राजकुलम्।

उपाहृतेति। उपाहृतानि एकत्रीकृत्य आनीतानि किन्नरमिथुनानि अश्वमुखदम्पत्यो यस्मिंस्तत्तादृशम्। आनीता उपाहृताः वनमानुषा अरण्यमनुष्यरूपवनचरा यस्मिंस्तत्तादृशम्। आवद्धानि सङ्घटितानि मेषैः एडकैः 'मेषवृष्णय एडके' इत्यमरः, कुक्कुटैश्चरणायुधैः, कुररैः मत्स्यादनैः पक्षिविशेषैः, कपिञ्जलावकवर्त्तिकाभिश्च सह युद्धानि मल्लत्रामा यस्मिंस्तत्तादृशम्। उत्कूजिताः तारस्वरेण शब्दायमानाः चकोराः विषसूचकाः कादम्वाः कलहंसाः, हारीताः पक्षिविशेषाः, कोकिलाः पिकाश्च यस्मिंस्तत्तादृशम्। लालप्यमानाः भूयो भूयः सम्भाषयन्त्यः शुकसारिका यस्मिंस्तत्तादृशम्।


विविध रंगके ऊन कम्बल और रत्नास्नों (अथवा गलीचे एवं जहाट कुर्सियों) से सभामण्डपका प्रान्तभाग सुशोभित होता था। वाराङ्गनाएँ कन्धे पर सोनेकी डंडीके चामर रखकर बारंबार जाती आती थीं, उस समय निर्मल मणिमय भूमिमें उन लोगोंके मुखोंका प्रतिबिम्ब पड़ जानेसे मानो खिले हुये कमल समूहको उत्पन्न करती थीं, और चलनेसे उन लोगोंके नूपुर (पायजेब), कङ्कण और चन्द्रहार (रसना) के शब्दसे शरीर भी शब्दिंत होता था। उसके एक भागमें सोनेके जंजीरसे बँधे कुत्ते बैठै थे। विश्वस्तचित्त होकर हजारों पालतू कस्तूरी-मृग इधर-उधर विचरण करते थे, उनके देहकी सुगन्धिसे सब दिशायें सुगन्धमय हो गई थीं उस राजभवनमें अनेक कुब्ज (कुबडे) किरात (कृशशरीरवाले), नपुंसक, बधिर, वामन और मूकन्न (गूंगा) व्याप्त थे। वहाँ किन्नरोंके जोड़े और वनमानुष लाकर रखे गए थे। जगह-जगह पर भेड़, वनकुक्कुट (जंगली मुर्गे), कुरर, चकोर, लवा और बटेरकी लड़ाई कर रहे


१. क्वचित् 'मणि' पदं नास्ति। २. परिहार्य्यं। ३. रव। ४. संन्यस्त। ५. वारविलासिनीनां दलेन। ६. श्वागणम्। ७. अपरिमितासितकस्तूरिक। ८. ...वर्षधर, वर्षवरवर्षवर...। ९. वामनक।

२७२कादम्बरी-[ कथायाम्-

उत्-कूजित-चकोर-कादम्ब-हारीत-कोकिलम्, लालप्यमानं-शुकसारिकम्, इभपतिमद-परिमलामर्ष-जृम्भितैश्च निष्कूजद्भिः शिखरिणां जीवितैरिव गिरिगुहानिवासिभिर्गृहीतैः पञ्जरकेसरिभिरुद्भास्यमानम्, उत्त्रस्यमानैः काञ्चनभवन-प्रभा-जनित-दावानल-शङ्कैलॉ-लतारकैर्भ्रमद्भिर्वने-हरिण-कदम्बकैलॉचनप्रभया शवलीकृतदिगन्तरम्, उद्दाम-केकारवानुमीयमान-मरकत-कुट्टिम-स्थितशिखण्डि-मण्डलम्, अतिशिशिर-चन्दन-विटपि-च्छाया-निषण्ण-निद्रायमाणगृह-सारसम्, अन्तःपुरेण च बालिकाजन-प्रस्तुत-कन्दुक-पञ्चालिकाक्रीडेन,

इभपतीति। इभपतयो गजेन्द्राः तेषां मदपरिमलैः दानवारिसुगन्धैः ये अमर्षाः कोपाः तैः जृम्भिताः पञ्जराभ्यन्तरेष्वेव घूर्णिताः तैस्तादृशैः, निष्कूजद्भिः शब्दायमानैः, शिखरिणां पर्वतानां जीवितैरिव प्राणैरिव, तद्गुहानिवासिभिः पर्वतवन्दरावस्थायिभिः गृहीतैः पर्वतकन्दरात् आदाय आनीतैः पञ्जरकेसरिभिः पञ्जरगस्तमृगेन्द्रैः उद्भास्यमानम् उत्कर्षेण विराजयमानम्, राजकुलम्। इह सिंहविषये 'निष्कूजद्भिः' इत्यसम्वद्धमेव स्यातविरुद्धतादोषसद्भावात् तस्मात् 'गर्जद्भिः' इति पाठं विधाय परिहर्त्तव्यम्।

उत्त्रास्येति। काञ्चनभवनानि सुवर्णरचितगृहाणि तेषां प्रभाभिः कान्तिभिः जनिता उत्पादिता दावानलशङ्का वनवह्निसन्देहो येषां तैः तादृशैः, अत एव उत्त्रास्यमानैः तयैव शङ्कया विशेषेण त्रासं प्राप्यमाणैः, अत एव च लोलतारकैः चञ्चलकनीनिकैः वर्त्तमानैः भ्रमद्भिः इतस्ततः पर्यटद्भिः, वनहरिणानां काननमृगाणां कदम्बकैः समूहैः, लोचनप्रभया नेत्रकान्त्या शवलीकृतानि विचित्रीकृतानि दिशामन्तराणि यस्य तत्तादृशम्। तेषां लोचनानामपि शवलत्वादित्याशयः।

