भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 307, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 307

२६८ - कादम्बरी- [ कथायाम्-

उज्ज्वल-पट्टकम्बल-पटु॑-प्रावारितै-पृष्ठैश्च रसित-मधुर-घण्टिका-रव-मुखर-कण्ठैः, मञ्जिष्ठालो- हित-स्कन्ध-केसर-बालैः, ^२निहत-वन॑-गज-रुधिर-पाटल-सटैरिव केसरिभिः, पुरो-निहित-यवस- राशि-शिखरोपविष्ट-मन्दुरापालैः, आसन्न-मङ्गल-गीत-ध्वनि-दत्तकर्णैः, अन्तःकपोल-धृत-मधुर- सरसै॑-लुलित-लाज॑-कवलैः, भूपालवल्लभैर्मन्दुरागतैस्तुरङ्गमैरुद्भासितम् , अधिक-रण-मण्डपग- तैरार्य्यवेशैरत्युच्चवेत्रासनोपविष्टैर्द्धर्म्ममयैरिव धर्म्माधिकारिभिर्महापुरुषैरधिष्ठितम् , अधिगत- सकल-ग्राम-नगरै॑-नामभिरेकभवनमिव जगदखिलमालोकयद्भिरालिखित-सकल-भुवन-व्यापा-

उज्ज्वलेति । इत आरभ्य तृतीयान्तानि यानि पदानि तानि 'तुरङ्गमैः' इत्यग्रेतनस्य विशेषणानि योध्यानि । उज्ज्वला दीप्तिमन्तो ये पट्टकम्बलाः कृमिकोशोद्भवसूत्ररचितकम्बलाः तैः पटु साधु प्रावारितानि आच्छादितानि पृष्ठानि येषां तैः तादृशैः । रसिताः गलसञ्चालनेन शब्दायमानाः मधुराः सुन्दरा या घण्टिकाः क्षुद्रघण्टाः तासां रवैः निनादैः मुखराः वाचालाः कण्ठा ग्रीवा येषां तैः तादृशैः । मञ्जिष्ठा रञ्जन- द्रव्यविशेषः तद्वद् लोहिताः रक्तवर्णाः स्कन्धेषु केसरसञ्ज्ञकरोमाणि येषां तैः तथोक्तैः, अत एव निहतानां मारितानां वनगजानाम् अरण्यहस्तिनां रुधिरैः शोणितैः पाटलाः श्वेतरक्ताः सटा जटा येषां तैस्तादृशैः केसरिभिः मृगेन्द्रैरिव विद्यमानैः, 'व्रतिनस्तु सटा जटा' इत्यमरः । पुरोऽग्रतो निहिताः स्थापिता ये यवसस्य शयः घासपुञ्जाः तेषां शिखरेषु ऊर्ध्वदेशेषु उपविष्टा मन्दुरापाला वाजिशालापालका येषां तैस्तादृशैः । 'वाजिशाला तु मन्दुरा' इत्यमरः । आसन्नां निकटवर्तिनो ये मङ्गलगीतध्वनयः माङ्गलिकगानशब्दाः तेषु दत्तौ न्यस्तौ कर्णौ श्रोत्रे यैस्तैस्तादृशैः, तेषामपि गीताकर्णनौत्कण्ठ्यस्य विद्यमानत्वादित्याशयः । अन्तः कपोलेषु कपोलाभ्यन्तरेषु धृताः स्थापिता मधुराः सुस्वादाः सरसा गुडेन आर्दीकृताः अत एव लुलिता उभयतो गलगुदुगाः लाजकवला धानाग्रासाः यैस्तैस्तादृशैः, गुडमिश्रिता लाजप्रासाः चापल्यवशान्मा निपातयन्विति मृत्यैर्मुखे ध्रियन्त इत्यन्नप्रकृतिः । भूपालवल्लभैः राजप्रियैः मन्दुरागतैः वाजिशालाप्राप्तैः तुरङ्गमैः अश्वैः उद्भासितं राजितम् अग्रेतनस्य राजकुलमित्यस्य विशेषणमेतत् ।

