कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
पृष्ठ 303, कुल 709 में से
संदर्भ में पढ़ें२६४ | कादम्बरी- | [ कथायाम्-
पदिश्यमान-मार्गः त्रिभुवनमिव पुञ्जीभूतम् , आगृहीत-कनक-वेत्रलतैः सित-वारबाणैः^१ सिता- ङ्गरागैः^२ सितकुसुमशेखरैः सितोष्णीषैः सितवेषपरिग्रहतया श्वेतद्वीपसम्भवैरिव कृतयुगपुरु- षैरिव महाप्रमाणैर्दिवानिशमालिखितैरिव उत्कीर्णैरिव तोरणस्तम्भनिषण्णैर्द्वारपालैरनुज्झितद्वा- रदेशम्, अनेक-सञ्जवन^३-चन्द्रशाला^४-विटङ्क-वेदिका-सङ्कट-शिखरैरभ्रङ्कषैरुपहसित-कैलास- शैल-शोभैः^५ अमलसुधावदातैः सप्रालेयशलैरिमिव^६ महाप्रासादैः, अनेक-वातायन-विवर-विनि- र्गत-युवति-भूषण-किरण^७-सहस्रतया कनकश्शृङ्खलाजालकेनेवोपरिविस्तीर्णेन^८ विराजमानम् ,
आगृहीतेति । इत आरभ्य यानि तृतीयान्तानि पदानि तानि अग्रेतनस्य 'द्वारपालैः' इत्यस्य विशे- षणानि बोध्यानि । आगृहीता आत्ताः कनकवेत्रलताः सुवर्णवेष्टितवेतसयष्टयो यैस्तैस्तादृशैः । सिताः श्वेताः वारबाणाः कञ्चुका येषां तैस्तादृशैः । सिताङ्गरागैः शुभ्रानुलेपनैः सितकुसुमशेखरैः शुभ्रपुष्पमुकुटैः सितोष्णीषैः श्वेतमूर्धवेष्टनैः । सितवेषपरिग्रहतया श्वेतनेपथ्याङ्गीकारतया श्वेतद्वीपसम्भवैरिव श्वेतद्वीपो- त्पन्नैरिव तेषां सर्वशुक्लत्वादित्याशयः । कृतयुगपुरुषैः सत्ययुगीयलोकैरिव महाप्रमाणैः अत्युच्चस्वरूपिभिः, आलिखितैरिव चित्रितैरिव निरन्तरसावधानतया निष्क्रियत्वादित्याशयः । उत्कीर्णैरिव बहिरुद्वारस्तम्भेषु क्षोदितैरिव गाढसंलग्नत्वादित्याशयः । तोरणस्य बहिर्द्वारस्य स्तम्भेषु निषण्णैः तदाधारत्वेनावस्थितैः द्वार- पालैः दौवारिकैः दिवानिशं रात्रिन्दिवम् अनुज्झितः अपरित्युक्तः द्वारदेशो यस्य तत्तादृशम् ।
अनेकेति । अनेका अधिकतराः, संजवनानि चतुःशालानि, चन्द्रशाला ऊर्ध्ववर्त्तिभवनानि, विटङ्कानि कपोतपालिकाः, वेदिका उपवेशनाद्यर्थं बद्धभूमयश्च ताभिः सङ्कटानि व्याप्तानि शिखराणि ऊर्ध्वप्रदेशा येषां तैस्तादृशैः । 'सञ्जवनन्द्विदम् । चतुःशालम् ।' इति, 'कपोतपालिकायां तु विटङ्कं पुंस्रपुंसकम्' इति चामरः । 'शुद्धान्ते वलभीचन्द्रशाले सौधोर्ध्ववेश्मनि' इति रभसः । अभ्रं गगनं कषतीति तैः व्योम- व्यापिभिः, उपहसिता आपेक्षिकाधिकधवलत्वान्न्युब्जताम्पादादृता कैलासशैलस्य हिमालयपर्वतस्य शोभा- यैस्तैः तादृशैः । अमलाभिः निर्मलाभिः सुधानिः चूर्णलेपैः अवदाताः शुभ्राः तैस्तादृशैः । महाप्रासादैः विशा- लाट्टालिकाभिः करणैः प्रालेयशैलैर्हिमालयपर्वतैः सहेति सप्रालेयशैलं तद्विव विद्यमानम् इति राजकुलस्य विशेषणम् । तथा विधाट्टालिकानां कैलासाचलसदृशत्वादित्याशयः । इह **'सप्रालेयशैलमिवे'**त्युत्प्रेक्षा ।