इह काञ्चनभवनप्रभासु मृगाणां वनवह्निभ्रमाद्भ्रान्तिमानलङ्कारः। तथा नेत्रकान्त्या दिगन्तराणां विचित्रीकरणसम्बन्धाभावेऽपि तत्सम्बद्धप्रतिपादनादतिशयोक्त्यलङ्कारः। अनयोश्च परस्परनैरपेक्ष्येण विद्यमानत्वात्तिलतण्डुलवत्संसृष्टिरलङ्कारः।

उद्दामेति। उद्दामैः विस्तृतैः केकारवैः मयूरवाणीध्वनिभिः अनुमीयमानम् अनुमानविषयीक्रियमाणं मरकतकुट्टिमेषु अश्मगर्भबद्धभूमिषु स्थितम् उपविष्टं शिखण्डिमण्डलं मयूरसमूहो यत्र तत्तादृशम्। मरकतकुट्टिमानां शिखण्डिनाञ्च समानवर्णतया तत्रोपविशनां लोचनगोचराभावात् केवलकेकारवैरेवानुमानमित्याशयः।

अतिशिशिरेति। अतिशिशिराः अत्यन्तशीतलाः चन्दनविटपिनां चन्दनतरूणां छाया आतपाः तासु निषण्णा उपविष्टाः सन्तो निद्रायमाणाः प्रमीलां विदधतः गृहसारसाः भवनपोषितसारसपक्षिणो यस्मिंस्तत्तादृशम्।

अन्तःपुरेणेति। किञ्चेति चार्थः। 'अन्तःपुरेणे'ति 'समुपेताभ्यन्तरम्' इत्यग्रेतनपदार्थान्तःपतितायाः 'समुपेत' इति क्रियायाः कर्तृ पदम्। तथैह तृतीयाया एकवचनान्तानि पदानि 'अन्तःपुरेण' इत्यस्य विशेषणानि। बालिकाजनैः कन्याकावर्गैः प्रस्तुता आरब्धा कन्दुकैः गेन्दुकैः पञ्चालिकाभिः वसनरचितपुत्रिकाभिश्च क्रीडा खेला यत्र तेन तादृशेन।

'पञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता' इत्यमरः।

थे, किसी किसी जगह चकोर, कलहंस, हारीत और कोकिल ऊँचे स्वर से शब्द (गान) कर रहे थे, किसी जगह शुक और सारिका (तोता-मैना) का आलाप हो रहा था। जो सिंहगण पहले पर्वतोंकी गुफाओंमें रहने से उनके जीवनके समान थे, वे सिंह इस राजभवनके अन्दर पकड़कर पिंजरोंमें बन्द कर दिए गए थे वे हाथियोंके मदजलकी सुगन्ध पाकर क्रोधसे पिंजरेके अन्दर ही घूमते हुए बड़ी गर्जना करते थे। पालतू हरिणगण, सुवर्णकी गृहदीवारोंकी प्रभा (चमक) को दावानल समझकर भीत होकर चञ्चलनयनसे इधर उधर विचरण करते हुए नेत्रोंकी प्रभासे वहाँकी सब दिशाओंको चित्रित करते थे। वहाँ मरकत मणि-मय भूमि पर रहनेवाले मयूरोंका अपनी केकारवसे ही पहचान होता था। अत्यन्त शीतल चन्दनवृक्षोंकी छायामें बैठे पालतू सारस (मैने) ऊँघने लगते थे। राजभवनके अन्दर अन्तःपुर (रनिवास) संलग्न था, वहाँ लड़कियाँ गेंद और कपड़ेके बने हुए


१. आलप्यमान... । २. क्वचित् 'इभ' इति पदं नास्ति । ३. क्वचित् 'मद' इति पदं नास्ति । .४भवन ।

राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता २७३

अविरत-वाह्यमान॑-दोला२-शिखर-क्वणित-घण्टा-टङ्कार-पूरिताशामुखेन, भुजग-निर्मोक-शङ्कित-मयूर-ह्रियमाणहारेण, सौध-शिखरावतीर्णप्रचलित-पारावत-कुलतया स्थलोत्पलिनीवनशोभितेनेव, अन्तःपुरिकाजन-प्रस्तुत-नरपति-चरित-विडम्बनक्रीडेन, अश्वमन्दुरा-परिश्रष्टागतैर्बलुप्तभवन-दाडिमीफलैराखण्डिताङ्गन-सहकार-पल्लवैरभिभूत-कुब्ज-वामन-किरात-करतलाच्छिन्नानि भूषणानि विकिरद्भिः कपिभिराकुलीकृतेन॑, शुक-सारिका-प्रकाशित-सुरत-विस्रम्भालाप-लज्जितावरोधजनेन, प्रासाद-सोपान-समारोहणचलितैरवलानां

अविरतेति। अविरतं निरन्तरं वाह्यमानानां डोलनानन्दप्राप्तये तरुणीभिरारुह्य आन्दोल्यमानानां दोलानां डोलनयन्त्राणां शिखरेषु ऊर्ध्वप्रदेशेषु क्वणितानां सञ्चलनजवेषु शब्दितानां घण्टानां टङ्कारैः 'टंटम्' इति ध्वनिभिः पूरितानि भृतानि आशामुखानि दिग्भवनानि यस्मिंस्तेन तादृशेन ।

भुजगेति। भुजगनिर्मोकस्य अहिकञ्चुकस्य शङ्कितेन समुत्पन्नसन्देहेन हारं निरीक्ष्य भुजगनिर्मोकोऽयमिति भ्रान्तिमतेत्यर्थः, मयूरेण शिखण्डिना ह्रियमाणः गृह्यमाणः हारो मौक्तिकदाम यस्मिंस्तेन तादृशेन । इह हारे शिखण्डिनः भुजेगनिर्मोकभ्रमाद्भ्रान्तिमानलङ्कारः।