अधिकेति । अधिक्रियन्ते लोका अस्मिन्नित्यधिकरणं विचारालयः तन्मण्डपगतैः आर्य्यवेशैः शिष्टज- नयोग्यवेशैः सुपरिष्कृतवस्त्राच्छादनैरित्यर्थः, अत्युच्चानि अत्युन्नतानि यानि वेत्रासनानि वेतसविष्टराणि तेषु उपविष्टैः कृतोपवेशनैः धर्म्ममयैः धर्म्मानिष्पन्नैरिव, धर्म्माधिकारिभिः आचारदर्शिभिः प्राड्विवाकैः महापुरुषैः शिष्टान्याय तत्परतादिसद्गुणसहितेलोकैःअधिष्ठितम् आश्रितं राजकुलम् । इह 'धर्म्ममयैरिव' इति गुणोत्प्रेक्षा ।

अधिगतेति । अधिगतानि ज्ञातानि सकलप्रामनगराणां समस्तग्रामनगराणां नामानि अभिधेयानि यैस्तैस्तादृशैः । ग्रामलक्षणमुक्तं श्रीरघुनाथेन-

'तथा शूद्रजनप्राया सुसमृद्धकृषीवला । क्षेत्रोपयोगिभूमध्ये वसतिर्ग्रामसंज्ञिका ॥'

मार्कण्डेयपुराणे च नगरलक्षणञ्चोक्तम्-

'देवतायतनैश्चित्रैः प्रासादापणवेश्मभिः । नगरं दर्शयेद्विद्वान् राजमार्गेण शोभनैः ॥'

शोभा पा रहा था, उनका सम्पूर्ण पृष्ठ भाग उज्ज्वल रेशमी कम्बलोंसे ढँका हुआ था, मधुर घण्टियोंके बजनेसे उनके कण्ठदेश मुखर हो रहे थे, उनके कन्धोंके ऊपर मजीठ से रँगे हुए के समान लाल लाल सटाएँ थीं, अतएव निहत जंगली हाथीके रक्तसे रक्तवर्ण जटा-युक्त सिंहके समान वे घोड़े देखनेमें आ रहे थे । उनके आगे रखे हुए घासोंकी गठरियोंके ऊपर अश्वशालाके रक्षणगण (जमादार) बैठे थे । वे घोड़े समीपसे आती हुई मङ्गल गीतकी ध्वनिको कान लगाकर सुनते थे । गालके अन्दर गुड़ (मधुररस) में साने गये सुस्वाद दानेके ग्रास लिए हुए थे, अत एव गालके दोनों तरफसे उसका रस बाहर निकल रहा था, इस प्रकारके वे अश्व राजाके प्रिय थे । न्यायालय (कचहरी) में साक्षात् धर्मके ही समान बडे गुणवान् न्यायाधीशगण (जज आदि) सभ्यजनोचित वेशभूषाओंसे सुसज्जित होकर अत्यन्त ऊँची वेंतकी कुर्सियों पर बैठकर विद्यमान थे । न्यायालयके लेखकगण (पेशकार-नाजिर आदि) न्यायाधीशोंके आदेशों (परवाने) को लिखने थे, उससे समस्त ग्राम एवं नगरादिकोंका नाम जानते थे, एवं सर्वदा आलोचना करनेसे सब जगतको मानो एक ही घरके समान देखते थे और समस्त भुवनोंका व्यापार लिखनेसे


१. पटु... । २. प्रावृत, प्रावरित... । ३. वालपल्लवैः । ४. क्वचित् 'वन' इति पदं नास्ति । ५. मधु रसलव लुलित । ६. जन्बाल... । ७. ग्रामकण्टेन्गर, ग्रामह्वेंटनाम, सकलनगरह्वेटसर्वंट... ।