कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 302, कुल 709 में से
संदर्भ में पढ़ेंराजवाटीवर्णन-२९ ] चन्द्रकला-विद्योतिनीसहिता । २६३
निकरैः¹ पदे² पदे इव विवाहानल इव कुसुममिश्रै³र्लाजाञ्जलिभिरवकीर्यमाणश्चन्द्रापीडो राजकुलसमीपमाससाद ।
क्रमेण च यामावस्थिताभिः अनवरत-करटस्थल-विगलित-मद-मसीपङ्क-करीभिः⁴ अञ्जनगिरिमालामिलिनाभिः कुञ्जर-घटाभिरन्धकारितदिङ्मुखतया जलधरदिवसायमानम्, उद्दण्ड-धवलानपत्रसहस्रसङ्कटम्, अनेकद्वीपान्तरागतदूतशत-समाकुलं⁵ राजद्वारमासाद्य-तुरङ्गमादवततार ।
अवतीर्य च करतलेन करे वैशम्पायनमवलम्ब्य पुरः सविनयं प्रस्थितेन वलाहकेनो-
पुष्पसंयुक्तैः लाजाञ्जलिभिः अञ्जलिपूर्णधानाभिः विवाहानल इव उपयमनसामयिकवह्रिरिव, पदे पदे प्रतिपदक्षेपम् अवकीर्यमाणः ताभिः पौराङ्गनाभिरभिवृष्यमाणः, चन्द्रापीडः राजकुलसमीपं राजवाव्यान्तिकम् आससाद प्राप। शास्त्रोद्देशानुसारेण विवाहकाले तदग्नेरुपरि लाजाक्षेपः, देशाचारानुसारेण राजागमनेऽपि लाजाक्षेपः इति द्वयोः सादृश्यम् । तथा च कालिदासोऽपि—
'अवाकिरन् बाललताप्रसूनैराचारलाजैरिव पौरकन्याः।' इहोपमालङ्कारः ।
क्रमेणेति । क्रिश्चेति चार्थः। यामेषु अवस्थिताभिः प्रतिप्रहरं भिन्नभिन्नरूपेण वर्तमानाभिः । अनवरतं निरन्तरं करटस्थलेभ्यः कपोलभागेभ्यः विगलिताः च्युताः मदा दानवारीण्येव मसीपङ्काः गाढमस्यः श्यामतासादृश्यात्, अथवा तथाविधमदाः मसीपङ्का इव तान् कुर्वन्ति विदधत इति ताभिः तादृशीभिः, अञ्जनस्य कज्जलस्य गिरिः पर्वतः तस्य माला पङ्किः तद्वत् मलिनाभिः कृष्णवर्णाभिः कुञ्जरघटाभिः राजनिकरैः करणेः, अन्धकारितानि समुत्पन्नान्धकाराणि दिङ्मुखानि दिग्वदनानि यस्य तस्य भावः तया कारणेन, जलधरदिवसायमानं दुर्द्दिनवदाचरत् । उद्दण्डानाम् उत्थापितदण्डानां धवलातपत्राणां श्वेतच्छत्राणां सहस्रेण निकरेण सङ्कटं व्याप्तम्, तथा अनेके विविधा ये द्वीपान्तरा देशान्तराः तेभ्य आगतानां निजनिजाधिपत्यफलोपपत्तये उपस्थितानां दूतानां सन्देशहारकाणां शतेन वृन्देन, समाकुलं व्याप्तं प्रवेशादेशापेक्षया तेषां तत्र वर्तमानत्वादित्याशयः । राजद्वारम् आसाद्य प्राप्य तुरङ्गमात् अश्वात् अवततार अवतीर्णः ।
इह 'अनवरते' त्यादौ ज्ञापकनिवारकयुक्त्यनुपलम्भात् उपमारूपकयोः, सन्देहसङ्करः । 'अञ्जनगिरिमाले' त्यादौ व्यङ्गतोपमालङ्कारः ।
अवतीर्येति । अपि चेति चार्थः । चन्द्रापीडः अवतीर्य तुरङ्गमादुत्तीर्य, करतलेन हस्ततलेन करे वैशम्पायनम अवलम्ब्य मन्त्रिसुतस्य करं धृत्वेत्यर्थः, सविनयं विनयसहितं यथा स्यात्तथा पुरः प्रस्थितेन अग्रे गन्तुं प्रवृत्तेन बलाहकेन तत्संज्ञकेन सेनानायकेन उपदिश्यमानमार्गः प्रदर्श्यमानप्रवेशपथः सन्, पुञ्जीभूतम् अत्यन्तविस्तृतत्वात् सर्वविश्ववस्त्वारायत्वान्न एकत्र समवेतं त्रिभुवनमिव त्रिजगदिव विद्यमानं राजकुलं विवेशेति सुदूरस्थाचिन्त्या क्रियया सम्बन्धः । इह 'त्रिजगदिव' इति जात्युत्प्रेक्षालङ्कारः ।
कर फूलोंसे मिली हुई लाजाओंको पद-पद पर चन्द्रापीडके शरीरके ऊपर निक्षेप करती (बिखेरती) थीं, उस समय उनके शिथिल भुजलताओँसे गिरे सफेद कङ्कणकी किरणें उस लाजाके साथ मिलनी थीं; इस रूपसे .चन्द्रापीड राजभवनके पास आ पहुँचा ।
चन्द्रापीड क्रमसे राजद्वार पर पहुँच कर घोड़े परसे उतरा । वहाँ प्रत्येक प्रहरमें परिवर्तित होकर (बदल कर ) बहुत हाथी रहते थे; उनके गण्डस्थलमैँसे बराबर गाढ़ मसीपङ्कके समान मदजल विगलित होते थे, एवं वे कज्जलमय पर्वतके समान काले (मलिन ) थे, जिसके द्वारा समीपवर्ती दिशाओंके मुख पर अँधेरा हो जानेसे वह राजद्वार मेघाच्छन्न दिनके समान दिखाई देता था, एवं ऊँचे उठे दण्डवाले बहुतस्र श्वेत छत्रोंसे परिपूर्ण था और अन्यान्य अनेक द्वीपोंसे आए सैकड़ों खड़े राजदूतोंसे व्याप्त था ।
चन्द्रापीड, घोड़े परसे उतर कर अपने हाथसे वैशम्पायनका हाथ पकड़कर राजभवनमें प्रवेश किया, उस समय बलाहक (सेनापति), विनयके साथ आगे-आगे जाकर मार्ग बतलाना जाता था । वह राज-भवन एकत्रित
१. ॰निकरैः । २. मिश्र । ३. क्वचित् 'वि' इत्यधिकः पाठो न विद्यते । ४. नभीरुचिभिः, नसीमट्ट-धारिभिः । ५. क्वचित् 'समाकुलम्' इत्यस्य स्थाने 'सङ्कुलम्' इति पाठो दृश्यते ।