सौधेति। सौधशिखरात् अट्टालिकोर्ध्वदेशात् अवतीर्णं संप्रचलितं पारावतकुलं कपोतगणो यत्र तस्य भावस्तया कारणेन, स्थलोत्पलिनीनां सलिलशून्यस्थानगतसद्कल्कमललतानां वनेन समूहेन शोभितं राजितं तेनेव, तेषां पारावतानां कमलदलवत् ज्ञायमानत्वादित्याशयः। इह क्रियोत्प्रेक्षा ।

अन्तरिति। अन्तःपुरिकाजनैः अवरोधपुरस्थनारीलोकैः प्रस्तुता प्रारब्धा नरपतेः महाराजतारापीडस्य यच्चरितं नेपथ्यरचनाचारावलोकनक्रियाः तस्य विडम्बनम् अनुकरणमेव क्रीडा खेला यस्मिंस्तेन तादृशेन ।

अश्वेति। अश्वमन्दुगया वालिशालातः परिश्रष्टाः बन्धनादिमुक्ताः सन्तः आगताः प्राप्ताः तैस्तादृशैः। अश्वानां दृष्टिदोषप्रतिवन्धनार्थं वालिशालायां वानराः स्थाप्यन्त इति भूपतीनां व्यवहारः। अवलुप्तानि भिन्नानि, भवनदाडिमीफलानि गृहाङ्गनस्थदाडिमफलानि यैस्तैस्तादृशः। आखण्डितानि भिन्नानि अङ्गनसहकाराणां चत्वरवर्त्तिरसालतरूणां पल्लवानि किसलया यैस्तैस्तादृशैः । अभिभूताः तैरेव वानरैः आक्रम्य विजिता ये कुब्जवामनकिराताः तेषां करतलेभ्यः हस्ततलेभ्यः आच्छिन्नानि हठादाकृष्य गृहीतानि भूषणानि कटकाद्यलङ्कारान् विकिरद्भिः समन्ताद्विक्षिपद्भिः कपिभिः वानरैः आकुलीकृतेन व्यग्रीकृतेन । एवमेव हि कपिप्रकृतयः, तेनेह स्वभावोक्तिरलङ्कारः ।

शुकेति। शुकसारिकाभिः कीरपीतपादादिभिः शयनभवनायाताभिरिति भावः, प्रकाशिता अन्यजनसमीपे स्फुटमुच्चारिताः ये सुरतविस्रम्भालापाः सम्भोगसामयिकस्वच्छन्दवचनानुकरणवचनानि तैः लज्जिताः सञ्जातत्रपा अवरोधजना अन्तःपुरसुन्दर्यो यस्मिंस्तेन तादृशेन ।

प्रासादेति । प्रासादानां सौधानां सोपानेषु आरोहणेषु समारोहणेन उपरिष्टाद्गमनेन चलितैः स्पन्दितैः, अवलानां स्त्रीणां चरणेषु पादेषु अवसक्तैः विद्यमानैः मणिमयैः रत्नविकारैः, पदे पदे प्रतिपदक्षेपं रणद्भिः शब्दायमानैः तुलाकोटिवलयैः पादाङ्गदमण्डलैः 'पादाङ्गदं तुलाकोटिः' इत्यमरः, द्विगुणीकृतं निजशब्दैर्वर्द्धितं

दृष्टियोंसे खेलती थीं। युवतियाँ दिन-रात हिलते झूलों पर झूलती थीं, उन झूलोंके ऊपर भागमें घण्टियोंके 'ट ट' शब्दसे सभी दिशायें परिपूर्ण होती थीं। कोई मयूर एक हारको सर्पकी कंचुकी जानकर उसे खींच ले जाता था। महलोंके शिखरोंसे उतरकर नीचे चलते रहते कबूतरोंसे अन्दरका वह भाग ऐसा प्रतीत होता था मानो स्थलस्थित शोभामान कमलिनीका बन हो। अन्तःपुर (रनिवास) की सुन्दरियों महाराज तारापीडके चरित्रका अनुकरण करनेकी क्रीडामें लगी रहती थीं। वन्दरोंके झुण्ड अश्वशाला (अस्तवल) में से वहां आकर, घरके आंगनमें विद्यमान अनारके फलोंको कुतर कर, चत्वरस्थित आमोंके पल्लवोंको तोड़कर, कुब्ज, वामन और किरातको परास्त कर उन लोगोंके हाथोंसे वलपूर्वक (जवरदस्ती) आभूषणोंको छीनकर उन्हें इधर-उधर विखेर (फेंक) कर अन्तःपुरको व्याकुल करते थे। शयनगृहमें रहनेवाले शुक और सारिकागण (तोते और मैना) सम्भोगसमयके विस्रम्भालापको दूसरे लोगोंके सामने प्रकाशित कर अन्तःपुरकी सुन्दरियोंको लज्जित करते थे। पालतू कमहंसोंकी पङ्क्तियोंसे वहाँका आँगन सफेद प्रतीत होता था, इस तरह महलको सीढ़ियों पर चढ़ती हुई सुन्दरियोंके पैरोंमें पहने हुए


