भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 301, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 301
२६२कादम्बरी-[ कथायाम्-

प्रसारितः करः। धन्या सा, या लक्ष्मीरिव निर्जितकमलं करतलमस्य वसुन्धरा-सपत्नी ग्रहीष्यति। धन्या च देवी विलासवती, सकलमहीमण्डल-भार^१-धारणक्षमः ककुभा दिग्गज इव गर्भेण ययाऽयव्यूढः।^२

इत्येवंविधानि चान्यानि च वदन्तीनां तासामापीयमान इव लोचनपुटैः, आहूयमान इव भूषणरवैः, अनुगम्यमान इव हृदयैः, निवध्यमान इव^३ आभरण-रत्न-रश्मिरज्जुभिः, उपह्रियमाण इव नवयौवनवलिभिः, शिथिल^४-भुजलता-विगलित-धवल-वलय-

वृत्त्याऽवगन्तव्यम् । लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि सः' इति रभसः। करः शुण्डादण्ड इव, अनेन चन्द्रापीडेन, उत्तानितम् ऊर्ध्वीकृतं तलं यस्य स तादृशः, कोमला मृदुला दीर्घाश्च अङ्गुलयो हस्तावयवा यस्य स तादृशः, तथा आताम्रम् ईषद्रक्तवर्णं यत् पुष्करं तद्वत् शोभत इति सः तादृशः, करो हस्तः, ताम्बूलयाचनार्थं नागवल्लीदलयाचनार्थं सलीलं सविलासं यथा स्यात्तथा प्रसारितो विस्तारितः। इदमपि पूर्ववदेव कथनम् । इह पूर्णोपमा, यद्वा श्लेषसङ्कीर्णोपमा ।

धन्येति । या ललना वसुन्धराया मेदिन्याः सपत्नी सती, अस्याश्चिरसम्पत्स्यमानवसुन्धराधिपतित्वादित्याशयः । लक्ष्मीरिव राज्यश्रीरिव निर्जितकमलं पद्मादपि अतिरमणीयमित्यर्थः । अस्य चन्द्रापीडस्य करतलं पाणिं ग्रहीष्यति विवाहसमय इति शेषः, सा धन्या सैव पुण्यशीला परम सौभाग्यशालिनीत्याशयः । सकाममिदं वचनम् । इहोपमा ।

ननु तच्छब्दानिर्दिष्टवाक्यस्य विधेयत्वेन पूर्वं निर्देशो नोचितः तथा सति 'न्यक्कारो ह्ययमेव ने यदरयः' इतिवत् वाक्यगतविधेयाविमर्शदोषप्रसक्तिरिति चेन्मैवम्, 'धन्या सा' इत्यस्य 'ग्रहीष्यति' इत्यस्याग्रे पाठविधानेन हतिविरहात् ।

धन्येति । यथा विलासवत्या, ककुभा लाशया दिग्गजः दिद्दन्ती इव, सकलमहीमण्डलस्य समस्तभूमण्डलस्य यद्धारधारणं शासनव्यापारसञ्चालनं गुरुत्वधारणञ्च, तत्र क्षमः समर्थः, अयं चन्द्रापीडः गर्भेण उदरेण अन्तर्गतैन च ऊढः धारितः । अभिलाषपूर्वकं कथनमिदम् । पूर्णोपमा । इह हि पूर्ववन्न विधेयाविमर्शदोषः उत्तरवाक्यगतयच्छब्दस्य तच्छब्दापेक्षाभावात् ।

इत्येवमिति । इति समाप्तौ 'इति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः । एवंविधानि पूर्वोक्तस्वरूपाणि एभ्यो भिन्नान्यनुक्तानि च वचनानि च वदन्तीनाम् अभिदधतीनां तासां पौराङ्गनानां लोचनपुटैः नेत्रयुगलैः आपीयमान इव इत्येवं सर्वत्रान्वयः । अपि च आभरणरत्नानां भूषणमणीनां रश्मयः किरणा एव रज्जवः ताभिः निबध्यमान इव । तथा नवयौवनान्येव नूतनतारुण्यान्येव वलय उपादानद्रव्याणि तैः उपह्रियमाण इव उपहारपात्रीक्रियमाण इव आदरेण दानस्पृहत्वादित्याशयः । तथा शिथिलाभ्यः मदनाविर्भावात् त्रस्ताभ्यः भुजलताभ्यः बाहुवल्लीभ्यः विगलितः च्युतः, धवलानां रजतभयत्वान्मणिमयत्वाद्वा श्वेतानां वलयानां कटकानां निकरः तद्रश्मिजालमित्यर्थः, येषु तैः तादृशैः कुसुममिश्रैः


समान शोभित करकमल को उत्तानित (चित्त) कर लीला के साथ फैलाया। वह रमणी ही धन्य है, जो कि- पृथिवी की सपत्नी होकर राजलक्ष्मी के समान इसका पद्मजयी (कमल से भी अधिक कोमल) हाथ का ग्रहण करेगी। दिशा जिस प्रकार दिग्गज को गर्भ में धारण करती है, उसी प्रकार जिसने, समस्त पृथिवी-मण्डल का भार वहन करने योग्य इस चन्द्रापीड को अपने गर्भ में रक्खा था, वह देवी विलासवती भी धन्य है।'

पुरवासिनी युवतियां इस प्रकार तथा इसी तरह के अन्यान्य वचन बोलने लगीं, उस समय उनकी आंखें मानों, चन्द्रापीड का पान करती थीं; नूपुरों के शब्द मानो उसे बुलाने लगे, मन मानो उसके पीछे-पीछे जाने लगा, अलङ्कार-स्थित-रत्नों की किरण-रूपी रस्सियों मानो उसे बाँध रही थीं, और वे नवयौवनरूप बलिदान द्वारा चन्द्रापीड को मानो पूजने लगीं। एवं विवाह की अग्नि में जिस प्रकार लाजा (धान की लावा) का निक्षेप होता है, उसी प्रकार लज्जातिपूर्ण


१. क्वचित् 'भार' इति पाठो नोपलभ्यते ।
२. ...दिग्गज इव यया च व्यूढः, गर्भेण दया व्यूढः, गर्भेण दयाऽयं व्यूढः ।
३. अनुबध्यमान इव ।
४. शिथिलित....।