कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 306, कुल 709 में से
संदर्भ में पढ़ेंराजकुलवर्णना-२९ ] चन्द्रकला-विद्योतिनीसहिता । [ २६७
उत्तिष्ठता, निशासमयेनेव परिस्फुरत्सार्द्धचन्द्रनक्षत्रमालेन, शरदारम्भेणेव प्रकटितारुण-चारु-पुष्करेण, वामनरूपेणेव कृतत्रिपदीविलासेन, स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेन, प्रसाधितेनेव¹ आलोलं²-कर्णपल्लवाहृतमुखेन, गन्धमादननाम्ना गन्धहस्तिना सनाथीकृतैकदेशम् ;
दंशस्य च अतिवामनतया अतिह्रस्वतया कारणेन, 'खर्वो ह्रस्वश्च वामनः' इत्यमरः । पातालाद् रसातलाद् उत्तिष्ठतेव ऊर्ध्वं प्रादुर्भवतेव, अन्यस्यापि नीचादुन्नतप्रदेशोत्थानसमये एवंविधावस्थावलोकनादित्याशयः । इह **'उत्तिष्ठतेवे'**ति क्रियोत्प्रेक्षा ।
निशेति । निशासमयेन विभावरीकालेनेव, परिस्फुरन्ती समन्ताद्दीप्यमाना सार्द्धचन्द्रा अर्द्धचन्द्रसदृशभालभूषणसहिता नक्षत्रमाला सप्तविंशतिसंख्यकमुक्ताग्रथितदाम यस्य तेन तादृशेन । 'सैंव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिकैः' इत्यमरः । अन्यत्र परिस्फुरन्ती सार्द्धचन्द्रा अष्टमीचन्द्रसहिता नक्षत्रमाला तारकापङ्क्तिर्यत्र तेन तादृशेन ।
शरदिति । शरदारम्भेणेव घनात्ययप्रारम्भेणेव, प्रकटितं प्रकाशितम् अरुणं लोहितवर्णं चारु मनोहरञ्च पुष्करं शुण्डाग्रं यस्य तेन, अन्यत्र प्रकटितानि विकसितानि अरुणानि चारूणि च पुष्कराणि कमलानि यत्र तेन तादृशेन ।
'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ।
व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः ॥ इत्यमरः ।'
वामनेति । वामनरूपेण विष्णोर्वामनावतारेणेव, कृतो विहितः त्रिपद्या पादबन्धनशृङ्खलया विलासः खेला येन तेन तादृशेन, 'त्रिपदी पादबन्धनम्' इति यादवः । अन्यत्र त्रयाणां पदानां समाहारः इति त्रिपदी 'तद्धितार्थोत्तरपदसमाहारे च' इति समासः । कृतो विहितः त्रिपद्या त्रिभुवनेषु पादत्रयस्थापनेन विलासो लीला येन तेन तादृशेन ।
स्फटिकेति । स्फटिकगिरिः स्फटिकमयपर्वतः तस्य तटेनेव भित्त्येव, लग्ना दशनोपरि संसक्ता सिंहमुखा सिंहाननसदृशाग्रभागा प्रतिमा दन्तबन्धनशृङ्खला यस्य तेन तादृशेन । 'प्रतिमा प्रतिरूपके । गजस्य दन्तबन्धे च' इत्यनेकार्थः । अन्यत्र लग्ना सांमुख्येन केशरिणः स्थितत्वात् पतिता सिंहमुखस्य प्रतिमा प्रतिविम्बं यत्र तेन तादृशेन ।
प्रसाधितेनेति । प्रसाधितेनेव अनेकविभूषणैर्भूषितेन लोकेनेव, आलोलाभ्यां नितान्तचपलाभ्यां कर्णपल्लवाभ्यां विस्तृतश्रोत्राभ्याम् आहृतं भ्रमरापनयनाय ताडितं मुखं वदनं येन तेन तादृशेन । अन्यत्र आलोलाभ्यां कर्णपल्लवाभ्यां श्रोत्रकिसलयाभ्याम् आहृतं मुखं यस्य तेन तादृशेन ।
'निशासमयेनेव' इत्यारभ्य 'प्रसाधितेनेव' इत्यन्तं पूर्णोपमालङ्कारः ।
गन्धमादनेति । गन्धमादननाम्ना गन्धमादनसंज्ञकेन गन्धहस्तिना प्राक्प्रदर्शितस्वरूपेण गन्धगजेन सनाथीकृतः स्वसंयुक्तिकृतः अवस्थित इत्यर्थः, एकदेश एकभागो यस्य तत्तादृशम् , 'राजकुलम्'-इत्यस्य विशेषणम् ।
साथ ताराओंकी पङ्क्ति दीप्ति पाती रहती है, उसकी भी उसी प्रकार अर्धचन्द्राकृति ललाटाभरणके साथ मोतियोंकी माला दीप्ति पा रही थी। शरत्कालके आरम्भमें जिस प्रकार लाल और सुन्दर कमल प्रकट होते हैं उसका भी उसी प्रकार सुन्दर और लाल शुण्डाग्र प्रकाश पा रहा था। वामनावतार नारायणने जिस प्रकार बलिके यज्ञमें तीनों भुवनों (स्वर्ग-मर्त्य-पाताल) को अपने तीन पदों से लीला खेल किया (नापा) था, वह भी उसी प्रकार पाँवोंमें बँधी हुई जञ्जीरोंसे क्रीड़ा करता था। स्फटिकमय पर्वतभित्तिमें जिस प्रकार सिंहका प्रतिबिम्ब उसके फिरते रहने से पड़ता है, उसका भी उसी प्रकार दन्तके ऊपरमें एक सिंहमुखके समान अग्रदेशयुक्त दन्तबन्धन शृङ्खला (जञ्जीर) लगी हुई थी। विविध आभूषणोंसे भूषित व्यक्तिका मुख जिस प्रकार चञ्चल कर्णपल्लव द्वारा आहत होता रहता है, उसका मुख भी उसी प्रकार विस्तृत कानोंसे आहत होता था। इस प्रकार गन्धमादन नामक गन्धगज द्वारा राजभवनका एक देश संयुक्त था। एव वह राजभवन अश्वशाला में रहनेवाले अधिकतर घोड़ोंसे
१. प्रसाधितेन ।
२. लोल... ।