१. अनवरतसंवाह्यमान...। २. ...तोलो...। ३. स्थलोत्पलिनीवनेनेव । ४. ...आकुलीभूतेन ।

२७४कादम्बरी-[ कथायाम्-

चरणावसक्तैर्मणिमयैः पदे पदे^१ रणद्भिस्तुलाकोटिचलैर्यैद्विगुणीकृत-कूजित-रुताभिः^२ भवन- -कलहंसमालाभिर्धवलिताङ्गनेन, धृतै-धौत-धवल-दुकूलोत्तरीयैः कलधौत-दण्डावलम्बिभिः पलित-पाण्डुर-मौलिभिराचारमयैरिव विनयमयैरिव मर्या॑दामयैरिव मङ्गलमयैरिव गम्भीराकृ- तिभिः स्वभावधैर्यैरुष्णीषिभिर्वयःपरिणामेऽपि जरत्सिंहैरिवापरित्यक्तसत्त्वावष्टम्भैः कञ्चुकिभि- रधिष्ठितेन समुपेतमभ्यन्तरम् , जलधरं-सनाथमिव कृष्णागुरुधूमपटलैः, सनीहारमिव याम- कुञ्जरघटा-कर-शीकरैः, सनिशमिव तमालवीथिकान्धकारैः, सबालातपमिव रक्ताशोकैः,^११ सतारागणमिव मुक्ताकलापैः, सर्वर्षसमयमिव धारागृहैः, सतडिल्लतमिव हेममयीभि-

कूजितरुतम् अव्यक्तशब्दो यासां ताभिः, तादृशीभिः, भवनकलहंसमालाभिः भवनपोषितकादम्बपङ्क्तिभिः धवलितं निजनिजस्थित्या श्वेतीकृतम् अङ्गनम् अजिरं यस्य तेन तादृशेन । 'अङ्गनं चत्वराजिरम्' इत्यमरः ।

धृतेति । धृतानि धारितानि धौतानि रजकक्षालितानि अत एव धवलानि शुभ्राणि दुकूलोत्तरीयाणि पट्टोत्तरीयवस्त्राणि यैस्तैस्तादृशैः । कलधौतदण्डान् सुवर्णयष्टीः अवलम्बन्ते धारयन्तीति तैस्तादृशैः । पलितेन जराजनितश्वेततया पाण्डुराः धवलाः मौलयः कचाः येषां तैस्तादृशैः । आचारमयैरिव साधुव्यवहारनिष्पन्नैरिव सर्वस्मिन् समये तदनुसरणात्तदुपदेशाच्चेत्याशयः । विनयमयैरिव सर्वस्मिन् समये नम्राचरणात् । मर्यादा नीतिपथप्रवर्त्तनं तन्मयैरिव सर्वस्मिन् स्थले न्याय्यव्यवहरणात् । मङ्गलमयैरिव समस्तानामेव प्राणिनां सर्वस्मिन् समये मङ्गलाद्युध्यानात् । गम्भीरा दुरवगाहा अचपला अचञ्चला आकृतयः स्वरूपाणि येषां तैस्तादृशैः । स्वभावाः चित्तवृत्तयोऽपि धीरा धैर्यवन्तो येषां तेस्तादृशैः । उष्णीषाणि मूर्द्धवेष्टनानि एषां सन्तीति तैः । वयःपरिणामेऽपि जरावस्थायामपि विद्यमानेऽपि जरत्सिंहैरिव वृद्धहर्यक्षैरिव, अपरित्यक्तः अनुज्झितः सत्त्वावष्टम्भः साहसावलम्बनं यैस्तैस्तादृशैः । कञ्चुकिभिः प्रतिपादितस्वरूपैः वृद्धब्राह्मणैः अधिष्ठितेन आश्रितेन प्रदर्शितविधिनाऽन्तःपुरेण, समुपेतं सहितम् अभ्यन्तरं मध्यभागो यस्य तत्तारशं 'राजकुलम्' इत्यस्य विशेषणम् ।

आचारमयैरिव, विनयमयैरिव, मङ्गलमयैरिव, इत्यत्र विकारार्थे मयट्प्रत्ययविधानात् विकारस्य चान्याथारूपत्वेन गुप्तत्वात्तस्य चोत्प्रेक्षणाद् गुणोत्प्रेक्षालङ्कारः ।

जलधरेति । कृष्णागुरुणां काकतुण्डानां दह्यमानानां धूमपटलैः धूमसमूहैः, जलधरसनाथमिव मेघसहितमिव धूमसमूहानां जलधरसदृशत्वादित्याशयः । यामकुञ्जरघटायाः प्रतिप्रहरपरिवर्त्तिनगजतिकरस्य करशीकरैः शुण्डातो निःसृतसलिलकणैः सनीहारमिव तुहिनसहितमिव, तुहिनवत् तेषां पतनात् तमालवीथिकाभिः तमालवृक्षपङ्क्तिभिः ये अन्धकाराः तमांसि तैः सनिशमिव रात्रिसहितमिव, उभयतमसामपि सदृशत्वात् । रक्ताशोकैः कुसुमैः सबालातपमिव अभिनवदिनकरालोकयुक्तमिव, बालातपवत् तदशोकानां लोहितत्वात् । मुक्ताकलापैः मुक्ताप्रलम्बैः सतारागणमिव सनक्षत्रसमूहमिवानिद्यमानम् मुक्ताकलापानां तारागणवद्विस्तृतत्वाद्देदीप्यमानत्वाच्च । धारागृहैः अनवरतसलिलवर्षियन्त्रसहितभवनैः

पद-पद पर शब्द करते हुए-मणिमय नूपुरों (बिछुओं) और कङ्कणोंसे उन (कलहंसों) का स्वर द्विगुणित हो गया था। कञ्चुकिगण (वृद्ध ब्राह्मणगण), धुले हुए सफेद रेशमी कपड़ेका उत्तरीय (दुपट्टा) धारण कर, सोनेकी छड़ी हाथमें लेकर उस अन्तःपुरमें फिरते रहते थे। वे मानो सदाचारमय, विनयमय, मर्यादामय और मङ्गलमय थे। उनकी आकृति गम्भीर थी, स्वभाव धीर था, एवं मस्तकके ऊपर पगड़ी बँधी हुई थी। और वृद्ध होनेपर भी वृद्धसिंह जिस प्रकार पशुओंका अवलम्बन नहीं छोड़ता, उसी प्रकार उन्होंने भी उत्साह नहीं छोड़ा था। और वह राजभवन, जलते हुए काले अगरुके धूमराशिसे मानो मेघयुक्त था, प्रतिपहरमें परिवर्त्तित हाथियोंकी सूँड़मेंसे निकलते हुए जलविन्दु-समूहसे मानो वहाँ हिमकरण बरस रहे थे; तमालवृक्षोंकी कुञ्जोंके अन्धकारसे मानो वहाँ रात्रि थी, ऐसा प्रतीत होता था, लाल अशोकपुष्पसे मानो बाल-सूर्यका उदय हुआ था, मुक्ताकलापसे मानो तारेगण आ गए हों ऐसी प्रतीति होती थी; जल्यन्त्र (फुहारों) के गृह रहनेसे मानो वर्षा समय आ गया हो ऐसा


