भारतकोश
कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)

Kadambari (Purvardha) with Sanskrit-Hindi Commentary

बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा

DevanagariSanskritpublished709 पृष्ठ

पृष्ठ 300, कुल 709 में से

संदर्भ में पढ़ें
पृष्ठ 300

चन्द्रापीडावलोकने भावालाप०-२८ ] चन्द्रकला-विद्योतिनीसहिता । २६१

मिव कपोलतलमाभाति। अयमस्य हारान्तर्निविष्टारुण-मणि-किरण-कलापच्छलेन हृदयं विवि- क्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतदनेन चामरकलापान्तरैरित इव वीक्षितम्¹ एतत् किमपि वैशम्पायनेन सह समामन्त्र्य² दशन-मयूख-लेखा-धवलीकृते³-दिक्‌चक्रवालं हसितम् । एषोऽस्य शुक-पक्षति-हरित-रागेणोत्तरीयांशुकप्रान्तेन वलाहकस्तुरग-खुर-चलन- जन्मानं लग्नम्⁴ अग्रेकेशेषु रेणुमपहरति । अयमनेन लक्ष्मीकर-कमल-कोमल-तलः समु- त्क्षिप्य तिर्य्यक् तुरङ्गमस्कन्धे निक्षिप्तश्चरणपल्लवः । सलीलमयमेन च ताम्बूल-याचनार्थ- मुत्तानिततलैः कोमलैर्दीर्घाङ्गुलिः आताम्र-पुष्कर-शोभी गजेनेव शैवाल-कवल-लालसः⁷

अयमस्येति । अयं पुरोऽवलोक्यमानः, अभिनवयौवनस्य नूतनतारुण्यस्य रागः तत्समयसम्भवोऽनु-राग एव रागो रक्तिमा, हारस्य मुक्ताकलापस्य अन्तर्निविष्टाः मध्यप्रविष्टा ये अरुणमणयः पद्मरागाः तेषां किरणकलापच्छलेन रश्मिसमूहव्याजेन विद्यमान इत्यर्थः, हृदयं चित्तं विवक्षुः प्रवेष्टुमिच्छुरिव सन् बहिः परिस्फुरति सम्प्रत्यपि अन्तर्गमनाभावाद् हृदयोपरि प्रसर्पति । वक्षःस्थले रक्तकान्तिः समीक्ष्यते, नासाय-रुगमणिकान्तिः, किन्तु तारुण्यसम्भवानुरागो हृदयं प्रवेष्टुमिच्छुः सम्प्रत्यपि वहिस्तिष्ठतीति स्पष्टार्थः । इदमप्यभिलाषापूर्वकं वचनम् । इह सापह्नवोन्मेक्षा, अभेदाध्यवसायादतिशयोक्तिश्च, अनयोर्मिथोऽङ्गाङ्गि-भावेन सङ्करः।

एतदिति । अनेन चन्द्रापीडेन चामरकलापस्य सञ्चाल्यमानचामरसमूहस्य अन्तरैः मध्यप्रदेशैः इत एव मां प्रत्येव एतद् वीक्षितम् एतदिति दर्शनक्रियायाः परामर्शः । इदं च सविलासमन्मथं कस्याश्चिद्वचनम् ।

एतदिति । वैशम्पायनेन सह किमपि समामन्त्र्य सम्भाषणं विधाय, दशनानां दन्तानां या मयूखलेखा रश्मिपङ्क्तिः तया धवलीकृतं शुभ्रीकृतं दिक्कचक्रवालं दिङ्मण्डलं यत्र क्रियायां तद्यथा स्यात्तथा एतद् हसितम् अयमनेन हासः कृतः समन्मयेयमुक्तिः । इह दिक्कचक्रवालस्य धवलीकरणसम्बन्धाभावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्तिः।

एष इति । एष बलाहकः तत्संज्ञकः सेनानायकः, शुकपक्षतेः कीरपतत्रिपक्षमूलस्येव हरितो नीलो रागो वर्णो यस्य तेन तादृशेन उत्तरीयांशुकप्रान्तेन, संव्यानवस्त्रप्रान्तेन तुरगाणाम् अश्वानां ये खुराः शफाः तेषां चलनाद् गमनाद् जन्म उत्पत्तिर्यस्य तं तादृशम्, अस्य राजकुमारस्य चन्द्रापीडस्य अग्रेकेशेषु कचाग्रेषु लग्नं संसक्तं रेणुं धूलिम् अपहरति दूरीकरोति । साभिलापमिदं वचनम् । इह 'शुकपक्षतिहरितरागेण' इत्यत्र लुप्तोपमालङ्कारः ।

अयमिरिति । अनेन चन्द्रापीडेन, लक्ष्म्याः पद्मा या यत् करकमलं पाणिसरोरुहं तद्वत् कोमलं मृदुतलं यस्य स तादृशः अयं चरणपल्लवः पादकिसलयः, तिर्यक् समुत्क्षिप्य तिर्यग्भावेनोत्थाप्य तुरङ्गमस्कन्धे सलीलं यथा स्यात्तथा निक्षिप्तः स्थापितः । प्राग्वदेव कथनमिदम् । इहापि 'लक्ष्मीकरकमलकोमलतल' इत्यत्र लुप्तोपमालङ्कारः ।

सलीलमिति । गजेन हस्तिना आताम्रेण ईषद्रक्तवर्णेन पुष्करेण शुण्डाग्रेण शोभते इति स तादृशः तथा शैवालकवले शैवालग्रासोपादने लालसो लोलुभः गजस्य लोलुभत्वात् तच्छुण्डाया अपि लोलुभत्वं गौणम्


इसकी नई जवानी का अनुराग (रंग) मानो हृदयमें प्रवेश करनेकी इच्छा कर, मुक्तामाला (हार) के अन्तर्गत पद्मरागमणियोंकी किरणोंके बहाने अब भी बाहर ही प्रकाश पा रहा है। यह उसने इन चामरोंके भीतर देकर इस तरफ ही मानो दृष्टिपात क्या : वैशम्पायनके साथ किसी विषयकी बातचीत कर दन्त-किरणोंसे दिशाओंको सफेद कर यह हँसा । यह बलाहक (सेनापति), शुक (तोते) के पंखके समान हरे अपने उत्तरीयवस्त्र (दुपट्टा) के प्रान्त-द्वारा (कोरसे) घोड़ेके खुरोंमेंसे उड़-उड़ कर इसके आगेके बालोंपर पड़ी हुई धूलको पोंछता है। यह उसने, लक्ष्मीदेवीके करकमलके समान कोमल-तल-सम्पन्न अपने चरण-पल्लवको तिर्यग्भावसे (तिरछा कर) ऊँचा उठाकर घोड़ेके कन्धे पर आड़ा डाला। हाथी जिस प्रकार शैवालका ग्रास ग्रहण करने के समय इच्छासे अपना मूँड फैलाता है, उसी प्रकार इसने ताम्बूल लेनेके लिए अपने कोमल और लम्बी उँगलीवाले, एवं कुछ-कुछ लाल कमल-कोशके


१. एतदलकचामरकलापान्तरेरितविरलवीक्षितम्, अनेकचामरकलापान्तरितमस्य वीक्षितम् । २. समा-मन्त्रयतः । ३. ॰॰॰धवलित॰॰॰ । ४. आलमन्, आलम्बकेशेषु । ५. ॰॰॰तल, करतल । ६. क्वचिद् 'कोमल' इति पदं नास्ति । ७. ॰॰॰कमलग्रासलालसः, कमलग्रासवाञ्छया ।

कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका) · पृष्ठ 300, कुल 709 में से · BharatKosha