अनेकेति । अनेकेभ्यो बहुतेरेभ्यः वातायनविवरेभ्यः गवाक्षच्छिद्रेभ्यो विनिर्गतं विनिःसृतं युव- तिभूषणकिरणानां तरुण्यलङ्काररश्मीनां सहस्रं समूहो यत्र तस्य भावस्तया कारणेन, उपरिविस्तीर्णेन प्रसारितेन कनकानां सुवर्णानां याः शृङ्खला निगडाः तासां जालकेन समूहेनेव विराजमानं शोभमानम्, तद्रश्मीनां कनकश्शृङ्खलावदवगम्यमानत्वादित्याशयः ।
त्रिभुवनके समान बहुत बड़ा देखनेमें आता था । उसके स्तम्भके पास द्वारपालगण सर्वदा रहते थे, उन लोगोंके हाथमें सुवर्णखचित वेत्रयष्टि ( बेंतकी छड़ी ), शरीरमें श्वेतवर्ण कवच, और श्वेतवर्ण अङ्गराग एवं मस्तक पर श्वेतवर्ण फूलोंकी माला और श्वेतवर्ण उष्णीष ( पगड़ी ) थे । अतएव श्वेतवर्ग सब परिच्छेदों ( पोशाकों ) को धारण करनेसे मानों श्वेतद्वीपमें उत्पन्न हुए हैं ऐसा प्रतीत होता था । सत्ययुगके मनुष्योंके समान उन लोंगोंकी अत्यन्त दीर्घ आकृति थी । निश्चलभावसे रहनेके कारण वे लोग चित्रितके समान एवं दिन-रात तोरणस्तम्भोंमें गाढ़ संलग्न होनेसे क्षोदितके समान प्रतीत होते थे । उस राजभवनमें कलासकी शोभाको भी तिरस्कार करनेवाला एवं ऊचाईमें आकाश तक पहुँचनेवालो तथा निर्मल चूनेसे सफेदी की हुई बड़ी-बड़ी अट्टालिकाएं (महलें) थीं । उसकी चोटियों पर अधिकतर चतुःशालार्ण (चौकोन कमरे), चन्द्रशालाएँ, कबूतरोंकी दड़वें बनी थी और बैठनेके लिए ऊँचे चबूतरे बने थे । अतएव प्रतीत होता था मानो वह राजभवन हिमालय से संयुक्त हो कर विद्यमान है । अधिकतर खिड़कियोंके छिद्रसे युवतियोंके आभूषणोंकी हजारों किरणोंके फैलनेसे ऐसा प्रतीत होता था मानो ऊपर के मार्गोंमें सोनेकी श्रृङ्खलाओंका जाल बिछा दिया गया है । उससे राजभवन शोभित हो रहा था । उसके
१. सितवारवाणधारिभिः । २. 'सिताङ्गराग' इति पाठ एव क्वचिन्नोपलभ्यते । ३. '...संयमन, सयवन...' । ४. शालिका । ५. अपहसितकैलासशोभैः, अत्रैव क्वचित् 'शैल' इति पदं नोपलभ्यते । ६. शैलेयमिव । ७. क्वचित् 'भूषण' इति पदं नास्ति । ८. वितानेन, विततेन ।