१. मणिमयैर्विभूषणैः पदे पदे ।
२. ⋯रुताभिः ।
३. क्वचित् 'कल' इति पद नास्ति ।
४. धवलीकृताजिरेण ।
५. क्वचित् 'धूतपदं' नोपलभ्यते ।
६. कचित् 'पात्र' इत्यधिकः पाठः समुपलभ्यते
७. आचारनयैरिव ।
८. क्वचित् 'विनयमयैरिव' इति पाठ एव नोपलभ्यते ।
९. जरीज्रत ।
१०. सजलजलधर ।
११. आरक्ताशोकैः ।

राजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । [ २७५

मयूरयष्टिभिः, सगृहदैवतमिव शालभञ्जिकाभिः, शिवभवनमिव द्वारावस्थित-दण्डपाणि-प्रतीहारगणम्, उत्कृष्टकविगद्यमिव विविधवर्णश्रेणि-प्रतिपाद्यमानानेकाभिनवार्थ-सञ्चयम्; अप्सरोगणमिव प्रकटमनोरमारम्भम्, दिवसकरोदयमिव उल्लसत्पद्माकर-कमलामोदम्, उष्णकिरणमिव निजलक्ष्मीकृतकमलोपकारम्; नाटकमिव पताकाङ्कैःशोभितम्, शोणितपुर-


सर्वापंसमचमिव प्रावृट्कालसहितमिव । हेममयीभिः सुवर्णनिर्मिताभिः मयूरयष्टिभिः कलापिवृन्दोपवेशनदण्डैः सतडिद्गतमिव विद्युल्लतासहितमिव तद्दण्डानां तडिद्वदवनीयमानत्वात् । शालभञ्जिकाभिः दारपुत्रिकाभिः सगृहदैवतमिव, तासां भवनदेवतावद्भवनमध्येऽवस्थानात् । इह 'जलधरसनाथमिव' इत्यारभ्य 'सगृहदैवतमिव' इत्यन्तेषु सप्तसु वाक्येषु साहित्यस्य संयोगरूपतया गुप्तवात्तस्य चोत्प्रेक्षणात् गुणोत्प्रेक्षालङ्कारः ।

शिवेति । शिवभवनमिव काशीस्थविश्वनाथमन्दिरमिव, द्वारावस्थितः द्वारि विद्यमानः दण्डपाणिः यष्टिहस्तः प्रतीहारगणः द्वारपालनिकरः यस्य तत्तादृशम् । अन्यत्र तु द्वारावस्थिताः दण्डपाणिः तत्संज्ञको भैरवविशेषः, प्रतीहाररूपा गणाः प्रमथाश्च यस्य तत्तादृशम् ।

उत्कृष्टेति । उत्कृष्टकवेः अलङ्कारप्रसाद्माधुर्यगुणोपेतकाव्यरचयितुः गद्यं छन्दोरहितं गद्यात्मकं वासवदत्तादिकं काव्यमिव, कादम्बरीकाव्यमिवेत्यपि व्यज्यते । विविधा अनेकप्रकाराः वर्णाः ब्राह्मणादयः तेषां श्रेण्या समूहेन प्रतिपाद्यमानः उपाद्यनभावेन समर्प्यमाणः अनेको विविधः अभिनवो नूतनः अर्थसञ्चयः धनराशियस्मिन् तत्तादृशम् । अन्यत्र तु विविधा नानाप्रकाराः वर्णाः अक्षराणि तेषां श्रेण्या पङ्क्त्या प्रतिपाद्यमानः निरूप्यमाणः अनेकेषां विविधानाम् अभिनवानां नूतनानाम् अश्रुतपूर्वाणामित्यर्थः' नर्यानां विषयाणां सञ्चयो राशियंत्र तत्तादृशम् ।

अप्सर इति । अप्सरोगणमिव, प्रकटा गोपनरहिताः सर्वविदिता इत्यर्थः, मनोरमाः सुन्दराश्च आरम्भाः कार्योपक्रमा यत्र तत्तादृशम् । पक्षे तु प्रकटमनोरमा अत्यन्तसुन्दरी रम्भा तत्संज्ञका वेश्या यत्र तं तादृशम् ।

दिवसेति । दिवसकरः सूर्यः तस्य उदयमिव उद्गमनमिव, उल्लसन् परिस्फुरन् पद्माकरकमलानां सरसीतटगतमृगविशेषाणाम् आमोदः कस्तूरिकासुगन्धिः यत्र तत्तादृशम् । पक्षे उल्लसन् विकसिततया समन्तात् प्रसरन् पद्माकरकमलानां सरसीस्थपङ्कजानाम् आमोदः सुगन्धिः यस्मात्तं तादृशम् ।

'पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे ।' इति हैमः ।

उष्णेति । उष्णकिरणः उष्णारश्मिः सूर्यस्तमिव, निजलक्ष्म्या स्वीयकान्त्या कृतो विहितः कमलायाः राज्यश्रियः उपकारः वर्द्धनरूपसाहाय्यं येन तादृशम् । पक्षे निजलक्ष्म्या स्वीयप्रकाशरूपश्रिया कृतः कमलानां पङ्कजानाम् उपकारः प्रस्फुटनरूपोपकृतिर्येन तं तादृशम् ।

नाटकमिति । नाटकं तत्संज्ञकम् अभिनेयविशेषमिव, पताकाभिः वैजयन्तीभिः अङ्कैः अनेकप्रकार-


बोध हो रहा था; मयूरोंके बैठनेके लिए सुवर्णमय डंडोंसे मानो विद्युल्लता-युक्त और अधिकतर कठपुतलियोंके रहनेसे मानो गृहदेवतागण ही उपस्थित हों ऐसी प्रतीति होती थी । विश्वेश्वर (महादेव) मन्दिरके दरवाजेके पास जिस प्रकार दण्डपाणि, भैरव और प्रमथगण द्वारपाल रूपमें रहते हैं, उसी प्रकार उस राजभवनके दरवाजेके पास भी हाथोंमें छड़ी लिए द्वारपालगण रहते थे । उत्कृष्ट कविके बनाए हुए गद्यकाव्यमें जिस प्रकार विविध अक्षरोंकी श्रेणीसे नया-नया अभिप्राय प्रकट होता रहता है, उस राजभवनमें भी उसी प्रकार ब्राह्मणादि नाना-वर्णीय व्यक्तियोंको नये-नये अनेक प्रकारके द्रव्योंको उपहाररूपमें दिया जाता था । अप्सराओंके बीचमें जिस प्रकार अत्यन्त सुन्दरी रम्भा नामकी अप्सरा है, उस राजभवनमें भी उसी प्रकार प्रकटरूप भावसे सुन्दर-सुन्दर कार्यारम्भ होते थे (अथवा मनोरञ्जक खेल होते थे) । सूर्यके उदयमें जिस प्रकार सरोवरमें रहनेवाले कमलोंकी सुगन्धि बाहर निकलती है, उस राजभवनमें भी उसी प्रकार सरोवरतीरमें रहनेवाले कस्तूरीमृगोंके शरीरोंकी सुगन्धि बाहर होती थी । सूर्य जिस प्रकार अपने प्रकाशरूप शोभाद्वारा कमलोंका प्रकाररूप उपकार करते हैं, वह राजभवन भी उसी प्रकार अपनी शोभा द्वारा राज्यलक्ष्मीकी वृद्धिरूप उपकार करता था । नाटकग्रन्थ जिस प्रकार पताका (नाटकका अङ्क) और अङ्क द्वारा शोभित होता है, वह राजभवन भी उसी प्रकार ध्वज, पताका और बहुतसे


१. कविकाव्यमिव ।
२. श्रेणी ।
३. क्वचिद् 'अनेक' इति पदं न विद्यते ।
४. रम्भाभोगम् ।
५. प्रकटपताकाङ्क ।

२७६ कादम्बरी- [ कथायाम्-

मिव बाणयोग्यावासोपेतम्, पुराणमिव विभागावस्थापिते सकलभुवनकोशम्, सम्पूर्ण-चन्द्रो- दयमिव मृदुकरसहस्रसंवर्द्धितरत्नालयम्, दिग्गजमिवाविच्छिन्न-महादान-सन्तानम्, ब्रह्मा- ण्डमिव सकलजीवलोकव्यवहार-कारणोत्पन्नहिरण्यगर्भम्, ईशानबाहुवनमिव महाभोगि-


विद्वैश्च शोभितं राजितम्। पक्षे पताकया 'व्यापि प्रासङ्गिकं वृत्ते पताकेत्यभिधीयते' इत्युक्तस्वरूपेण अर्थप्र- कृतिविशेषेण, अङ्गैः 'प्रत्यक्षनेतृचरितो रसभावसमुज्ज्वलः' इत्यादिस्वरूपकैः परिच्छेदैश्च शोभितं राजितम्।

शोणितेति। शोणितपुरं तत्संज्ञकं बाणनाम्नो दैत्यस्य नगरं तदिव, बाणानाम् इषूणाम् इष्वाद्या- युधानामित्यर्थः, बाणस्य बाणनृपतेश्च योग्यैः समुचितैः आवासैः भवनैः उपेतं सहितम्।

पुराणमिति। पुराणं व्यासप्रणीतमत्स्यपुराणादिशास्त्रमिव, 'पुराणलक्षणञ्चोक्तममरकोशटीकायाम्-

'सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च। भूम्यादेश्चैव संस्थानं पुराणं पञ्चलक्षणम् ॥'

अष्टादशपुराणानाञ्च संक्षेपेण नामानि चोक्तमन्यत्र-

'मद्वयं भद्वयं चैव ब्रत्रयं वचतुष्टयम् । अनापलिङ्गकूस्कानि पुराणानि जगुर्बुधाः ।।'

विभागेन पङ्क्तिक्रमरूपेण अवस्थापितः रचितः सकलभुवनकोशः समस्तसंसारे यावान् अर्थसञ्चयः सम्भवति तावान् अर्थसञ्चय इत्यर्थः, यत्र तत्तादृशम्। पक्षे विभागे अंसविशेषे अवस्थापितः कथनेन ज्ञापितः सकलानां समस्तानां चतुर्दशानां भुवनानां मण्डलं यत्र तत्तादृशम्, निखिलेष्वपि पुराणेषु समस्त- संसाराणां निरूपगोपलम्भादित्याशयः।

'कोशोऽस्त्री कुड्मले पात्रे दिव्ये खङ्गपिधानके। जातिकोशेऽर्थसङ्घाते पेश्यां शब्दादिसङ्ग्रहे ॥' इति मेदिनी ।

सम्पूर्णेति । सम्पूर्णचन्द्रोदयमिव समस्तचन्द्रोद्गमनमिव राकापत्युदयमिवेत्यर्थः, मृदवः कोमलाः प्रजाभिरनायासेन समर्पिताः ये कराः राजदेयद्रव्याणि तेषां सहस्रेण समूहेन संवर्द्धिता वृद्धि प्रापिता- रत्नालयाः धनागाराणि यस्य तत्तादृशम्। पक्षे मृदुकरसहस्रेण कोमलरश्मिजालेन संवर्द्धिता वृद्धि प्रापिताः रत्नालयाः सागरा येन तं तादृशम्।

दिगिति । दिग्गजो दिग्हस्ती तमिव, अविच्छिन्नः विराममप्राप्तः धाराप्रवाहेण संयुक्त इत्यर्थः, महा- दानानाम् अत्यधिकद्रव्यवितरणानां सन्तानः परम्परा यत्र तत्तादृशम् । पक्षे अविच्छिन्नः महादानसन्तानः सातिशयपदसलिलधारा यस्य तं तादृशम् ।

ब्रह्माण्डमिति । ब्रह्माण्डं भुवनकोशमिव, सकलजीवलोकानां समस्तप्राणिवर्गाणां व्यवहारः विवा- दादिनिश्चयं एव कारणं हेतुः तस्मादुत्पन्नानि सञ्जातानि विवादनिश्चयसमये जनैः समर्पितानीत्यर्थः, हिर- ण्यानि द्रव्याणि गर्भे मध्ये यस्य तत्तादृशम्। पक्षे सकलजीवलोकानां व्यवहारः आचार एव कारणं तस्मा- दुत्पन्नः जनव्यवहारनिश्चयाय उत्पन्न इत्यर्थः, हिरण्यगर्भो ब्रह्मा यत्र तत्तादृशम् । जनानां सर्जनाय तद्- व्यवहारनिश्चयाय च तस्योत्पन्नत्वादित्याशयः ।

ईशानेति । ईशानस्य शङ्करस्य वाहूनां भुजानां वनं समुदायमिव, वाहूनां वृत्तसदृशविस्तृतत्वाद्धन- शब्दप्रयोगः महाभोगिनः सातिशयसुखिनो जनाः तेषां मण्डलानां समूहानां सहस्रेण अधिष्ठिता


चिह्नद्वारा शोभित था। शोणितपुर जिस प्रकार बाण राजाके योग्य भवनोंसे युक्त था, वह राजभवन भी उसी प्रकार बाण आदि अस्त्रोंके रखने योग्य-भवनोंसे युक्त था। पुराणशास्त्रमें जिस प्रकार चतुर्दश भुवनोंका वृत्तान्त वर्णित है, उस राजभवनमें भी उसी प्रकार समस्त संसारकी धनराशि अलग-अलग रूपमें कतार लगाकर रखी थी। सम्पूर्ण चन्द्रका उदय जिस प्रकार कोमल किरणोंसे समुद्रोंको बढ़ाता है, उस राजभवनमें भी उसी प्रकार प्रजाओं द्वारा विना परिश्रमके दिए हुए छोटे-छोटे करों (महसूलोंसे धनागार खजाने) की वृद्धि होती थी। दिग्गजोंकी विशाल मद-जलधारा जिस प्रकार अविच्छिन्न रूपसे बहती रहती है, उस राजभवनमें भी उसी प्रकार अत्यन्त धनवितरण अविच्छिन्नरूपसे (विना रुकावटके) होता रहता था। ब्रह्माण्डमध्यमें जिस प्रकार प्राणियोंके व्यवहार, निरूपण करनेके लिए हिरण्यगर्भ (ब्रह्मा) उत्पन्न हुए थे, उस राजभवनके मध्यमें भी उसी प्रकार सभी लोगोंके विवाद- मीमांसा होनेसे उसमें लोगों द्वारा दिया गया अधिकतर धन उत्पन्न हो गया था (अर्थात् लोगोंके अभियोग मुकदमों) का निर्णय (फैसला) होनेसे फीसका बहुत-सा धन एकत्रित हो गया था)। शङ्करकी भुजाओंके


१. यथाविभागावस्थापितः, अवस्थित ००० । २. पूर्ण००० ।

राजकृष्णवर्णना २१.] चन्द्रकला-विद्योतिनीसहिता । २७७

मण्डलसहस्रसंवितिष्ठत्-प्रकोष्ठम्, महाभारतमिवानन्तगीताकर्णनानन्दितनरम् ; यदुवंशमिव कुलक्रमागत-शूर-भीमपुरुषोत्तमदल-परिपार्कलतम् ; व्याकरणमिव प्रथम-मध्यमोत्तम-पुरुष-विभक्तिस्थितानेकादेश-कारकख्यात-सम्प्रदानक्रिया-व्यय-प्रपञ्च-सुस्थितम् ; उदधिमिव भया-

साश्रिताः प्रकोष्ठा भवनान्तराणि यस्य तत्तादृशम् । पक्षे महाभोगिनो महासर्पाः तेषां मण्डलानां मण्डलीभूय विद्यमानानां सहस्रेण संवितिष्ठन्तः संश्रिताः प्रकोष्ठा मणिवन्धदेशा यस्य तत्तादृशम् ।

नहेति । महाभारतं पञ्चमो वेदः इतिहास इति पर्यायार्थः तमिव, अनन्ताः गणनातीता गीता गीता-पाठाः तेषां यद् आकर्णनं तेन आनन्दिताः हर्षिता नरा मानवा यस्मिन् तत्तादृशम् । पक्षे—अनन्तः श्रीकृष्णः तस्य या गीता अष्टादशाध्यायात्मिका श्रीकृष्णप्रतिपादिता गीतेत्यर्थः, तस्या यदाकर्णनं तेन आनन्दितो नरः नरसंज्ञकर्नरनावतारोऽर्जुनो यस्मिंस्तत्तादृशम् ।

यदिरिति । यदुसञ्ज्ञाना भूपतिः तस्य वंशः सन्तानपरम्परा तमिव, कुलक्रमेण परम्परया आगता आद्यानाः शूराः शौर्यगुणयुक्ताः, भीमाः भीषणाय ये पुरुषोत्तमाः पुरुषश्रेष्ठाः तेषां बलेन शक्त्या परिपालितं रक्षितम् । पक्षे—कुलक्रमेण तद्वंशीयरीत्या लागतौ उत्पन्नौ शूरौ वीरौ भीमौ विपक्षियां भीषणौ यौ पुरुषो-त्तमबलौ श्रीकृष्णबलरामौ ताभ्यां परिपालितं संरक्षितम् ।

व्याकरणमिति । व्याकरणं पाणिन्द्यादिप्रणीतंशब्दशास्त्रमिव, प्रथममध्यमोत्तमता या पुरुषवि-भक्तिः 'अयं सर्वगुणसम्पन्नतया प्रथमो दानयोग्यः, अयं ततो न्यूनगुणयुक्ततया मध्यमो दानयोग्यः, अयञ्जो-त्तमगुणसम्पन्नतया मध्यमत उत्तमो दानयोग्यः'इत्येवक्रमेण याचकजनविभागः, तस्मिन् विषये स्थिता नियु-क्ता ये ऽनेके बहव लादेशकारकाः 'अस्मै इदं प्रयच्छ' एवमादेशकत्तारः पुरुषाः तैः आख्याताः प्रतिपा-दिताः याः सम्प्रदानक्रियाः सम्यक्प्रकारेण वितरणकर्म्माणि ताभिर्यो व्ययप्रपञ्चः द्रव्यापगमाधिक्यं तेन सुस्थितं कीर्तिमत्त्वेन विद्यमानम् । पक्षे—प्रथमपुरुषो मध्यमपुरुषः उत्तमपुरुषश्चेति आख्यातानां प्रत्येक-त्रिकस्य एकैकसंज्ञा, विभक्तयः सुप्तिङ्रूपाः, तासु स्थिता विद्यमाना ये ऽनेके लादेशाः त्रिचतुर-शब्दयोः स्त्रीलिङ्ग तिस्त्र-चतस्र इत्यादयः, अज्जेर्व्री इत्यादयश्च, कारकाणि कर्त्रादीनि-तानि च—

'कर्त्ता कर्म च करणं च सम्प्रदानं तथैव च । अपादानाधिकरणमित्याहुः कारकाणि षट् ॥'

आख्यातं तिङन्तं पदम्, सम्प्रदानं चतुर्थ्यर्थकारकः, क्रियाः क्रियावोधकभ्वादयः शब्दाः, अव्ययानि—

'सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ इत्युक्तस्वरूपाणि स्वरादिप्रभृतयः, तेषां प्रपञ्चेन विस्तारेण सुस्थितं सुविख्यातम् ।'

यद्यपि कारकपदेनैव सम्प्रदानस्य गतार्थत्वं भवति तथापि श्लेषयोजनाभिप्रायेण पृथगुक्त्योपादानं बोध्यम् ।

उदधिमिति । उदकानि धीयन्तेऽस्मिन्नित्युदधिः समुद्रः तमिव, भयेन शत्रुभूपनित्रासेन अन्तःप्रविष्टा अभ्यन्तरगताः सपक्षाः सहायसहिता ये भूमिभृतो नृपतयः तेषां सहस्रेण साश्रित्येन सङ्कुलं व्याप्तम् । पक्षे भयेन सुरराजद्वारा पक्षच्छेदनत्रासेन अन्तःप्रविष्टाः सपक्षाः पत्रसहिता ये भृभृतो मैनाकादिगिरयः तेषां सहस्रेण सङ्कुलम् ।

मणिवन्धदेशों (कलाई पर) जिस प्रकार मण्डलीभूत बड़े-बड़े साँप लिपटे रहते हैं, उस राजभवनका एक भाग भी उसी प्रकार बड़े-बड़े सुखी लोगोंसे अधिष्ठित था । महाभारतमें जिस प्रकार अर्जुन श्रीकृष्णकी गीता सुनकर आनन्दित हुआ था, उस राजभवनमें भी उसी प्रकार बहुतसे लोग गीता (अथवा गान) को सुनकर आनन्दित होते थे । यदुवंश जिस प्रकार कुलक्रमके अनुसार बड़े वीर और भयङ्कर होकर उत्तम श्रीकृष्ण और बलरामद्वारा परिरक्षित हुआ था, वह राजभवन भी उसी प्रकार कुलक्रमागत शूर और भयङ्कर उत्तम पुरुषोंके सामर्थ्यसे परिरक्षित था । व्याकरणशास्त्र जिसप्रकार प्रथमपुरुष, मध्यमपुरुष, उत्तमपुरुष, सुप् और तिङ् विभक्ति, प्रकृतिस्थित अनेक गम्, अद् प्रभृतिके स्थानमें गच्छ्, वभ् आदि आदेश, एवं प्रत्ययस्थित ई, ट् प्रभृतिके स्थानमें दन्त्याद्यादेश, षड्विध कर्त्ता आदि कारक, भवति-गच्छति प्रभृति आख्यात, सम्प्रदान (चतुर्थी) कारक, भू-प्रभृति धातु, एवं अव्यय 'उच्चैः-नीचैः' आदि पदोंके विस्तारसे प्रसिद्ध है, वह राजभवन भी उसी प्रकार 'यह पहले दानके योग्य है, यह मध्यम दानके योग्य है एवं यह उत्तम दानके योग्य है ? इस प्रकार याचक लोगोंके वितरण कार्यमें नियुक्त अनेक आज्ञा माननेवाले (नाजिर आदि) लोगोंने बता दिया जिसे जो दान देना है, इसमें व्ययके आधिक्य


१. अध्यासिताप्रकोष्ठमिव ।
२. इदंच 'परि' इति पदं नास्ति ।
३ सम्प्रदानानादने ।